________________
७]
नवमोऽध्यायः
६०३ . निर्जरा वेदनाविपाक इत्युक्तम् । सा द्वधा-अबुद्धिपूर्वा कुशलमूला चेति । तत्र नरकादिषु कर्मफलविपाकजा अबुद्धिपूर्वा, सा अकुशलानुबन्धा । परीषहजये कृते कुशलमूला, सा शुभानुबन्धा निरनुबन्धा चेति । एवं निर्जराया गुणदोषभावनं निर्जरानुप्रेक्षा । एवं ह्यस्यानुस्मरतः कर्मनिर्जरायै वृत्तिर्भवति।
लोकसंस्थानादिविधिाख्यातः समन्तादनन्तस्यालोकाकाशस्य बहुमध्यदेशभाविनो । लोकस्य संस्थानादिविधिर्व्याख्यातः, तत्स्वभावानुचिन्तनं लोकानुप्रेक्षा । एवं ह्यस्याध्यवस्यतः तत्त्वज्ञानादिविशुद्धिर्भवति । प्रसंभावादिलाभस्य कृच्छ्रप्रतिपत्तिः बोधिदुर्लभत्वम् ।। उक्तं च
“एगणिगोदसरीरे जीवा दबप्पमाणदो दिट्ठा।
सिद्धेहि अणंतगुणा सव्वेण वितीदकारेण ॥"[पंचस० १।८४] १० इत्यागमप्रामाण्यादेकस्मिन्निगोतशरीरे जीवाः सिद्धानामनन्तगुणाः । एवं सर्वलोको निरन्तरनिचितः स्थावरैः, अतस्तत्र त्रसता बालुकासमुद्रे पतिता वनसिकताकणिकेव दुर्लभा । तत्र च विकलेन्द्रियाणां भूयिष्ठत्वात् पञ्चेन्द्रियता गुणेषु कृतज्ञतेव कृच्छ्रलभ्या। तत्र च तिर्यच पशुमृगपक्षिसरीसृपादिषु बहुषु सत्सु मनुष्यभावश्चतुष्पथे रत्नराशिरिव दुरासदः । तत्प्रच्यवे पुनस्तदुपपत्तिर्दग्धतरुपुद्गलतद्भावापत्तिवत् दुर्लभा । तल्लाभे च कुदेशानां हिताहितविचारणाविरहितपशुसमान- १५ मानवाकीर्णानां बहुत्वात् सुदेशः पाषाणेषु मणिरिवासुलभः । लब्धेऽपि सुदेशे सुकुले जन्म कृच्छलभ्यं पापकर्मजीवकुलाकुलत्वात् लोकस्य । कुले हि जातिः प्रायेण शीलविनयाचारसंपत्तिकरी भवति । सत्यामपि कुलसंपदि दीर्घायुरिन्द्रियबलरूपनीरोगत्वादीनि दुर्लभानि । सर्वेष्वपि तेषु लब्धेषु सद्धर्मप्रतिलाभो यदि न स्यात् व्यर्थ जन्म वदनमिव दृष्टिविकलम् । तमेवं कृछलभ्यं धर्ममवाप्य विषयसुखे रञ्जनं भस्मार्थ चन्दनदहनमिव विफलम् । विरक्तविषयसुखस्य तपोभावना- २० धर्मप्रभावनासुखमरणादिलक्षणः समाधि१रवापः । तस्मिन् सति बोधिलाभः फलवान् भवतीति चिन्तनं बोधिदुर्लभत्वानुप्रेक्षा। एवं ह्यस्य भावयतः बोधि प्राप्य प्रमादो न कदाचिदपि भवति ।
जीवस्थानगुणस्थानानां गत्यादिषु मार्गणालक्षणो धर्मः स्वाख्यातः ।१०। उक्तानि जीवस्थानानि गुणस्थानानि च, तेषां गत्यादिषु मार्गणास्थानेषु स्वतत्त्वविचारणालक्षणो धर्मः जिनशासने स्वाख्यातः । अत्राह-गत्यादय इत्युच्यन्ते, के पुनर्गत्यादय इति ? अत्रोच्यते
गतीन्द्रियकाययोगवेदकषायज्ञानसंयमदर्शनलेश्याभव्यसम्यक्त्वसंशाहारकेषु मार्गणाः ।११। गम्यत इति गतिः । सा द्वेधा-कर्मोदयकृता क्षायिकी चेति । कर्मोदयकृता चतुर्विधा व्याख्याता-नरकगतिः तिर्यम्गतिः मनुष्यगतिः देवगतिश्चेति । क्षायिकी मोक्षगतिः । इन्द्रस्य लिङ्ग मिन्द्रेण सृष्टमिति वा इन्द्रियम् । तद् द्रव्यभावभेदेन द्विविधं सत् पञ्चधा वर्णितम्-एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियभेदेन, तत्कर्मकृतम् । अतीन्द्रियत्वमात्मनः क्षायिकम् । आत्मप्रवृत्त्युप- ३० चितपुदलपिण्डः कायः। तत्संबन्धिजीवः षविधः-पृथिवीकायिकः अकायिकः तेजस्कायिकः वायुकायिकः वनस्पतिकायिकः त्रसकायिकश्चेति । त्रसस्थावरनामकर्मविशेषोदयापादिता एते भावाः। नामकर्मात्यन्तोच्छेदादकायाः सिद्धाः। वीर्यान्तरायक्षयोपशमलब्धवृत्तिवीर्यलब्धिर्योगः । तद्वत आत्मनो मनोवाक्कायवर्गणालम्बनः प्रदेशपरिस्पन्दः उपयोगो योगः। स पञ्चदशप्रकार:चत्वारो मनोयोगाः चत्वारो वाग्योगाः सप्त काययोगाश्चेति । योगसम्बन्धाऽभावः आत्मनः ३५
रखत्रयस्वभावादिलाभस्य कृच्छ्रा प्र-मु०, २०,०। २ गो० जी० गा० ११४ । मूलाचार गा० १२०४ । ३ निरन्तरं नि-मु० द०,०। ४ बालिका-मू०, ९०, ब०, ज०, श्र० । ५ कुले ता०, श्र०, मू०, द०, ब०, ज०। ६ कृच्छ्राल्लभ्यते मु०, द०, ब०, ज०। ७-न्द्रियत्वादात्म-मु०, द०,०। ८-वृत्युपचरितपु-मु०, ९०, ब०, ज० ।-कः बनस्पतिकाविकः बावुकाविका -ता० ।