________________
६१२ तत्त्वार्थवार्तिके
[ ___ 'केशलुञ्चनखेदसहनोपसंख्यानमिति चेत् ;न, मलपरीषहावरोधात् ।२४। स्यादेतत्-केशलुचने तत्संस्काराकरणे वा महान् खेदः संजायते, तत्सहनमपरमुपसंख्यातव्यमिति; तन्न; किं कारणम् ? मलपरीषहावरोधात् । मलसामान्यसंग्रहे हि तदन्तर्भवति ।
मानापमानयोस्तुल्यमनसः सत्कार पुरस्कारानभिलाषः ॥२५॥ चिरोषितब्रह्मचर्यस्य महा५ तपस्विनः स्वपरसमयनिश्चयज्ञस्य हितोपदेशपरस्य कथामार्गकुशलस्य बहुकृत्वः परवादिविजयिनः
प्रणामभक्तिसंभ्रमासनप्रदानादीनि मे न कश्चित्करोतीत्येवमविचिन्तयतः मानापमानयोस्तुल्यमनसः सत्कारपुरस्कारनिराकाङ्क्षस्य श्रेयोध्यायिनः सत्कारपुरस्कारपरीषहजयो वेदितव्यः। सत्कारः पूजाप्रशंसात्मकः । पुरस्कारो नाम क्रियारम्भादिष्वग्रतः करणमामन्त्रणं वा।
___ प्रज्ञाप्रकर्षावलेपनिरासः प्रक्षाविजयः।२६। अङ्गपूर्वप्रकीर्णकविशारदस्य कृत्स्नमन्थार्था१० वधारिणः अनुत्तरवादिनस्त्रिकालविषयार्थविदः शब्दन्यायाध्यात्मनिपुणस्य मम पुरस्तादितरे
भास्करप्रभाभिभूतोद्योतखद्योतवत् नितरामवभासन्ते इति विज्ञानमदनिरासः प्रज्ञापरीषहजयः प्रत्येतव्यः।
अज्ञानावमानशानाभिलाषसहनमज्ञानपरीषहजयः।२७। अज्ञोऽयं न किञ्चिदपि वेत्ति पशुसम इत्येवमाद्यधिक्षेपवचनं सहमानस्याध्ययनार्थग्रहणपराभिभवादिष्वसक्तबुद्धेश्चिरप्रव्रजि१५ तस्य विविधतपोविशेषभाराकान्तमूर्तेः सकलसामर्थ्याप्रमत्तस्य विनिवृत्तानिष्टमनोवाक्कायचेष्टस्याद्यापि मे ज्ञानातिशयो नोत्पद्यत इत्यनभिसन्दधतः अज्ञानपरीषहजयोऽवगन्तव्यः।।
- प्रव्रज्याघनर्थकत्वासमाधानमदर्शनसहनम् ।२८। संयमप्रधानस्य दुःखकरतपोऽनुष्ठायिनः परमवैराग्यभावनाशुद्धहृदयस्य विदितसकलपदार्थतत्त्वस्याऽर्हदायतनसाधुधर्मपूजकस्य चिरन्तनस्य
अद्यापि मे ज्ञानातिशयो नोत्पद्यते, महोपवासाद्यनुष्ठायिनां प्रातिहार्यविशेषाःप्रार ति प्रला२० पमात्रमिदम् , अनथिकेयं प्रव्रज्या विफलं व्रतपरिपालनमित्येवमसमादधानस्य, दर्शनशुद्धियोगा
ददर्शनपरीषहसहनमवसातव्यम् । एवं परीषहान् असंकल्पोपस्थितान् सहमानस्यासंक्लिष्टचेतसः रागादिपरिणामास्रवाभावात् महान् संवरो भवति ।
श्रद्धानालोचनग्रहणमविशेषादिति चेतनः अव्यभिचारदर्शनार्थत्वात २६ स्यादेततश्रद्धानमालोचनमिति द्विविधं दर्शनम् , तस्याविशेषेण ग्रहणमिह प्राप्नोति, कुतः ? अविशेषात् । २५ न हि किश्चिद्विशेषलिङ्गमिहाश्रितमस्तीति; तन्नः किं कारणम् ? अव्यभिचारदर्शनार्थत्वात् ।
मत्यादिज्ञानपञ्चकाव्यभिचारिश्रद्धानं' दर्शनम् । आलोचनं तु न, श्रुतमनःपर्यययोरप्रवृत्तरतोऽस्याव्यभिचारिणः श्रद्धानस्य ग्रहणमिहोपपद्यते।
मनोरथपरिकल्पनामात्रमिति चेत् ; न; वक्ष्यमाणकारणसामर्थ्यात् ।३०। स्यादेतत्श्रद्धानदर्शनग्रहणमिदमिति स्वमनोरथपरिकल्पनामात्रमिति; तन्नः किं कारणम् ? वक्ष्यमाण३० कारणसामर्थ्यात् । वक्ष्यते हि कारणम्-“दर्शनमोहान्तराययोरदर्शनालाभौ" [त. सू० ॥१५] इति ।
अवध्यादिदर्शनपरीषहोपसंख्यानमिति चेत् ; न; अवधिज्ञानाद्यभावे सहचरितदर्शनाभावादशानपरीषहावरोधात् ।३१। स्यान्मतम्-“अवध्यादिदर्शनोपेताः सुष्टु पश्यन्ति नास्य किञ्चिदतिशयवदस्ति दर्शनम्, गुणप्रत्ययं च तत्" [ ] इत्युक्तम् आगमे, नूनमस्मिंस्तद्योग्या गुणा न
सन्तीत्येवमादिवचनसहनमवध्यादिदर्शनपरीषहजयः, तस्योपसंख्यानं कर्तव्यमिति; तन्नः किं ३५ कारणम् ? अज्ञानपरीषहावरोधात् । तत्कथमिति चेत् ? उच्यते-अवध्यादिज्ञानाभावे तत्सह
१ केशलुञ्चने तत्संस्काराकरणे वा महत्खेद-मु०, द०, ब०, ज०। २ तथामार्गकु-मु०, २०, २०, जः। ३ लक्षणम्-श्र० टि०। विषयविषयिसम्बन्धे सति श्वेतत्वादिविशेषणरहितवस्तुसत्तावभासि लक्षणम्-श्र०टि।