________________
६७] नवमोऽध्यायः
६०५ कसंज्ञे। केवलदर्शने संज्ञिपर्याप्तकाख्यम् । आद्यासु तिसृषु लेश्यासु चतुर्दशापि जीवस्थानानि सन्ति । तेजःपद्मशुक्ललेश्यासु द्वे जीवस्थाने संज्ञिपर्याप्तकापर्याप्तकनामनी। अलेश्यत्वे एकं जीवस्थानं संज्ञिपर्याप्तकाख्यम् । भव्येषु अभव्येषु च चतुर्दशापि जीवस्थानानि सन्ति । औपशमिकक्षायिकक्षायोपशमिकसम्यक्त्वसासादनसम्यक्त्वेषु द्वे जीवस्थाने संज्ञिपर्याप्तकापर्याप्तकसंज्ञे । सम्यमिथ्यात्वे एकमेव संज्ञिपर्याप्तकाख्यम् । मिथ्यात्वे चतुर्दशापि सन्ति । संज्ञिषु द्वे जीवस्थाने ५ पर्याप्तकापर्याप्तकनामनी । असंज्ञिपु द्वादशावशिष्टानि । संश्यसंज्ञित्वाऽभावे एकं जीवस्थानं पर्याप्तकाख्यम् । कर्मोदयापेक्षया आहारे चतुर्दशापि सन्ति । अनाहारे सप्ताऽपर्याप्तकस्थानानि । पर्याप्तकं च केवलिसमुद्वाते अयोगकेवलिनि च कर्मोदयार्पणात् । सिद्धाः सर्वत्रातीतजीवस्थानाः। ___गुणस्थानानामपि तेष्वेव सत्ता विचार्यते-नरकगतौ नारकेषु पर्याप्त केषु चत्वारि गुणस्थानानि आद्यानि सप्तसु पृथिवीसु । प्रथमायां पृथिव्यामपर्याप्तकेषु द्वे गुणस्थाने मिथ्यादृष्ट्यसंयत- १० सम्यग्दृष्टी । इतरासु पृथिवीषु अपर्याप्तके कमेव मिथ्यात्वम् । तिर्यग्गतौ तिर्यच पर्याप्तकेषु पञ्च गुणस्थानान्यायानि । तेषामपर्याप्तकेषु त्रीणि गुणस्थानानि मिथ्यादृष्टिसासादनसम्यग्दृष्ट्यसंयतसम्यग्दृष्टिसंज्ञानि । तिरश्चीषु पर्याप्तिकासु पञ्च गुणस्थानानि आद्यानि, अपर्याप्तिकासु द्वे आये, स्त्रीत्वेन प्रवेशाभावात् असंयतसम्यग्दृष्टयभावः । मनुष्यगतौ मनुष्येषु पर्याप्तकेषु चतुर्दशापि गुणस्थानानि भवन्ति । अपर्याप्तकेषु त्रीणि गुणस्थानानि मिथ्यादृष्टिसासादनसम्यग्दृष्ट्यसंयत- १५ सम्यग्दृष्टयाख्यानि । मानुषीषु पर्याप्तिकासु चतुर्दशापि गुणस्थानानि सन्ति भावलिङ्गापेक्षया न द्रव्यलिङ्गापेक्षया, द्रव्यलिङ्गापेक्षया तु पश्चाद्यानि । अपर्याप्तिकासु द्वे आये, सम्यक्त्वेन सह स्त्रीजननाभावात् । तिर्यानुष्येषु भवापर्याप्तकेषु एकमेव गुणस्थानमाद्यम् । देवगतौ भवनवासिव्यन्तरज्योतिष्कदेवेषु पर्याप्तकेषु चत्वारि गुणस्थानान्याद्यानि, अपर्याप्तकेषु द्वे आये । तहेवीषु सौधर्मेशानकल्पवासिदेवीषु च स एव क्रमः । सौधर्मेशानादिषु उपरिमौवेयकान्तेषु २० चत्वारि गुणस्थानानि आद्यानि, अपर्याप्तकेषु त्रीणि मिथ्यादृष्टिसासादनसम्यग्दृष्ट्यसंयतसम्यग्दृष्टिनामानि । अनुदिशानुत्तरविमानवासिषु पर्याप्तापर्याप्तकेषु च एकमेव गुणस्थानम् असंयतसम्यग्दृष्टिसंज्ञम् ।
एकद्वित्रिचतुरिन्द्रियाऽसंज्ञिपजेन्द्रियेषु एकमेव गुणस्थानमाद्यम् । पन्चेन्द्रियेषु संशिषु चतुर्दशापि सन्ति ।
पृथिवीकायादिषु वनस्पत्यन्तेषु एकमेव प्रथमम् । त्रसकायिकेषु चतुर्दशापि सन्ति ।
सत्यमनोयोगेऽसत्यमृषामनोयोगे च संज्ञिमिथ्यादृष्टिप्रभृतयः सयोगिकेवल्यन्ताः। मृषामनोयोगे सत्यमृषामनोयोगे च संझिमिथ्यादृष्ट्यादयः क्षीणकषायवीतरागछद्मस्थान्ताः। असत्यमृषावाग्योगे द्वीन्द्रियादयः सयोगकेवल्यन्ताः ? सत्यवाग्योगे संज्ञिमिथ्यादृष्ट्यादयः सयोगिकेवल्यन्ताः। मृषावाग्योगे सत्यमृषावाग्योगे च संझिमिथ्यादृष्टिप्रभृतयः क्षीणकषायवीत- ३० रागछमस्थान्ताः। औदारिककाययोगे त्रयोदश गुणस्थानानि सयोगिकेवल्यन्तानि । औदारिकमिश्रकाययोगे चत्वारि गुणस्थानानि मिथ्याष्टिसासादनसम्यग्दृष्ट्यसंयतसम्यग्दृष्टिसयोगिकेवलिसंज्ञानि । वैक्रियिककाययोगे चत्वारि गुणस्थानानि आधानि । वैक्रियिकमिश्रकाययोगे त्रीणि तान्येव सम्यमिथ्यात्ववर्जितानि । आहारककाययोगाहारकमिश्रकाययोगयोरेकमेव गुणस्थानं प्रमत्तसंयताख्यम् । कार्मणकाययोगे चत्वारि गुणस्थानानि मिथ्यादृष्टिसासादनसम्यग्दृष्ट्य- ३५ संयतसम्यग्दृष्टिसयोगिकवल्याख्यानि । 'अयोगे गुणस्थानमेकम् ।
१ अयोगिगुण-ता।