________________
६०० तत्त्वार्थवार्तिके
[ ७ रणलक्षणो धर्मभाषः अस्ति, स च एकः, तस्य विवक्षितत्वात् एकवचननिर्देशः । आविष्टलिङ्गश्च धर्मशब्दः नान्यसम्बन्धे स्वलिङ्ग जहाति ।
आह-क्रोधाद्यनुत्पत्तिः क्षमादिविशेषप्रत्यनीकालम्बनादित्युक्तम् , तत्र कस्मात् क्षमादीनयमवलम्बते नान्यथा.वर्तते इति ? उच्यते-यस्मात्तप्तायस्पिण्डवत् क्षमादिपरिणतेनात्महितैषिणा कर्तव्याः५ अनित्याशरणसंसारैकत्वान्यत्वाशुच्यास्रवसंवरनिर्जरा-लोकबोधि.
दुर्लभधर्मस्वाख्यातत्वानुचिन्तनमनुप्रेक्षाः ॥७॥ उपात्तानुपात्तद्रव्यसंयोगव्यभिचारस्वभावोऽनित्यत्वम् ।। आत्मना रागादिपरिणामात्मना कर्मनोकर्मभावेन गृहीतानि उपात्तानि पुद्गलद्रव्याणि, अनुपात्तानि परमाण्वादीनि, तेषां सर्वेषां
द्रव्यात्मना नित्यत्वं पर्यायात्मना सततमनुपरतभेदसंसर्गवृत्तित्वादनित्यत्वम् । इमानि हि शरीरेन्द्रि१० यविषयोपभोगपरिभोगद्रव्याणि समुदयरूपाणि जलबुद्बुद्वदनवस्थितस्वभावानि गर्भादिषु अवस्था
विशेषेषु सहोपलभ्यमानसंयोगविपर्ययाणि । मोहादत्राज्ञो नित्यतां मन्यते । न किञ्चित्संसारे समुदितं ध्रुवमस्ति आत्मनो ज्ञानदर्शनोपयोगस्वभावादन्यदिति चिन्तनमनित्यत्वानुप्रेक्षा । एवं घरय चिन्तयतस्तेषु अभिष्वङ्गाभावात् भुक्तोज्झितगन्धमाल्यादिषु इव वियोगकालेऽपि विनिपातो नोत्पद्यते ।
तुधितव्याघ्राभिद्र तमृगशाववज्जन्तोर्जरामृत्युरुजान्तरे परित्राणाभावोऽशरणत्वम् ।। १५ शरणं द्विविधम्-लौकिकं लोकोत्तरं चेति । तत्प्रत्येकं त्रिवा-जीवाजीवमिश्रकभेदात् । तत्र राजा
देवता वा लौकिकं जीवशरणम् ,'प्राकारादि अजीवशरणम् , ग्रामनगरादि मिश्रकम् । पञ्च गुरवो लोकोत्तरं जीवशरणम् , तत्प्रतिबिम्बाद्यजीवशरणम् , सधर्मोपकरणसाधुवर्गो मिश्रकशरणम् । तत्र यथा मृगशावस्य एकान्ते बलवता सुधितेन आमिषैषिणा व्याघ्रणा न किचित्
शरणमस्ति तथा जन्मजरामृत्युव्याधिप्रियविप्रयोगाप्रियसंयोगेप्सितालाभदारिद्रयदौर्मनस्यादिस२० मुत्थितेन दुःखेनाभिभूतस्य जन्तोः शरणं न विद्यते । परिपुष्टमपि शरीरं भोजनं प्रति सहायी
भवति न व्यसनोपनिपाते । यत्नेन संचिता अर्था अपि न भवान्तरमनुगच्छन्ति । संविभक्तसुखदुःखाः सुहृदोऽपि न मरणकाले परित्रायन्ते । बन्धवः समुदिताश्च रुजा परीतं न परियान्ति । अस्ति चेत् सुचरितो धर्मो व्यसनमहार्णवे तरणोपायो भवति । मृत्युना नीयमानस्य सहस्रनयनादयोऽपि न शरणम् । तस्माद्भवव्यसनसंकटे धर्म एव शरणम् । सुहृदर्थोऽपि[न] अनपायी, नान्यत्किञ्चिच्छरणमिति भावनमशरणानुप्रेक्षा। एवं यस्याध्यवस्यतः नित्यमशरणोऽस्मीति भृशमुद्विग्नस्य सांसारिकेषु भावेषु ममत्वविगमो भवति । भगवदर्हत्सर्वज्ञप्रतीते(प्रणीते)एव वचसि प्रतियत्नो भवेत्।
द्रव्यादिनिमित्ता आत्मनो भवान्तरावाप्तिः संसारः ।। चतुर्विधा आत्मावस्थाः-संसारः असंसारः नोसंसारः तत्रितयव्यपायश्चेति । तत्र संसारश्वतसृषु गतिषु नानायोनिविकल्पासु परि३० भ्रमणम् । अनागतिरसंसारः शिवपदपरमामृतसुखप्रतिष्ठा । नोसंसारः सयोगकेवलिनः चतुर्गति
भ्रमणाभावात् असंसारप्राप्त्यभावाच ईषत्संसारो नोसंसारः इति । अयोगकेवलिनः तत्रितयव्यपायः, भवभ्रमणाभावात् सयोगकेवलिवत् प्रदेशपरिस्पन्दविगमात् असंसारावाप्त्यभावाच । देहपरिस्पन्दाभावेऽपि देहिनः सततं प्रदेशचलनमस्ति ततः सदा संसार एव । सिद्धानामयोगकेव
-निश-मु०, द०, ब०, ज०। २-गद्रव्या-मु०, १०, २० ज०। ३-न्तके प-मु०,०, ज०, ०।-शरणम् मु०, २०, ५०, ज०। ५ दुर्गादिकं लौकिकमजी-मु०। हयग्राकारपरिखादयःमा० २।। पञ्चपरमेष्टिरूपः-म. टि०। ७ प्रतिपन्नो मु०, ९०, ब०, ज०। ८ भावा-ता०, मू०। है मोल-ता टि।
२५ त्किाल