________________
६।१५-१७]
नवमोऽध्यायः आह-यद्याद्ये मोहनीयभेदे सत्यदर्शनपरीषहो भवति, अथ द्वितीयस्मिन् केषां जन्मेति ? अत्रोच्यते
चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचना
सत्कारपुरस्काराः॥१५॥ मोहोदयहेतुत्वं नाग्न्यादीनां प्रतिपद्यामहे पुंवेदोदयादि निमित्तत्वात् , निषद्यापरीषहस्तु ५ (स्य तु) कथमिति चेत् ? उच्यते
निषद्यापरीषहस्य मोहोदयहेतुत्वं प्राणिपीडार्थत्वात् ।। मोहोदये सति प्राणिपीडापरिणामः संजायते, तत्परिपालनार्थत्वात् निषद्यापरीषहोदयहेतुरित्यवसीयते।'
आह-अभ्युपेमः कर्मप्रकृतिविशेषत्रय अमी परीषहा उक्ता इति । अथान्ये कस्मिन् सति .. निमित्ते भवन्तीति ? अत्राभिधीयते
१० वेदनीये शेषाः ॥१६॥ उक्तादन्यनिर्देशे शेषा इति ।१। उक्ताः प्रज्ञापरीषहादयः, तेभ्योऽन्ये शेषा इति निर्दिश्यन्ते। के पुनस्ते ? हुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलपरीषहाः।
निमित्तात् कर्मसंयोग इति चेत् ; न तद्योगाभावात् ।। स्यान्मतम्-यथा “चर्मणि दीपिनं हन्ति"[ ] निमित्तात्कर्मसंयोग इति विभक्तिविशेषविधानं तथा वेदनीये इत्येवमादि. १५ निर्देशो भवतीति; तन्नः किं कारणम् ? तद्योगाभावात् । कर्मसंयोगे हि तद्विभक्तिविधानम् । न चात्र कर्मसंयोगोऽस्तीति तदभावः । कथं तर्हि निर्देशः ? ।
सन्निशस्तदुपलक्षणत्वात् ।३। यथा “गोषु दुह्यमानासु गतः, दुग्धास्वागतः" [ ] इति सन्निर्देशः तथा वेदनीये सतीत्येवमादिः सन्निर्देशोऽवसेयः । कुतः ? तदुपलक्षणत्वात् । ____ आह-व्याख्यातनिमित्तलक्षणविकल्पाः प्रत्यात्म प्रादुर्भवन्तः कति युगपदवतिष्ठन्त इति ? २० अत्रोच्यते- एकादयो भाज्या युगपदेकस्मिन्नैकोनविंशतः ॥ १७ ॥
आङभिषिध्यर्थः ।।। आङयमभिविध्यर्थो द्रष्टव्यः, तेन एकान्नविंशतिरपि कचिद्युगपद्भवन्तीत्यवगम्यते । तत्कथमिति चेत् ? उच्यते
शीतोष्णशय्यानिषद्याचर्याणामसहभावादेकानविंशतिसंभवः ।। शीतोष्णपरीषहयोरेकः, २५ शय्यानिषद्याचर्याणां चान्यतम एव भवति एकस्मिन्नात्मनि । कुतः ? सहानवस्थानात्। ततस्त्रयाणामपगमे युगपदेकात्मनीतरेषां संभवादेकान्नविंशतिविकल्पो बोद्धव्यः ।
- प्रज्ञाऽशानयोर्विरोधादन्यतराभावेऽष्टादशप्रसङ्ग इति चेत् ; न; अपेक्षातो विरोधाभावात् ।३। स्यान्मतम्-प्रज्ञाऽज्ञाने अपि विरुद्धे तयोरन्यतराभावेऽष्टादशसंख्याप्रसङ्ग इति; तन्न; किं कारणम् ? अपेक्षातो विरोधाभावात् । श्रुतज्ञानापेक्षया प्रज्ञाप्रकर्षे सति अवध्याद्यभावापेक्षया ३० अज्ञानोपपत्तेः।
.. .मानकषाये क्रोधे चाक्रोशः, लोभे याचना, मोने सत्कारपुरस्काराभिनिवेश इति-श्र० टि। २ प्रत्याख्यानकषाये निषद्यापरीषह इत्यर्थः-१० टि०। ३ वेदनीये इति निमित्तसप्तमी, तस्य द्वीपिनं हन्तीत्यादिवत् केनचित् कर्मणा-१० टि० ।