________________
६१० तस्वार्थवार्तिके
[E यतैकविहारत्वादिभिररति प्रादुष्यती धृतिविशेषाग्निवारयतः संयमरतिभावनात् विषयसुखरतिर्विषाहारसेवेव विपाककटुकेति चिन्तयतः रतिपरिबाधाभावादरतिपरीषहजय इति निश्चीयते ।
सर्वेषामरतिकारणत्वात् पृथगरतिग्रहणानर्थक्यमिति चेत्, न; सुधाधभावेऽपि मोहो- दयात्तत्प्रवृत्तेः।१२। स्यादेतत्-सुधादीनां सर्वेषामरतिहेतुत्वात् पृथगरतिग्रहणमनर्थकमिति, तन्न ५ किं कारणम् ? सुधाद्यभावेऽपि मोहोदयात्तत्प्रवृत्तः। मोहोदयाकुलितचेतसो हि सुधादिवेदना - भावेऽपि संयमेऽरतिरुपजायते । _ वराङ्गनारूपदर्शनस्पर्शनादिविनिवृत्तिः स्त्रीपरीषहजयः ॥१३॥ एकान्ते आरामभवनादिप्रदेशे रागद्वेषयौवनदर्परूपमदविभ्रमोन्मादमद्यपानावेशादिभिः प्रमदासु बाधमानासु तदक्षिवक्त्र
भ्रूविकारशृङ्गाराकारविहारहावविलासहासलीलाविजृम्भितकटाक्षविक्षेपसुकुमारस्निग्धमृदुपीनोन्नत१० स्तनकलशनितान्तताम्रोदरपृथुजघनरूपगुणाभरणगन्धवस्त्रमाल्यादिप्रतिनिगृहीतमनोविप्लुतेः दर्शन
स्पर्शनाभिलाषनिरुत्सुकस्य निग्धमृदुविशदसुकुमाराभिधानतन्त्रीवंशमिश्रातिमधुरगीतश्रवणनिवृत्तादरश्रोत्रस्य संसारार्णवव्यसनपातालावगाढदुःखरौद्रावर्तकुटिलध्यायिनः स्त्रैणानर्थविनिवृत्तिः स्त्रीपरीषहजय इति कथ्यते । अन्यवादिपरिकल्पिता देवताविशेषाः ब्रह्मादयः तिलोत्तमादेवगणिकारूप
संदर्शनलोललोचनविकाराः स्त्रीपरीषहपकानोद्वर्तुमात्मानं समर्थाः। १५ व्रज्यादोषनिग्रहश्चर्याविजयः ।१४। दीर्घकालाभ्यस्तगुरुकुलब्रह्मचर्यस्य अधिगतबन्धमोक्षप
दार्थतत्त्वस्य कषायनिग्रहपरस्य भावनार्पितमतेः संयमायतनभक्तिहेतोर्देशान्तरातिथेः गुरुणाभ्यनुज्ञातस्य नानाजनपदव्याहारव्यवहाराभिज्ञस्य ग्रामे एकरात्रं नगरे पश्चरात्रं प्रकर्षणावस्थातव्यमित्येवं संयतस्य वायोरिव निःसङ्गतामुपगतस्य देशकालप्रमाणोपेतमध्वगमनमनुभवतः क्लेशक्षमस्य
भीमाटवीप्रदेशेषु निर्भयत्वात् सिंहस्येव सहायकृत्यमनपेक्षमाणस्य परुषशर्कराकण्टकादिव्यधनजा२० तपादखेदस्यापि सतः पूर्वोचितयानवाहनादिगमनमस्मरतः सम्यग्ज्यादोषं परिहरतः चर्यापरीषह/जयो वेदितव्यः।
___ संकल्पितासनादविचलनं निषद्यातितिक्षा ।१५॥ श्मशानोद्यानशून्यायतनगिरिगुहागहरादिषु अनभ्यस्तपूर्वेषु विदितसंयमक्रियस्य धैर्यसहायस्योत्साहवतो निषद्यामधिरूढस्य प्रादुर्भूतोपसर्गरोगविकारस्यापि सतः तत्प्रदेशादविचलतःमन्त्रविद्यादिलक्षणप्रतीकाराननपेक्षमाणस्य खुद्रजन्तुप्रायविषमदेशाश्रयात् काष्ठोपलवन्निश्चलस्य अनुभूतमृदुकुथास्तरणादिस्पर्शसुखमविगणयतः प्राणिपीडापरिहारोद्यतस्य ज्ञानध्यानभावनाधीनधियः संकल्पितवीरासनोत्कुटिकासनादिरतेरासनदोषजयान्निषद्यातितिक्षेत्याख्यायते ।
आगमोदितशयनात् अप्रच्यवः शय्यासहनम् ।१६। स्वाध्यायध्यानाध्वश्रमपरिखेदितस्य मौहूर्तिकी खरविषमप्रचुरशर्कराकपालसङ्कटातिशीतोष्णेषु भूमिप्रदेशेषु निद्रामनुभवतः यथाकृत्ये३. कपार्श्वदण्डायतादिशायिनः सञ्जातबाधाविशेषग्य संयमार्थमस्पन्दमानस्थानुतिष्ठतः व्यन्तरादिभिर्वा
वित्रास्यमानस्य पलायनं प्रति निरुत्सुकस्य मरणभयनिर्विशङ्कस्य निपतितदारुवत् व्यपगतासुवश्चाई परिवर्तमानस्य द्वीपिशार्दूलमहोरगादिदुष्टसत्त्वप्रचरितोऽयं प्रदेशोऽचिरादतो निर्गमनं श्रेयः कदा नु रात्रीविवसतीति विषादमनादधानस्य सुखप्राप्तावप्यपरितुष्यतः पूर्वानुभूतनवनीतमूदुशयनरतिमनुस्मरतः सम्यगागमोदितशयनादप्रच्यवः शय्यासहनमिति प्रत्येतव्यम् ।
अनिष्टवचनसहनमाकोशपरीषहजयः ।१७। तीव्रमोहाविष्टमिथ्यादृष्टयार्यम्लेच्छखलपापाचारमत्तोदृप्तशङ्कितप्रयुक्त-माशब्दधिक्कारपरुषावज्ञानाक्रोशादीन् कर्णविरेचनान् हृदयशूलोद्भावकान्
. पुरुषकर्कशक-मु०, द०, ब०, ज० । स्पर्शशकराक-श्र०। २-बचपरि श्र०, ता०, ज०। ३ कदा तु ता०. श्र०।।
३५