________________
६०८ तत्त्वार्थवार्तिके
[ र प्रकरणात् संघरमार्गसंप्रतिपत्तिः।२। संवरो हि प्रकृतः, अतस्तदभिसम्बन्धात् मोक्षपदप्रापकसंवरमार्गसंप्रतिपत्तिरिह वेदितव्या । . तदच्यवनार्थो निर्जरार्थश्व परीषहजयः।३। कर्मागमद्वाराणि संवृण्वतो 'जैनेन्द्रमार्गान्मा च्योष्महीति पूर्वमेव परीषहान् विजयन्ते । जितपरीषहाः सन्तः तैरनभिभूयमानाः प्रधानसंवरमा५ श्रित्याऽप्रतिबन्धेन क्षपकश्रेण्यारोहणसामथ्र्य प्रतिपद्याभिन्नोत्साहाः सकलसाम्परायिकप्रंध्वसनशक्तयो ज्ञानध्यानपरशुभिः छिन्नमूलानि कर्माणि विधूय प्रस्फोटितपक्षरेणव इव पतत्रिणः ऊर्ध्व ब्रजन्ति इत्येवमर्थ परिसोढव्याः परीषहाः । “सोढः" [जैने०५।४।८१] इति षत्वप्रतिषेधः ।
__यद्येवमुच्यतां के परीषहाः कियन्तो वेति ? अत इदमाहक्षुत्पिपासाशीतोष्णदेशमशकनारन्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवध
१० याचनालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानादर्शनानि ॥९॥
चुधादयो द्वाविंशतिः परीषहाः ।। त एते बाह्याभ्यन्तरद्रव्यपरिणामाः शारीरमानसप्रकृष्टपीडाहेतवः धादयो द्वाविंशतिः परीषहाः प्रत्येतव्याः। तद्विजये विदुषा संयतेन मोक्षार्थिना प्रतियत्नः कार्यः । तद्यथा
प्रकृष्टक्षुदग्निप्रज्वलने धृत्यम्भसोपशमः सुजयः ।२। निवृत्तसर्वसंस्कारविशेषस्य शरीरमा-- १५ त्रोपकरणसन्तुष्टस्य तपःसंयमविलोपं परिहरतः कृतकारितानुमतसंकल्पितोद्दिष्टसंक्लिष्टक्रयागतप्रत्या
त्तपूर्वकर्मपश्चात्कर्मदशविधदोषविप्रमुक्तषणस्य देशकालजनपदव्यवस्थापेक्षस्य अनशनाध्वरोगतपःस्वाध्यायश्रमवेलातिकमावमोदर्यासद्वद्योदयादिभ्यः नानाहारेन्धनोपरमे जठराग्निदाहिनी मारुतालोलिताग्निशिखेव समन्ताच्छरीरेन्द्रियहृदयसंक्षोभकरी सुदुत्पद्यते । तस्याः प्रतीकारं त्रिप्रकारम्
अकाले संयमविरोधिभिर्वा द्रव्यः स्वयमकुर्वतोऽन्येन क्रियमाणमसेवमानस्य मनसा चाऽनभिस२० न्दधतः दुस्तरेयं वेदना महाँश्च कालो दीर्घाह इति दीर्घाह इति विषादमनापद्यमानस्य त्वगस्थिसिरा
वतानमात्रकलेवरस्यापि सतः आवश्यकक्रियादिषु नित्योद्यतस्य चुदशप्राप्तानर्थकाराबन्धनस्थमनुष्यान् पञ्जरगततिर्यप्राणिनः क्षुदभ्यर्दितान् परतन्त्रानपेक्षमाणस्य ज्ञानिनो धृत्यम्भसा संयमकुम्भधारितेन तुदग्निं शमयतः तत्कृतपीडां प्रत्यवगणयन् सुजय इत्युच्यते ।
__उदन्योदोरणहेतूपनिपाते तबशाप्राप्तिः पिपासासहनम् ॥३॥ नानावगाहनपरिषेकत्यागिनः २५ पतत्रिवध्रवासनावसथस्य अतिलवणस्निग्धरूक्षविरुद्धाहारगृष्मातपपित्तज्वरानशनादिभिरुदी)
शरीरेन्द्रियोन्माथिनीं पिपासां प्रत्यनाद्रियमाणप्रतीकारमनसः निदाघे पटुतपनकिरणसंतापिते अटव्यामासन्नष्वपि ह्रदेषु अप्कायिकजीवपरिहारेच्छया जलमनाददानस्य सलिलसेकविवेकम्लानां' लतामिव ग्लानिमुपगतां गात्रयष्टिमवगणय्य तपःपरिपालनपरस्य भिक्षाकालेऽपि इङ्गिताकारादिभिः
योग्यमपि पानमचोदयतो धैर्यकुम्भावधारिख शीलसुगन्धिप्रज्ञातोयेन विध्यापयतः तृष्णाग्निशिखां ३० संयमपरत्वं पिपासासहनमित्यवसीयते ।
पृथगवचनमैकार्थ्यादिति चेत् ;न; सामर्थ्यभेदात् ।। स्यादेतत्-क्षुत्पिपासयोः पृथग्वचनमनर्थकम् । कुतः ? ऐकार्थ्यादिति; तन्नः किं कारणम् ? सामर्थ्य भेदात् । अन्यद्धि क्षुधः सामर्थ्यमन्यत्पिपासायाः।
जैनेन्द्रान्मा-मु०, २०, ब०, ज०। २ कषाय । ३-ना लतेव मु०, २०, ब०, ज०। ४-तशैल मु०, द०,०, ज.।