________________
नवमोऽध्यायः
६०६ अभ्यवहारसामान्यादिति चेत्, न; अधिकरणभेदात् ।। स्यान्मतम्-अभ्यवहारसामान्यात् एकार्थमिति; तदपि न युक्तम् ; कुतः ? अधिकरणभेदात् । अन्यद्धि सुधः प्रतीकाराधिकरणम्, 'अन्यत्पिपासायाः।
शैत्यहेतुसन्निधाने तत्प्रतीकारानभिलाषात् संयमपरिपालनं शीतक्षमा ।६। परित्यक्तवाससः पक्षिवदनवधारितालयस्य शरीरमात्राधिकरणस्य शिशिरवसन्तजलदागमादिवशात् वृक्षमूल- ५ पथिगुहादिषु पतितप्रालेयलेशतुषारलवव्यतिकरशिशिरपवनाभ्याहतमूर्तेः तत्प्रतिक्रियासमर्थद्रव्यान्तराग्न्याधनभिसन्धानात् नारकदुःसहशीतवेदनानुस्मरणात् तत्प्रतीकारचिकीर्षायां परमार्थविलोपभयात् विद्यामन्त्रौषधपर्णवल्कलत्वक्तृणाजिनादिसंबन्धाद् व्यावृत्तमनसः परकीयमिव देहं मन्यमानस्य धृतिविशेषप्रावरणस्य गर्भागारेषु धूपप्रवेकप्रकरप्ररूपितप्रदीपप्रभवेषु वराङ्गनानवयौवनोष्णघनस्तननितम्बभुजान्तरतर्जितशीतेषु निवासं सुरतसुखरसाकरमनुभूतमसारत्वावबोधाद- १० स्मरतः विषादविरहितस्य संयमपरिपालनं शीतक्षमेति भाष्यते ।
दाहप्रतीकारकासाभावाचारित्ररक्षणमुष्णसहनम् ।। प्रैष्मेण पटीयसा भास्करकिरणसमूहन संतापितशरीरय तृष्णानशनपित्तरोगधर्मश्रमप्रादुर्भूतोष्णस्य स्वेदशोषदाहाभ्यर्दितस्य जलभवनजलावगाहनानुलेपनपरिषेकामा॑वनीतलनीलोत्पलकदलीपत्रोत्क्षेपमारुतजलतूलिकाचन्दनच • न्द्रपादकमलकल्हारमुक्ताहारादिपूर्वानुभूतशीतलद्रव्यप्रार्थनापेतचेतसः उष्णवेदना अतितीव्रा बहु-१५ कृत्वः परवशादवाप्ता, इदं पुनस्तपो मम कर्मक्षयकारणमिति तद्विरोधिनी क्रिया प्रत्यनादराचारित्ररक्षणमुष्णसहनमिति समाम्नायते ।
वंशमशकादिवाधासहनमप्रतीकारमा प्रत्याख्यातशरीराच्छादनस्य कचिदपि अप्रतिबद्धचेतसः परकृतायतनगुहागह्वरादिषु रात्रौ दिवा वा दंशमशकमक्षिकापिशुकपुत्तिकायूकमकुणकीटपिपीलिकावृश्चिकादिभिः तीक्ष्णपातैर्भक्ष्यमाणस्यातितीव्रवेदनोत्पादकैः अव्यथितमनसः २० स्वकमविपाकमनुचिन्तयतो विद्यामन्त्रौषधादिभिः तन्निवृत्तिं प्रति निरुत्सुकस्य आशरीरपतनादपि निश्चितात्मनः परबलप्रमर्दनं प्रति प्रवर्तमानस्य मदान्धगन्धसिन्धुरस्य रिपुजनप्रेरितविविधशस्त्रप्रतिघातादपराङ्मुखस्य निःप्रत्यूहविजयोपलम्भनमिव कर्मागतिपृतनापराभवं प्रति प्रयतनंदंशमशकादिबाधासहनमप्रतीकारमित्याख्यायते ।
- शमशकमात्रप्रसङ्ग इति चेत् । न; उपलक्षणार्थत्वात् ।९। स्यान्मतम्-दंशमशकस्यैव २५ बाधाकारणस्य ग्रहणं प्राप्नोतीति; तन्न; किं कारणम् ; उपलक्षणार्थत्वात्। दशनपरितापकारणस्य सर्वस्यैवेदं उपलक्षणं यथा 'काकेभ्यो रक्ष्यतां सर्पिः' इत्युपघातकोपलक्षणम् । यद्येवमन्यतरग्रहणमेव कर्तव्यम् ; अन्यतरोपादाने स्वरूपग्रहणप्रसङ्गात् द्वितीयवचनमुपलक्षणं संपद्यते ।
जातरूपधारणं नाग्न्यम् ।१०। गुप्तिसमित्यविरोधिपरिग्रहनिवृत्तिपरिपूर्णब्रह्मचर्यमप्रार्थिकमोक्षसाधनचारित्रानुष्ठानं यथाजातरूपम् असंस्कृतमविकारं मिथ्यादर्शनाविष्टविद्विष्टं परम- ३० माङ्गल्यं नाग्न्यमभ्युपगतस्य स्त्रीरूपाणि नित्याशुचिवीभत्सकुणपभावेन पश्यतो वैराग्यभावनावरुद्धमनोविक्रियस्याऽसंभावितमनुष्यत्वस्य नान्यदोषासंस्पर्शनात् परीषहजयसिद्धिरिति जातरूपधारणमुत्तमं श्रेयःप्राप्तिकारणमित्युच्यते । इतरे पुनर्मनोविक्रियां निरोधुमसमस्तित्पूर्विकाङ्गविकृति निगृहितकामाः कौपीनफलकचीवराद्यावरणमातिष्ठन्ते अङ्गसंवरणार्थमेव तन्न कर्मसंवरणकारणम्।
संयमे रतिभावादरतिपरीषहंजयः।११। संयतस्य सुधाद्याबाधासंयमपरिरक्षणेन्द्रियदुर्जयत्वव्रतपरिपालनभारगौरवसर्वदाप्रमत्तत्वदेशभाषान्तरानभिज्ञत्वविषमचपलसत्त्वप्रचुरभीमदुर्गनि •
१ यद्येवमन्यतरग्रहणं ॥१०॥ यद्येवं-मु०, द०, ब०, ज०। २ अन्ते अङ्ग-मु०, द०, ब०, ज०।