________________
६१६ तत्त्वार्थवार्तिके
[११वंशमशकस्य युगपत्प्रवृत्तेरेकानविंशतिविकल्प इति चेत् ;न प्रकारार्थत्वान्मशकशब्दस्य ।४। स्यादेतत्-प्रज्ञाऽज्ञानयोर्विरोधाधुगपदसंभवे दंशमशकस्य युगपत्प्रवृत्तरेकानविंशतिविकल्प इति; तन्नः किं कारणम् ? प्रकारार्थत्वान्मशकशब्दस्य, एक एव ह्ययं परीषहः ।
दशग्रहणात्तुल्यजातीयसंप्रत्यय इति चेत् ; न; श्रुतिविरोधात् ।। अथ मतमेतत्-दंशग्रहणात्तुल्यजातीयसंप्रत्ययस्ततो मशकशब्दस्य न प्रकारार्थत्वमिति; तन्नः किं कारणम् ? श्रुतिविरोधात् । यच्छब्द आह तन्नैः प्रमाणम् , न च दंशशब्दः प्रकारमभिधत्ते, ततोऽस्य विरोधः स्यात् ।
. तत्तुल्यमिति चेत् ;न; अन्यतरेण परीषहस्य निरूपितत्वात् ।६। यदि श्रुतिविरोधादन्यार्थकल्पनमयुक्तमित्युच्यते; ननु मशकशब्देऽपि तत्तुल्यमिति प्रकारार्थत्वमस्य नोपपद्यते इति;
तन्नः किं कारणम् ? अन्यतरेण परीषहस्य निरूपितत्वात् । दशग्रहणेनैव परीषहे निरूपिते मश१० क हणसामर्थ्यात्प्रकारार्थो विज्ञायते ।
चर्याचविशेषादेकानविंशतिवचनमिति चेत् । न; अरतौ परीषहजयाभावात् ।। स्यान्मतम्-चर्यादीनां त्रयाणां परीषहाणामविशेषादेकत्र नियमाभावादेकत्वमित्येकानविंशतिवचनं क्रियते इति; तन्नः किं कारणम् ? अरतौ परीषहजयाभावात् । यद्यत्र रँतिर्नास्ति परीषहजय एवास्य
व्युच्छिद्यते । तस्माद्यथोक्तप्रतिद्वन्द्विसान्निध्यात् परीषहस्वभावाश्रयपरिणामात्मलाभनिमित्तविच१५ क्षणस्य तत्परित्यागायो दरप्रवृत्त्यर्थमोपोद्घातिकं प्रकरणमुक्तम् ।
निर्दिष्टाः परीषहाः, यैरनाविष्टा विपश्चितोऽभिनवानि कर्माणि नोपचिन्वन्ति पूर्वप्रचितानि च निर्जरयन्ति। तदनन्तरं खलु कर्मनिर्हरणार्थमाहितसामर्थ्य पुरुषसाध्यं यदवोचाम चारित्रम् , तच्चारित्रमोहोपशमक्षयक्षयोपशमलक्षणात्मविशुद्धिलब्धिसामान्यापेक्षया एकम् । प्राणिपीडापरिहा
रेन्द्रियदर्पनिग्रहशक्तिभेदाद् द्विविधम् । उत्कृष्टमध्यमजघन्यविशुद्धिप्रकर्षाप्रकर्षयोगात्तृतीयमवस्थान२० मनुभवति। विकलज्ञानविषयसरागवीतराग-सकलावबोधगोचरसयोगायोगविकल्पाचातुर्विध्यमप्यश्नुते । पञ्चतयों च वृत्तिमास्कन्दति । तद्यथा
सामायकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसाम्पराय
__ यथाख्यातमिति चारित्रम् ॥ १८ ॥
सामायिकशब्दोऽतीतार्थः । अयं सामायिकशब्दोऽतीतार्थो द्रष्टव्यः। क? "दिग्देशा२५ नर्थदण्डविरतिसामायिक" २१] इत्यत्र । सामायिकमिति वा समासविषयत्वात् । अथवा "आय
न्तीत्यायाः अनर्थाः सत्त्वव्यपरोपणहेतवः, संगताः आयाः समायाः, सम्यग्वा आयाः समायास्तेषु ते वा प्रयोजनमस्येति सामायिकमवस्थानम् ।
"सर्वसावद्ययोगप्रत्याख्यानपरम् ।। सर्वस्य सावद्ययोगस्याऽभेदेन प्रत्याख्यानमवलम्ब्य प्रवृत्तमवधृतकालं वा सामायिकमित्याख्यायते ।
शय्यानिषद्याचर्याणामविशेषादेकः परीषहः। यथा निषद्यायां परीषहे साधुः शय्यायां प्रवर्तते शय्यायां च परीषहे चर्यायामिति एकत्र नियमाभावात् एकत्वं दंशमशकौ द्वाविति कृत्वा एकाचविंशतिवचनं क्रियते तदिति पुनरपि चोदयति-श्र०टि०। २ दंशमशकौ द्वौ परीषहौ एकस्मिन् काले युगपत्प्रवृत्तेः प्रज्ञाऽज्ञानयोरन्यतरः सहानवस्थानादिति कृत्वा एकानविंशतिविकल्पो भवत्विति आह-तटस्थः-१० टि०।३ शब्दश्रवणविरोधः-१० टि०। ४ अस्माकम्-श्र.टि०। ५ अनर्थकानि वचनानि किञ्चिदिष्टं सूत्रयन्तीत्याचार्यस्येति न्यायात्-श्र० टि०। ६ परीषहजये-श्र० टि०। ७ परीषहानहं जयामीति-श्र० टि०। अन्यब्रोपद्रवे अन्यत्रावस्थानात्-श्र० टि। -यापरप्र-मु०, द०, ब०, ज०।१. आगच्छन्ति-श्र.टि। ११ सामायिकस्य वाक्यार्थमाह-श्र० टि० ।