________________
.
गला
७]
नवमोऽध्यायः लिनां च नास्ति प्रदेशचलनम् , इतरेषां त्रिधाऽवसीयते । स पुनः संसारः कचिदनादिनिधनः अभव्यापेक्षया भव्यसामान्यार्पणया च, कचित् अनादिरुच्छेदवान् भव्यविशेषापेक्षया। सादिः सनिधनो नोसंसारः । अनिधनः सादिरसंसारः । तत्रितयव्यपायोऽन्तर्मुहर्तकालः।
तत्र द्रव्यमिमित्तः संसारश्चतुर्विधः कर्मनोकर्मवस्तुविषयाश्रयभेदात् । तत्र क्षेत्रहेतुको द्विविधःस्वक्षेत्रपरक्षेत्रविकल्पात् । लोकाकाशतुल्यप्रदेशस्यात्मनः कर्मोदयवशात् संहरणविसर्पणधर्मणः ५ हीनाधिकप्रदेशपरिणामावगाहित्वं स्वक्षेत्रसंसारः। सम्मूछनगर्भोपपादजन्मनवयोनिविकल्पाद्यालम्बनः परक्षेत्रसंसारः । कालो द्विविधः-परमार्थरूपो व्यवहाररूपश्चेति । तयोर्लक्षणं प्राग्व्याख्यातम् । तत्र परमार्थकालवर्तितपरिस्पन्देतरपरिणामविकल्पः तत्पूर्वककालव्यपदेशौपचारिककालत्रयवृत्तिः कालसंसारः । भवनिमित्तः संसारः द्वात्रिंशद्विधः-पृथिव्यप्तेजोवायुकायिकाः प्रत्येकं चतुर्विधाः सूक्ष्मबादरपर्याप्तकाऽपर्याप्तकभेदात् । वनस्पतिकायिकाः द्वेधा-प्रत्येकशरीराः साधारणशरीराश्चेति । १० प्रत्येकशरीरा द्वधा-पर्याप्तकापर्याप्तकभेदात् । साधारणशरीराश्चतुर्धा-सूक्ष्मबादरपर्याप्तकापर्याप्तकविकल्पात् । विकलेन्द्रियाः प्रत्येकं द्विधा पर्याप्तकापर्याप्तकविकल्पात् । पञ्चेन्द्रियाश्चतुर्धा संश्यसंज्ञिपर्याप्तकापर्याप्तकापेक्षयेति । भावनिमित्तः संसारो द्वधा स्वभावपरभावाश्रयातू । स्वभावो मिथ्यादर्शनादिः, परभावो ज्ञानावरणादिकमरसादिः । एवमेतस्मिन्ननेकयोनिकुलकोटिबहुशतसहस्त्रसंकटे संसारे परिभ्रमन् जीवः कर्मयन्त्रप्रेरितः पिता भूत्वा भ्राता पुत्रः पौत्रश्च भवति, माता १५ भूत्वा भगिनी भार्या दुहिता च भवति, किंबहुना स्वयमात्मनः पुत्रो भवतीत्येवमादि संसारस्वभावचिन्तनं संसारानुप्रेक्षा । एवं ह्यस्य भावयतः संसारदुःखभयाद्विग्नस्य ततो निर्वेदो भवति, निर्विण्णश्च संसारप्रहाणार्य प्रतियतते।
जन्मजरामरणावृत्तिमहादुःखानुभवनं प्रति सहायानपेक्षत्वमेकत्वम् ।। एकत्वमनेकस्वमित्येतदुभयं द्रव्यक्षेत्रकालभाषविकल्पम् । तत्र द्रव्यैकत्वं जीवादिष्वन्यतमद्रव्यविषयत्वेनाs- २० भेदकल्पनम् । क्षेत्रकत्वं परमाण्यवगाहप्रदेशः। कालैकत्वमभेदः समयः। भावकत्वं मोक्षमार्गः । तथा अनेकत्वमपि भेदविषयम् । नहि किश्चिदेकमेव निश्चितमस्ति अनेकमेव वा । एकमपि सामान्यार्पणया विशेषार्पणया अनेकमपि । तत्र परिप्राप्तबाह्याभ्यन्तरोपधित्यागस्य सम्यक्षानादेकत्वनिश्चयमास्कन्दतः यथाख्यातचारित्रकवृत्तिः मोक्षमार्गो भावकत्वम् । तत्प्राप्तये एक एवाहम, न कश्चिन्मे स्वः परो वा विद्यते, एक एव जाये एक एव म्रिये, न कश्चिन्मे स्वजनः परजनो २५ वा व्याधिजरामरणादीनि दुःखान्यपहरति । बन्धुमित्राणि श्मशानं नातिवर्तन्ते । धर्म एव मे सहायः सदानपायीति चिन्तनमेकत्वानुप्रेक्षा। एवं ह्यस्य भावयतः स्वजनेषु प्रीत्यनुबन्धो न भवति परजनेषु च द्वेषानुबन्धो "नोपजायते, ततो निस्सङ्गतामभ्युपगतो मोक्षायैव घटते।
शरीराद् व्यतिरेको लक्षणभेदादन्यत्वम् ।। अन्यत्वं चतुर्धा व्यवतिष्ठते-नामस्थापनाद्रव्यभावालम्बनेन । आत्मा जीव इति नामभेदः, काष्ठप्रतिमेति स्थापनाभेदः, जीवद्रव्यमजीवद्रव्य- ३० मिति द्रव्यभेदः, एकस्मिन्नपि द्रव्ये बालो युवा मनुष्यो देव इति भावभेदः। तत्र बन्धं प्रत्येकत्वे सत्यपि लक्षणभेदादन्यत्वम् । ततः कुशलपुरुषप्रयोगसन्निधौ शरीरादत्यन्तव्यतिरेकेण आत्मनो झानादिभिरनन्तैरहेयरवस्थानं मुक्तिरन्यत्वं शिवपदमिति चोच्यते । तदवाप्तये च ऐन्दियिक शरीरम् अतीन्द्रियोऽहम् , अझं शरीरं झोऽहम् , अनित्यं शरीरं नित्योऽहम् , आद्यन्तवच्छरीरम्
१सयोगकेवलिनः-१० टि०। २ मोक्ष-श्र.टि.। ३ अयोगकेवलिनः-श्र० टि०। ५ व्यवहार '-श्र० टि०। ५-नेकानेककुयो-मु०।-नेककुयो-ज० । ६ पिता पितामहोभू-मु०, द०, ब०। पितामहोभू-ज०। ७-प्रहरणाय मु०, २०, ब०, ज०। ८ निश्चयेन-मू०, टि०। -नि परिहरति मु०, २०, ब०, ज०।१० नैव जा-मु०,८०, ब०, ज० ।