________________
218 ]
नवमोऽध्यायः
६११
क्रोधज्वलनशिखाप्रवर्धनकरानप्रियान् शृण्वतोऽपि दृढमनसः भस्मसात्कर्तुमपि समर्थस्य परमार्थावगाहितचेतसः, शब्द मात्रश्राविणस्तदर्थान्वीक्षणविनिवृत्तव्यापारस्य स्वकृताशुभकर्मोदयो ममैष यतोऽमीषां मां प्रति द्वेष इत्येवमादिभिरुपायैरनिष्टवचनसहनमाक्रोशपरीषहजय इति निर्णीयते ।
मारकेष्वमर्षापोह भावनं वधमर्षणम् | १८ | ग्रामोद्यानाटवीनगरेषु नक्तं दिवा चैकाकिनो निरावरणमूर्तेः समन्तात्पर्यटद्भिश्चराक्षिकम्लेच्छशवरपरुषवधिरपूर्वापका रिद्विषत्परलिङ्गिभिराहितक्रोधैः ताडनाकर्षणबन्धनशस्त्राभिघातादिभिर्मार्यमाणस्याप्यनुत्पन्नवैरस्य अवश्यप्रपातुकमेवेदं शरीरं कुशलद्वारेणाने नापनीयते न मम व्रतशीलभावनाभ्रंशनमिति भावशुद्धस्य दह्यमानस्यापि सुगन्धमुत्सृजतश्चन्दनस्येव शुभपरिणामस्य स्वकर्मनिर्जरामभिसन्दधानस्य दृढमतेः क्षमौषधिबलस्य मारकेषु सुहृत्स्विवामर्षापोह भावनं वधमर्षणमित्यान्नायते ।
५
प्राणात्ययेऽप्याहारादिषु दीनाभिधाननिवृत्तिर्याचनाविजयः ॥१६॥ क्षुदध्वपरिश्रमतपो- १० रोगादिभिः प्रच्यावितवीर्यस्य शुष्कपादपस्येव निरार्द्र मूर्त्तेरुन्नतास्थिस्नायुजालस्य निम्नाक्षिपुटपरिशुष्काधरौष्ठक्षामपाण्डुकपोलस्य चर्मवत्सङ्कुचिताङ्गोपाङ्गत्वचः शिथिलजानुगुल्फकटिबा हुयन्त्रस्य देशकालक्रमोपपन्नकल्पादायिनः वाचंयमस्य मौनिसमस्य वा शरीरसन्दर्शनमात्रव्यापारस्य ऊर्जितसत्त्वस्य प्रज्ञाप्यायितमनसः प्राणात्ययेऽप्याहारवसतिभेषजानि दीनाभिधानमुखवैवर्ण्याङ्गसंज्ञादिभिरयाचमानस्य रत्नवणिजो मणिसंदर्शनमिव स्वशरीरप्रकाशनमकृपणं मन्यमानस्य वन्दमानं १५ प्रति स्वकरविकसनमिव पाणिपुटधारणमदीनमिति गणयतः याचनासहनमवसीयते । अद्यत्वे पुनः कालदोषाद्दीनानाथपाखण्डिबहुले जगत्य मार्गज्ञैरनात्मविद्भिर्याचनमनुष्ठीयते ।
अलाभेऽपि लाभवत् सन्तुष्टस्यालाभ विजयः | २० | वायुवदनेकदेशचारिणः अप्रकाशितवीर्यस्याभ्युपगतैककालभोजनस्य सकृन्मूर्तिसंदर्शनत्रतकालस्य देहीति असभ्यवाक्प्रयोगादुपरतस्यानुपात्तविग्रहप्रतिक्रियस्याद्येदं श्वश्वेदमिति व्यपेतसंकल्पस्य एकस्मिन् ग्रामे अलब्ध्वा ग्रामान्तरान्वे- २० षणनिरुत्सुकस्य पाणिपुटमात्र पात्रस्य बहुषु दिवसेषु बहुषु च गृहेषु भिक्षामनवाप्याप्यसंक्लिष्टचेतसः नायं दाता तत्रान्यो वदान्योऽस्तीति व्यपगतपरीक्षस्य लाभादप्यलाभो मे परमं तपः इति सन्तुष्टस्यालाभविजयोऽवसेयः ।
नानाव्याधिप्रतीकारानपेक्षत्वं रोगसहनम् | २१ | दुःखादिकरणमशुचिभाजनं जीर्णवस्त्रवत्परिद्देयं पित्तमारुतकफसन्निपातनिमित्तानेकामयवेदनाभ्यर्दितमन्यदीयमिव विग्रहं मन्यमा - २५ नस्य : उपेक्षितृत्वाप्रच्युतेश्चिकित्साव्यावृत्तचेष्टस्य शरीरयात्राप्रसिद्धये व्रणालेपनवद्यथोक्तमाहारमाचरतो जल्लोषधिप्राप्त्याद्यनेकतपोविशेषर्द्धियोगे सत्यपि शरीरनिःस्पृहत्वात् प्रतीकारानपेक्षिणः पूर्वकृतपापकर्मणः फलमिदमनेनोपायेनानृणी भवामीति चिन्तयतो रोगसहनं संपद्यते ।
तृणादिनिमित्तवेदनायां मनसोऽप्रणिधानं तृणस्पर्शजयः | २२ | यथाभिनिर्वृत्ताधिकरणशायिनः शुष्कतृणपत्रभूमिकण्टकफलक शिलातलादिषु प्रासुकेष्वसंस्कृतेषु व्याधिमार्गगमनशीतोष्ण- ३० जनितश्रमविनोदार्थं शय्यां निषद्यां वा भजमानस्य तृणादिबाधितमूर्त्तेरुत्पन्नकण्डुविकारस्य दुःखमनभिचिन्तयतः तृणादिस्पर्शबाधाऽवशीकृतत्वात्तृणस्पर्श सहनमवगन्तव्यम् ।
स्वपरमलापचयोपचयसंकल्पाभावो मलधारणम् | २३ | जलजन्तुपीडापरिहारायाऽस्नानप्रतिज्ञस्य, स्वेदपङ्कदिग्धसर्वाङ्गस्य, सिध्मकच्छूद्रदीर्णकायस्य नखरोमश्मश्रुकेशविकृतसहजबाह्यमलसंपर्क कारणानेकत्वग्विकारस्य स्वगतमलापचये 'परमलोपचये चाऽप्रणिहितमनसः कर्ममलप - ३५ कापनोदायैवोद्यतस्य पूर्वानुभूतस्नानानुपलेनादिरमरणपराङ्मुखचित्तवृत्तेर्मलधारणमाख्यायते ।
१ - श्रौरराक्षसम्ले - मु०, द०, ब० । २ उज्झितमदस्य मु०, ५०, ब० । ३ परमलापचये चाप्रसु०, द०, ब० । २४