________________
६।१ ]
नवमोऽध्यायः . गुप्तिप्रसङ्ग इति चेत्न ; इह मानसप्रवृत्तिभावात् ।। स्यादेतत्-निवृत्तिपरत्वात् सामायिकस्य गुप्तिप्रसङ्ग इति? तन्नः किं कारणम् ? मानसप्रवृत्तिभ.वात् । अत्र मानसी प्रवृत्तिरस्ति निवृत्तिलक्षणत्वादु गुप्तरित्यस्ति भेदः।।
समितिप्रस इति चेत्, नः तत्र यतस्य प्रवृत्त्युपदेशात् ।। स्यान्मतम्-यदि प्रवृत्तिरूपं सामायिक समितिलक्षणं प्राप्तमिति; तन्नः किं कारणम् ? तत्र यतस्य प्रवृत्त्युपदेशात् । सामायिके ५
तषु प्रवृत्तिरुपदिश्यते । अतः कार्यकारणभेदादस्ति विशेषः ।। धर्मप्रसङ्ग इति चेत्न; अन्ते वचनस्य कृत्स्नकर्मक्षयहेतुत्वज्ञापनार्थत्वात् ।। स्यादेतत्दशविधो धर्मो व्याख्यातः, तत्र संयमेऽन्तर्भावोऽस्य प्राप्नोतीति; तन्नः किं कारणम् ? अन्ते वचनस्य कृत्स्नकर्मक्षयहेतुत्वज्ञापनार्थत्वात् । धर्मे अन्तर्भूतमपि चारित्रमन्ते गृह्यते मोक्षप्राप्तः साक्षात्कारणमिति ज्ञापनाय।
प्रमादकृतानर्थप्रबन्धविलोपे सम्यक प्रतिक्रिया छेदोपस्थापना ।६। त्रसस्थावरजन्तुदेशकाल'प्रादुर्भावनिरोधाप्रत्यक्षत्वात् प्रमादवशादभ्युपगतनिरवद्यक्रियाप्रबन्धविलोपे सति तदुपात्तस्य कर्मणः सम्यक् प्रतिक्रिया छेदोपस्थापना विज्ञेया ।
विकल्पनिवृ()तिर्वा ।। अथवा, सावधं कर्म हिंसादिभेदेन विकल्पनिय]ित्तिः छेदोपरथापना। ____परिहारेण विशिष्टा शुद्धिर्यस्मिस्तत्परिहारविशुद्धिचारित्रम् । परिहरणं परिहारः प्राणिवधानिवृत्तिस्तेन विशिष्टा शुद्धिर्यस्मिंस्तत्परिहारविशुद्धिचारित्रं प्रत्येतव्यम् । तत्पुनरिंशद्वर्षजातस्य संवत्सरपृथक्त्वं तीर्थकरपावमूलसेविनः प्रत्याख्याननामधेयपूर्वापर(पूर्वपार)गतस्य जन्तुनिरोधप्रादुर्भावकालपरिमाणजन्मयोनिदेशद्रव्यस्वभावविधानझस्य प्रमादरहितस्य महावीर्यस्य परमनिर्जरस्य अतिदुष्करचर्यानुष्ठायिनः, तिस्रः संध्या वर्जयित्वा द्विगव्यूतगामिनः संपद्यते, नान्यस्य । २०
अतिसमकवायत्वात सूक्ष्मसाम्परायम् ।। सूक्ष्मस्थलसत्त्ववधपरिहाराप्रमत्तत्वात अनपहतोत्साहस्य अखण्डितक्रियाविशेषस्य सम्यग्दर्शनज्ञानमहामारुतसन्धुक्षितप्रशस्वाध्यवसायाग्निशिखोपश्लुष्टकर्मेन्धनस्य ध्यानविशेषविशिखीकृतकषाय विषाङ्कुरस्य अपचयाभिमुखालीनस्तोकमोहबीजस्यं तत एव परिप्राप्तान्वर्थसूक्ष्मसाम्परायशुद्धिसंयतस्य सूक्ष्मसाम्परायचारित्रमाख्यायते ।
गुप्तिसमित्योरम्यतरत्रान्तर्भाव इति चेत् न, तनावेऽपि गुणविशेषनिमित्ताश्रणात् ।१०। २५ स्थान्मतम्-गुप्तिसमित्योरन्यतरत्रान्तर्भवतीदं चारित्रं प्रवृत्तिनिरोधात् 'सम्यगयनाच्चेति तन्नः किं कारणम् ? तद्भावेऽपि गुणविशेषनिमित्ताश्रयणात् । लोभसंज्वलनाख्यः साम्परायः सूक्ष्मो भवतीत्ययं विशेष आश्रितः।
निरवशेषशान्तक्षोणमोहत्वादथाख्यातचारित्रम् ।११। चारित्रमोहस्य निरवशेषस्योपशमात् क्षयाचात्मस्वभावावस्थापेक्षलक्षणमथाख्यातचारित्रमित्याख्यायते। पूर्वचारित्रानुष्ठायिभिरा- ३० ख्यातं न तु परिप्राप्तं प्राङ्मोहक्षयोपशमाभ्यामित्यथाख्यातम् । अथशब्दस्यानन्तर्यार्थवृत्तित्वाग्निरवशेषमोहक्षयोपशमानन्तरमाविर्भवतीत्यर्थः।
• यथाख्यातमिति वा ।१२। अथवा, यथा आत्मस्वभावोऽवस्थितः तथैवाख्यातत्वात् यथाख्यावमित्याख्यायते । ___ इतेरुपादानं ततः कर्मसमाप्तिक्षापनार्थत्वात् ॥१३॥ हेत्वेवंप्रकारव्यवस्थाविपर्यासादिष ३५
-: उत्पतिविनाश-श्र० टि० । २ अनय-श्र० टि०। ३ एकीभावात्-श्र० टि०। ४ धातूनामनेकार्थत्वात् गत्यर्थ प्रारम्-श्र० टि० ।