________________
९८]
नवमोऽध्यायः आहारे एकेन्द्रियादयः सयोगिकेवलिपर्यन्ताः। अनाहारे पञ्च गुणस्थानानि-विग्रहगतौ मिथ्यादृष्टिसासादनसम्यग्दृष्टयसंयतसम्यग्दृष्टयः, प्रतरलोकपूरणयोः सयोगकेवलिनोऽयोगकेवलिनश्च । सिद्धा व्यतीतगुणस्थाना इति । एवमादिलक्षणो धर्मो निःश्रेयसप्राप्तिहेतुरहो भगवद्भिरर्हद्भिः स्वाख्यात इति चिन्तनं धर्मस्वाख्यातत्वानुप्रेक्षा । एवं ह्यस्य चिन्तयतः धर्मानुरागात् सदा प्रतियत्नो भवति । एवमनित्यत्वाद्यनुप्रेक्षासन्निधाने उत्तमक्षमादिधारणात् महान् ५ संवरो भवति ।
___ स्वाख्यात इति युचप्रसङ्ग इति चेत् । न; प्रादिवृत्त ।१२। स्यान्मतम्-सुना योगे अकृच्छ्रार्थे युचा भवितव्यमिति; तन्नः किं कारणम् ? प्रादिवृत्तः। शोभन आख्यातः स्वाख्यातः इति प्रादिलक्षणा वृत्तिर्भवति ।।
, अनुप्रेक्षा इति भावसाधनत्वे बहुवचनविरोधः ॥१३॥ अयमनुप्रेक्षाशब्दो यदि भावसा- १० धनः, बहुवचनं नोपपद्यते तस्यैकत्वात् ।
कर्मसाधनत्वे सामानाधिकरण्याभावः ।१४। स्यात् कर्मसाधनत्वमेवमपि युज्यते बहुवचनं सामानाधिकरण्यं तु नोपपद्यते; अन्या अनुप्रेक्षा अन्यदनुचिन्तनमिति । अथानुचिन्तनमेवानुप्रेक्षा; एवमपि लिङ्गवचनभेदविरोधः।
न वा; कृदभिहितस्य द्रव्यवद्भावात् ।१५। नैष दोषः । किं कारणम् ? कृदभिहितस्य द्रव्य- १५ वद्भावात् । कृदभिहितो भावो हि 'द्रव्यवद्भवति यथा पाकः पाको पाका इति । तथाऽनुप्रेक्षितव्यार्थभेदात् भावस्य भेदे विवक्षिते बहुवचनं न्यायप्राप्तम् ।
सामानाधिकरण्यसिद्धि चोभयोः कर्मसाधनत्वात्।१६। सामानाधिकरण्यं च सिद्धयति । कुतः ? उभयोः कर्मसाधनत्वात् । अनुप्रेक्ष्यन्ते इत्यनुप्रेक्षाः, अनुचिन्त्यते इत्यनुचिन्तनम् । अनित्यादिस्वतत्त्वं हनुचिन्त्यमानमनुप्रेक्षाव्यपदेशभाग भवति । कथम् ? कर्मण्यनः “युझ्या बहुलम्" २० [जिने. २३६४] इति, यथा निरदनमवसेचनमिति । एवमपि लिङ्गसंख्याभेदो नोपपद्यते, उपात्तलिङ्गसंख्यानां परस्पराभिसम्बन्धो युज्यते यथा गावो धनमिति । अथ धर्मोपदेशात् प्रागनुप्रेक्षाः किमर्थ नोकाः?
मध्येऽनुप्रेक्षावचनम् उभयनिमित्तत्वात् ।१७। अनुप्रेक्षावचनं मध्ये क्रियते। कुतः ? उभयनिमित्तत्वात् । अनुप्रेक्षा हि भावयन् उत्तमक्षमादींश्च परिपालयति परीषहांश्च जेतु- २५ मुत्सहते। ___ व्याख्याता अनुप्रेक्षाः । संवरहेतुः परीषहजय इत्युक्तम् , अतस्तान् व्याचक्ष्महे । आह-व्याख्यास्यति भवान , इदमेव तावद्वक्तव्यं किमर्थमेते सह्यन्ते ? 'किञ्च, एषां पारिभाषिकी संज्ञा, उतान्वर्था इति ? अत्रोच्यते
___ मार्गाच्यवननिर्जरार्थ परिसोढव्याः परीषहाः ॥८॥ ३०
'महत्त्वादन्वर्थसंशा ।। संज्ञा च नाम यतो न लघीयसी । कुत एतत् ? लघ्वर्थ हि संज्ञाकरणमिति, तत्र महत्याः संज्ञायाः करणे एतत्प्रयोजनमन्वर्थसंज्ञाः परीषहा इति यथा विज्ञायते तद्विभाव्यते। .... यथा पच्यमानौदनादिवत् द्रव्यमेकवचनादिषु भवति तथा सदाश्रितभावमपि....."टि० । २ मशरणाचर्यादाहरति-यथा पाक इत्यादिना । भयमन्त्राशया-तृजभिहितस्य भावस्य यथैकत्वं तेन भूयते ताम्यां तेर्वेति तथा कदाभिहितस्य भावस्य नियमो न भवतीति धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते इति वचनात्-अ.टि.। ३-देखो-मु०,१०,१०,ज.। यथा निरदन्ति तदिति निरदनं कर्मसाधनः
टि० ।५किमेषां मु०,९०.०.ज०।६ परीषहाऽमहत्वाद-मु०,९०,०, ज०। ७ तस्मात् महस्वादन्वर्थसंक्षा । ८ इति यावत् यथा मु०, १०, १०, ज० । इतीयं यथा ता० । परीषहा इति-श्र० दि० ।