________________
१६] नवमोऽध्यायः
५६६ परैः प्रयुक्तस्य क्रोधनिमित्तस्य आत्मनि भावचिन्तनं तावत्-विद्यन्ते मय्येते दोषाः, किमत्रासौ मिथ्या ब्रवीतीति क्षमितव्यम् । अभावचिन्तनादपि, नैते मयि विद्यन्ते दोषाः, अज्ञानादसौ ब्रवीतीति क्षमा कार्या।
अपि च, बालस्वभावचिन्तनं परोक्षप्रत्यक्षाक्रोशताडनमारणधर्मभ्रंशनानामत्तरोत्तररक्षार्थम् । तद्यथा-परोक्षमाक्रोशति बाले क्षमितव्यम् । एवंस्वभावा हि बाला भवन्ति । दिष्ट्या ५ च मां परोक्षमाक्रोशति न प्रत्यक्षम् । एतदपि विद्यते बालेष्विति लाभ एव मन्तव्यः। प्रत्यक्षमाक्रोशति सोढव्यम् । विद्यत एतत् बालेषु, दिष्ट्या च मां प्रत्यक्षमाक्रोशति न ताडयति । एतदपि विद्यते बालेष्विति लाभ एव मन्तव्यः। ताडयत्यपि च मर्षितव्यम् । दिष्ट्या च मां ताडयति न , प्राणैर्वियोजयतीति । एतदपि विद्यते बालेष्विति लाभ एव मन्तव्यः। प्राणैर्वियोजयत्यपि तितिक्षा कर्तव्या दिष्ट्या च मां प्राणैर्वियोजयति न धर्माद्भ्रंशयति इति । किश्चान्यत् , ममैवापराधोऽयम् । १० यत्पुराचरितं तन्महद् दुष्कर्म तत्फलमिदमाक्रोशवचनादि निमित्तमात्रं परोऽत्रेति सहितव्यम् ।
मार्दवोपेतं गुरवोऽनुगृहन्ति, साधवोऽपि साधुमामन्यन्ते । ततश्च सम्यग्ज्ञानादीनां पात्रीभवति । ततः स्वर्गापवर्गफलावाप्तिः। मलिने मनसि व्रतशीलानि नावतिष्ठन्ते । साधवश्चैनं परित्यजन्ति । तन्मूलाः सर्वा विपदः। .
ऋजुहृदयमधिवसन्ति गुणाः, मायाचारं नाश्रयन्ते । गर्हिता च गतिर्भवति।
शुच्याचारमिहापि सन्मानयन्ति सर्वे। विश्रम्भादयश्च गुणाः तमधितिष्ठन्ति । लोभभावनाक्रान्तहृदये नावकाशं लभन्ते गुणाः, इह चामुत्र चाऽचिन्त्यं व्यसनमसावश्नुते ।
सत्यवाचि प्रतिष्ठिताः सर्वा गुणसंपदः । अनृतभाषिणं बन्धवोऽपि अवमन्यते(न्ते)मित्राणि च परित्यजन्ति, जिलाछेदनसर्वस्वहरणादिव्यसनभागपि भवति । संयमो यात्महितः । तमनुतिष्ठन्निहैव पूज्यते परत्र किमस्ति वाच्यम् । असंयतः प्राणवधविषयरागेषु नित्यप्रवृत्तः, कर्मा- २० शुभं संचिनुते ।
- तपः सर्वार्थसाधनम् । तत एव ऋद्धयः संजायन्ते । तपस्विभिरध्युषितान्येव क्षेत्राणि लोके तीर्थतामुपगतानि । तद्यस्य न विद्यते स तृणाल्लघुलक्ष्यते । मुश्चन्ति तं सर्वे गुणाः । नासौ मुञ्चति संसारम् ।
___ उपधित्यागः पुरुषहितः। यतो यतः परिग्रहादपेतः ततस्ततोऽस्य खेदो व्यपगतो भवति । २५ निरवचे मनःप्रणिधानं पुण्यविधानम् । परिग्रहाशा बलवती सत्रदोषप्रसवयोनिः। न तस्या उपधिभिः तृप्तिरस्ति सलिलैरिव सलिलिनिधेरिह बडवाया। अपि च, कः पूरयति दुःपूरमाशागर्तम् । दिने दिने यत्रास्तमस्तमाधेयमाधारत्वाय कल्पते । शरीरादिषु निर्ममत्वः परमनिवृत्तिमवाप्नोति । शरीरादिषु कृताभिष्वङ्गस्य सर्वकालमभिष्वङ्ग एव संसारे।
. ब्रह्मचर्यमनुपालयन्तं हिंसादयो दोषा न स्पृशन्ति । नित्याभिरतगुरुकुलावासमधिवसन्ति ३० गुणसंपदः । वराङ्गनाविलासविभ्रमविधेयीकृतः पापैरपि विधेयीक्रियते। अजितेन्द्रियता हि लोके प्राणिनामवमानदात्रीति । एवमुत्तमक्षमादिषु तत्प्रतिपक्षेषु च गुणदोषविचारपूर्विकायां क्रोधादिनिवृत्तौ सत्यां तन्निबन्धनकर्मास्रवाभावात् महान् संवरो भवति।।
- व्यक्तिवचनभेदात् निर्देशवैलक्षण्यमिति चेत् ; न; सर्वेषां धर्मभावाव्यतिरेकस्यैकत्वादाविष्टलिङ्गत्वा ।२८। स्यान्मतम्-यथा शुक्लः पटः शुक्ला शाटी शुक्लं वस्त्रं शुक्लौ कंवलौ शुक्लाः ३५ कंवला इति सति सामानाधिकरण्ये व्यक्तिवचनयोरभेदो दृश्यते, न च तथेहाभेदः, ततो निर्देशो विलक्षण इति; तन्नः किं कारणम् ? सर्वेषां धर्मभावाव्यतिरेकैकत्वात् । सर्वेषूत्तमक्षमादिषु संव
पस्या
।
१-तं दु-श्र०, मू०।२ अतः ता०, श्र० । ३ पुण्यनिदानं ता०, श्र० । ४ इति सा-मु०, २०,०।