________________
तत्त्वार्थवार्तिके
[१६ दृष्टप्रयोग इतिरिह विवक्षातः समाप्तिद्योतनो द्रष्टव्यः । ततो यथाख्यातचारित्रात् सकलकर्मक्षयसमाप्तिर्भवतीति ज्ञाप्यते।
_ उत्तरोत्तरगुणप्रकर्षख्यापनार्थमानुपूर्व्यवचनम् ॥१४॥ सामायिकादीनामानुपूर्व्यवचनमुत्तरोत्तरगुणप्रकर्षख्यापनार्थ क्रियते। तद्यथा-सामायिकछेदोपस्थापनासंयमजघन्यविशुद्धिलब्धिरल्पा । ततः परिहारविशुद्धिचारित्रस्य जघन्या लब्धिरनन्तगुणा, तस्यैवोत्कृष्टा लब्धिरनन्तगुणा । ततः सामायिकछेदोपस्थापनासंयमोत्कृष्टा विशुद्धिरनन्तगुणा। ततः सूक्ष्मसाम्परायचारित्रस्य जघन्यविशुद्धिरनन्तगुणा । तस्यैवोत्कृष्टा विशुद्धिरनन्तगुणा । ततो यथाख्यातचारित्रस्य विशुद्धिः संपूर्णा प्रकर्षाप्रकर्षविरहिता अनन्तगुणा । एवमेते पञ्च चारित्रोपयोगाः शब्दविषयत्वेन संख्येय
भेदाः, बुद्धधध्यवसानभेदादसंख्येयाः, अर्थतोऽनन्तभेदाश्च भवन्ति । तदेतच्चारित्रं पूर्वानवनिरो१० धकारणत्वात्परमसंवरहेतुरवसेयः।।
आह-उक्तं चारित्रम् , तदनन्तरमुद्दिष्टं यत् “तपसा निर्जरा च" [१३] इति, तस्येदानीं तपसो विधानं कर्त्तव्यमितिः अत्रोच्यते-तद् द्विविधं बाह्यमभ्यन्तरं च, तत्प्रत्येकं षड्विधम् , तत्र बाह्यस्य भेदप्रतिपत्त्यर्थमाहअनशनावमोदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासन
कायक्लेशा बाह्य तपः॥१९॥ दृष्टफलानपेक्षं संयमप्रसिद्धिरागोच्छेदकर्मविनाशध्यानागमावाप्त्यर्थमनरनवचनम् ।। यत्किश्चिद् दृष्टफलं मन्त्रसाधनाद्यनुद्दिश्य क्रियमाणमुपवसनमनशनमित्युच्यते। तस्किमर्थम् ? संयमप्रसिद्धिरागोच्छेदकर्मविनाशध्यानागमावाप्त्यर्थमवसेयम् ।।
तद् द्विविधम्-अवधृतानवधृतकालभेदात् ।। तदनशनं द्वधा व्यवतिष्ठते । कुतः ? अवधृ२० ताऽनवधृतकालभेदात् । तत्रावधृतकालं सकृद्रोजनं चतुर्थभक्तादि, अनवधृतकालमादेहोपरमात् ।
संयमप्रजागरदोषप्रशमसंतोषस्वाध्यायसुखसिद्धघाद्यर्थमवमोदर्यम् ।। आशितंभवो य ओदनः तस्य चतुर्भागेनार्द्धग्रासेन वा अवममूनं उदरमस्यासाववमोदरः, अवमोदरस्य भावः कर्म वा अवमोदयम् । तत्किमर्थम् ? संयमप्रजागरदोषप्रशमसंतोषस्वाध्यायसुखसिद्धयर्थम् ।
एकागारसप्तवेश्मैकरथ्याचप्रामादिविषयः संकल्पो वृत्तिपरिसंख्यानम् ।। भिक्षार्थिनो २५ मुनेरेकागारादिविषयः संकल्पश्चिन्तावरोधः वृत्तिपरिसंख्यानमाशानिवृत्त्यर्थमवगन्तव्यम् ।
दान्तेन्द्रियत्वतेजोऽहानिसंयमोपरोधव्यावृत्याद्यर्थ घृतादिरसत्यजनं रसपरित्यागः ।। दान्तेन्द्रियत्वं तेजोऽहानिः संयमोपरोधनिवृत्तिरित्येवमाद्यर्थ घृतदधिगुडतैलादिरसत्यजनं रसपरित्याग इत्युच्यते।
रसवत्परित्याग इति चेत्, न; मतोल्तनिर्दिष्टत्वात् ।६। स्यान्मतम्-रसशब्दोऽयं गुण३० वाची, तद्वतश्चात्र परित्याग इष्ट इति तस्माद्रसवत्परित्याग इति निर्देशः कर्त्तव्य इति; तन्न; किं ___ कारणम् ? मतोलुप्तनिर्दिष्टत्वात् । लुप्तनिर्दिष्टोऽत्र मतुः यथा शुक्लः पट इति ।
___ अव्यतिरेकाद्वा तद्वत्संप्रत्ययः ।७। अथवा, न गुणं व्यतिरिच्य गुणी वर्तते, ततः साम•त्तद्वनिर्देशः प्रतिपत्तव्यः । द्रव्यत्यागमुखेन रसपरित्यागो नान्यथेति ।
सर्वत्यागप्रसङ्ग इति चेत्, न; प्रकर्षगतेः ।। स्यादेतत्-सर्वमुपभोगाई पुद्रलद्रव्यं रसवत्, ३५ अतः सर्वत्योगः प्राप्नोतीति; तन्नः किं कारणम् ? प्रकर्षगतेः । यथा अभिरूपाय कन्या देयेति
कोऽर्थः-० टि.। २ द्रव्याश्रयादतीतानागतनानाजीवापेक्षयेत्यर्थः-१० टि० । ३ चतुर्थषष्ठबेलाभक्कादि-श्र0 टि०।४ तृप्तिनिमित्तः-श्र० टि.।