________________
६०२ तत्त्वार्थवार्तिके
[६७ अनाद्यन्तोऽहम् , बहूनि मे शरीरशतसहस्राणि अतीतानि संसारे परिभ्रमतः, स एवाहम् अन्यस्तेभ्यः इत्येवं शरीरादन्यत्वं मे, किमङ्ग पुनर्बाह्येभ्यः परिग्रहेभ्य इति चिन्तनम् अन्यत्वानुप्रेक्षा । एवं ह्यस्य मनस्समादधानस्य शरीरादिषु स्पृहा नोपपद्यते, ततश्च श्रेयसि वर्तते ।
शरीरस्याद्युत्तराशुभकारणत्वादिभिरशुचित्वम् ।६। शुचित्वं द्विविधम्-लौकिकं लोकोत्तरं ५ चेति । तत्रात्मनः प्रक्षालितकर्ममलकलङ्कस्य स्वात्मन्यवस्थानं लोकोत्तरं शुचित्वम् , तत्साधनं च
सम्यग्दर्शनादि तद्वन्तश्च साधवः तदधिष्ठानानि च निर्वाणभूम्यादीनि तत्प्राप्त्युपायत्वाच्छुचिव्यपदेशमर्हन्ति । लौकिकं शुचित्वमष्टविधम्-कालाग्निभस्ममृत्तिकागोमयसलिलज्ञाननिर्विचिकित्सत्वभेदात् । तदिदं शरीरं शुचीकर्तुं नालम् । कुतः ? अत्यन्ताशुचित्वात् । शरीरमिदमाद्युत्तरा
शुभकारणादिभिरशुचि लक्ष्यते । तद्यथा-आद्यं तावत्कारणं शरीरस्य शुक्रं शोणितं च, तदुभय१० मत्यन्ताशुचि । उत्तरकारणमाहारपरिणामादि, कवलाहारो हि प्रस्तमात्रः श्लेष्माशयं प्राप्य
श्लेष्मणा द्रवीकृतः अधिकमशुचि भवति, ततः पित्ताशयं प्राप्य पच्यमान आम्लीकृतः अशुचिरेव भवति, पक्को वाताशयमवाप्य वायुना विभज्यमानः खलरसभावेन भिद्यते । खलभागो मूत्रपुरीषादिमलविकारेण विविच्यते । रसभागः शोणितमांसमेदोऽस्थिमज्जाशुक्रभावेन परिणमते ।
सर्वेषां चैषामशुचीनां भाजनं शरीरमवस्करवत् । अशक्यप्रतीकारं खल्दिं शरीरम् , स्नानानु१५ लेपनधूपप्रघर्षवासमाल्यादिभिरपि न शक्यमशुचित्वमपहर्तुम् , अङ्गारवत् । आश्रितमपि द्रव्य
माश्वेवात्मभावमापादयतीति न जलादीनामपि शुचिहेतुत्वम् । सम्यग्दर्शनादि पुनर्भाव्यमानं जीवस्यात्यन्तिकी शुद्धिमाविर्भावयतीति तत्त्वतो भावनमशुचित्वानुप्रेक्षा। एवं यस्य संस्मरतः शरीरनिर्वेदो भवति, निर्विण्णश्च जन्मोदधितरणाय चित्तं समाधत्ते।
आम्रवसंवरनिर्जराग्रहणमनर्थकमुक्तत्वादिति चेत् । न तद्गुणदोषान्वेषणपरत्वात् ।। २० स्यान्मतम्-आस्रवसंवरनिर्जरा वर्णिताः, अतस्तासामिह पुनर्ग्रहणमनर्थकमिति; तन्नः किं कारणम् ?
तद्गुणदोषान्वेषणपरत्वात् । आस्रवदोषानुचिन्तनमुद्वेगार्थमास्रवोपक्षेपः। आस्रवा हि इहामुत्र चापाययुक्ता महानदीस्रोतोवेगतीक्ष्णा इन्द्रियादयः । तद्यथा-प्रभूतयवसोदकप्रमोथावगाहनादिगुणसंपन्नवनविचारिणः मदान्धाः बलवन्तोऽपि वारणाः हस्तिबन्धकीषु स्पर्शनेन्द्रिय प्रसंसक्त
चित्ताः मनुष्यविधेयतामुपगत्य वधबन्धनवाहनाङ्कुशताडनपाणिघातादिजनितं तीव्रदुःखमनु२५ भवन्ति, नित्यमेव च स्वयूथस्य स्वच्छन्दप्रवीचारसुखस्य च वनवासस्यानुस्मरन्तो महान्तं खेदम
वाप्नुवन्ति । तथैव च जिह्वेन्द्रियविषयलोलाः मृतहस्तिशरीरस्थस्रोतोवेगावगाहिवायसवत् व्यसनमुपनिपतन्ति । घ्राणेन्द्रियवशंगताश्च औषधगन्धलुब्धपन्नगवद्विनिपातमिच्छन्ति । चक्षुरिन्द्रियविधेयीकृताश्च दीपालोकनलोलपतङ्गवद् व्यसनप्रपाताभिमुखा भवन्ति । श्रोत्रेन्द्रियविषयसङ्गाकृष्टमन
सोऽपि गीतध्वनिविषङ्गविस्मृततृणग्रसनहरिणवत् अनर्थोन्मुखा भवन्ति । परत्र च नानाजातिष ३० बहुविधदुःखप्रज्वालितासु पर्यटन्ति इति । एवमाद्यास्रवदोषदर्शनमास्रवानुप्रेक्षा । एवं यस्य चिन्तयतः क्षमादिधर्मश्रेयस्त्वबुद्धिर्न प्रच्यवते ।
सर्व एते आस्रवदोषाः कूर्मवत् संवृतात्मनो न भवन्ति यथा महार्णवे नावौ विवरपिधानेऽसति क्रमाश्रितजलविलवे सति तदाश्रयाणां विनाशोऽवश्यंभावी, छिद्रपिधाने च निरुपद्रवमभि
लषितदेशान्तरप्रापणं तथा कर्मागमद्वारसंवरणे सति नास्ति श्रेयःप्रतिबन्ध इति संवरणगुणानुचिन्तनं ३५ संवरानुप्रेक्षा । एवं ह्यस्य चिन्तयतः संवरे नित्योद्युक्तता भवति ।
१-नामशु-मु०, ता०, मू०, द०, ब०, ज०। २ परस्पर-श्र० टि०। ३-प्रसक्तचि-मु०, मू०, ता०, द०, ब०, ज० । ४ तथा आस्रवदोषानुचिन्तनमानवानुप्रेक्षा, संवरणगुणा-भा०१।