________________
६०४
तत्त्वार्थवार्तिके
[ ६७
क्षायिकः । तत्र सत्यमनोयोगः मृषामनोयोगः सत्यमृषामनोयोगः असत्यमृषामनोयोगश्चेति चतुविधो मनोयोगः । सत्यवाग्योगः मृषावाग्योगः सत्यमृषावाग्योगः असत्यमृषावाग्योगश्चेति चतुर्विधो वाग्योगः । औदारिककाययोगः औदारिकमिश्रककाययोगः वैक्रियिककाययोगः वैक्रियिकमिश्रककाययोगः आहारककाययोगः आहारकमिश्रककाययोगः कार्मणकाययोगश्चेति सप्तविधः काययोगः । आत्मप्रवृत्तिसंमोहोत्पादो वेदः । स नोकषायविशेषोदयनिमित्तः त्रिविधः - स्त्रीवेदः पुंवेदो नपुंसक वेदेति । आत्मनं औपशमिकं क्षायिकं वा अपगतवेदत्वम् । चारित्रपरिणामकषणात् कषायः । स चतुर्विधः क्रोधमानमाया लोभलक्षणो व्याख्यातः । अकषायत्वमात्मन' औपशमिकं क्षायिकं वा । तत्त्वार्थावबोधो ज्ञानम्, तत्पश्चविधमुद्दिष्टम् । मिथ्यादर्शनोदयापादितकालुष्यमज्ञानं त्रिविधम् । व्रतसमितिकषायदण्डेन्द्रिय-धारणानुवर्तननिग्रहत्यागजयलक्षणः संयमः पचविधो १० वक्ष्यते । संयमः संयमासंयमश्वोक्तौ । स सर्वश्चारित्रमोहस्योदयोपशमात् क्षयोपशमात् क्षयाच भवति । तत्परिणामत्रयविरहितं सिद्धत्वं क्षायिकम् । दर्शनावरणक्षयक्षयोपशमाविर्भूतवत्तिरालोचनं दर्शनम् । तचतुर्विधमुद्दिष्टं चतुरचतुरवधिकेवलदर्शनभेदात् । कषायश्लेषप्रकर्षाप्रकर्षयुक्ता योगवृत्तिर्लेश्या । सा षड्विधा कृष्णनीलकपोततेजः पद्मशुक्लविकल्पात् । शरीरनामोदयापादिता द्रव्यलेश्या । अलेश्यत्वं क्षायिकम् । निर्वाणपुरस्कृतो भव्यः, तद्विपरीतोऽभव्यः, तदुभयं पारिणा१५ मिकम् । विरहितभव्यत्वाभव्यत्वविकल्पो मुक्तः । तत्त्वार्थश्रद्धानलक्षणं सम्यक्त्वमुक्तम् । तत् दर्शनमोहस्योपशमात् क्षयोपशमात् क्षयाच्च भवति । सासादनसम्यक्त्वम् - अनन्तानुबन्धिकषायोदयाद्भवतीत्यौदयिकम् । सम्यङ् मिथ्यात्वं क्षायोपशमिकम् । मिथ्यात्वमौदयिकम् । शिक्षाक्रियालापप्राही संज्ञी, तद्विपरीतोऽसंज्ञी । तत्र संज्ञित्वं क्षायोपशमिकम्, असंज्ञित्वमौदयिकम् । " तदुभयाभावः क्षायिकः । उपभोगशरीरप्रायोग्य पुद्गलग्रहणमाहारः, तद्विपरीतोऽनाहारः । तत्राहारः शरीरनामो२० दयात् विग्रहगतिनामोदयाभावाश्च भवति । अनाहारः शरीरनामत्रयोदयाभावात् विग्रहगतिना
मोदयाश्च भवति ।
५
तान्येतानि चतुर्दशमार्गणास्थानानि । तेषु जीवस्थानानां सत्ता चिन्त्यते - तिर्यग्गतौ चतुदेशापि जीवस्थानानि सन्ति । इतरासु तिसृषु द्वे द्वे पर्याप्तकापर्याप्तकभेदात् । एकेन्द्रियेषु चत्वारि जीवस्थानानि । विकलेन्द्रियेषु द्वे द्वे । पचेन्द्रियेषु चत्वारि । पृथिव्यप्तेजोवायुकायिकेषु प्रत्येकं २५ चत्वारि । वनस्पति कायिकेषु षट् । त्रसकायिकेषु दश । मनोयोगे एकं जीवस्थानं संज्ञिपर्याप्तकः । वाग्योगे पच जीवस्थानानि द्वित्रिचतुरिन्द्रियपर्याप्तकसंज्ञ्यसंज्ञिपर्याप्तकनामानि । काययोगे चतुदश सन्ति । स्त्रीवेदपुंवेदयोः प्रत्येकं चत्वारि जीवस्थानानि संज्ञ्यसंज्ञिपर्याप्तकापर्याप्तकाख्यानि । नपुंसकवेदे चतुर्दशापि सन्ति । अवेदे एकं जीवस्थानं संज्ञिपर्याप्तकसंज्ञम् । चतुर्ष्वपि कषायेषु चतुर्दशापि जीवस्थानानि सन्ति । अकषाये एकमेव संज्ञिपर्याप्तकाख्यम् । मत्यज्ञानश्रुताज्ञानयोश्च३० तुर्दशानि सन्ति । विभङ्गमन:पर्ययज्ञानयोरेकमेव जीवस्थानं संज्ञिपर्याप्तकाख्यम् । मतिश्रुतावधिज्ञानेषु द्वे जीवस्थाने संज्ञिपर्याप्तकापर्याप्तकाख्ये । केवलज्ञाने एकमेव जीवस्थानं संज्ञिपर्याप्तकाख्यम् । सामायिकछेदोपस्थापन परिहारविशुद्धिसूक्ष्मसाम्पराययथाख्यातसंयमसंयमासंयमेषु एकमेव जीवस्थानं संज्ञिपर्याप्तकनामकम् । असंयमे चतुर्दशापि सन्ति । अचतुर्दर्शने चतुर्दशापि जीवस्थानानि सन्ति । चतुर्दर्शने श्रीणि जीवस्थानानि चतुरिन्द्रियसंज्ञ्यसंज्ञिपर्याप्तकाख्यानि । ३५ तेषामेवाऽपर्याप्तका " लब्धाः सन्ति न निर्वृत्ताः " । अवधिदर्शने द्वे जीवस्थाने संज्ञिपर्याप्तकापर्याप्त
१ आत्मनि मु०, ५०, ब०, ज० । २ वापि गत- द०, ब०, ज० । चापिगत-मु० । ३-नश्चौप-मु०, द०, ब०, ज० । ४. स च सर्व- मु०, ६०, ब०, ज० । ५- मुपदिष्टं मु०, ६०, ब०, ज० । ६ तदुदया - ता० श्र० । ७ विचिन्त्यते मु०, ५०, ब०, ज० । ८-कायेषु ता० । चतुरिन्द्रियादीनाम् श्र० टि० । १० लब्धौसन्ति न निर्वृत्तौ मू० मु०, द०, ब०, ज० । लब्ध्यपर्याप्तक - श्र० टि० । ११ निर्वृत्यपर्याप्तक- श्र० टि० ।