________________
६१४ तत्त्वार्थवार्तिके
[१२-१४ दश जिने कैश्चित्कल्प्यन्ते' इति । किं तर्हि ? एकादश सन्तीति । कथम् ? उपचारात् । यथा निरवशेषनिरस्तज्ञानावरणे परिपूर्णज्ञाने एकाग्रचिन्तानिरोधाभावेऽपि कर्मरजोविधूननफलसंभवात् ध्यानोपचारः तथा सुधादिवेदनाभावपरीषहाभावेऽपि वेदनीयकर्मोदयद्रव्यपरीषहसद्भावात् एकादश जिने सन्तीति उपचारो युक्तः । आह-यदि सूक्ष्मसाम्परायादिषु व्यस्ताः परीषहा अथ समस्ताः क्वेति ?
बादरसाम्पराये सर्वे ॥१२॥ बादरसाम्परायग्रहणात् प्रमत्तादिनिर्देशः ।। बादरसाम्पराय इति नायं गुणस्थानविशेषपरिग्रहः। किं तर्हि ? अर्थनिर्देशः, ततः प्रमत्तादीनां संयतानां सामान्यग्रहणम्-बादरः साम्प
रायो यस्य सोऽयं बादरसाम्पराय इति । तत्र हि१०. निमित्तविशेषस्यानुपक्षीणत्वात् सर्वे ।। ज्ञानावरणादिनिमित्तविशेषो वक्ष्यते । तस्यानुपक्षीणत्वात् सर्वे संभवन्ति । कस्मिन् पुनश्चारित्रे सर्वेषां संभवः ?
सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसंयमेषु सर्वसंभवः ।। एतेषां त्रयाणां चारित्राणामन्यतमे सर्वे क्षुत्परीषहादयो द्रष्टव्याः ।
. आह-गृहीतमेतत् परीषहाणां स्थानविशेषावधारणम् , इदं तु न विनः कस्याः प्रकृते कः १५ कार्य इति ? अत्रोच्यते
ज्ञानावरणे प्रज्ञाऽज्ञाने ॥१३॥ शानावरणे अज्ञानं न प्रक्षेति चेत् ;न; अन्यज्ञानावरणसद्भावे तद्भावात् ।। स्यादतत्ज्ञानावरणे सति अज्ञानमनवबोधो भवति न प्रज्ञा ज्ञानस्वभावत्वादात्मन इति; तन्न; किं कार
णम् ? अन्यज्ञानावरणसद्भावे तद्भावात्। प्रज्ञा हि क्षायोपशमिकी अन्यस्मिन् ज्ञानावरणे सति मदं २० जनयति न सकलावरणक्षय इति प्रज्ञाज्ञाने ज्ञानावरणे सति प्रादुःस्त इत्यभिसम्बध्यते।
- मोहादिति चेत् । न तनेदानां परिगणितत्वात् ।। स्यान्मतम्-मोहोदयादहं महाप्राज्ञो नान्य इति मन्यते न ज्ञानावरणादिति; तन्नः किं कारणम् ? तद्भेदानां परिगणितत्वात् । मोहमेदा हि परिगणिता दर्शनचारित्रव्याघातहेतुभावेन, तत्र नायमन्तर्भवति, चारित्रवतोऽपि प्रज्ञापरीषहसद्भावात् , ततो ज्ञानावरण एवेति निश्चयः कर्तव्यः ।। आह-यद्यनयोरेककर्महेतुत्वमात्मलाभेऽवसीयते, अदर्शनाऽलाभयोः को हेतुरिति' ?
दर्शनमोहान्तराययोरदर्शनालाभौ ॥ १४ ॥ विशिष्टकारणनिर्देशादवध्यादिदर्शनसन्देहाभावः ।। दर्शनमोह इति विशिष्टमिह कारणं निर्दिश्यते, ततोऽवध्यादिदर्शनविषयः सन्देहो न भवति'। .
अन्तराय इति सामान्यनिर्देशेऽपि सामर्थ्याद्विशेषसंप्रत्ययः ।। यद्यप्ययमन्तराय इति ३० सामान्यनिर्देशः तथापि सामर्थ्याल्लाभान्तरायविशेषसंप्रत्ययो भवति ।
उपचारतोऽप्यस्य एकादश परीषहा न सम्भाग्यन्ते तत्र निःशेषपरत्वात् सूत्रस्य । एकेन अधिका न दश परीषहा जिने एकादश जिने इति व्युत्पत्तेः । प्रयोगश्च-भगवान् क्षुदादिपरीषहरहितः अनन्तसुखत्वात् सिद्धवत् इति मार्तण्डे प्रोक्तम्-श्र० टि.। २ उत्कृष्टलोभादिगुणस्य-श्र.टि.। ३ सूचमसाम्पराययथाख्यातचारित्रयोरुक्ताः परीषहाः सूत्रकृता, शेषेषु कति भवन्तीत्येतदाह-श्र०टि०। ४-ति चेद्द-मु०, २०, ब०, ज० । ५ अवध्यादिदर्शनं न भवतीत्यर्थः-१० टि०। ६ सूत्रे अलाभग्रहणादित्यर्थः-श्र.टि.