________________
१०
५६८ तत्त्वार्थवार्तिके
[६६ वाक्यशुद्धिः पृथिवीकायिकारम्भादिप्रेरणरहिताः(ता)परुषनिष्ठुरादिपरपीडाकरप्रयोगनिरुत्सुका व्रतशीलदेशनादिप्रधानफला हितमितमधुरमनोहरा संयतस्य योग्या। तदधिष्ठाना हि सर्वसंपदः ।
तपो वक्ष्यमाणभेदम् ।१७। कर्मक्षयार्थ तप्यत इति तपः। तदुत्तरत्र वक्ष्यमाणं द्वादशविकल्पमवसेयम् ।
परिग्रहनिवृत्तिस्त्यांगः।१८। परिग्रहस्य चेतनाचेतनलक्षणस्य निवृत्तिस्त्याग इति निश्चीयते ।
अभ्यन्तरतपोविशेषोत्सर्गग्रहणात्सिद्धिरिति चेत् । न तस्यान्यार्थत्वात् ।१६। स्यान्मतम्-वक्ष्यते तपोऽभ्यन्तरं षड्विधम् , तत्रोत्सर्गलक्षणेन तपसा ग्रहणमस्य सिद्धमित्यनर्थकं त्यागग्रहणमिति; तन्नः किं कारणम् ? तस्यान्यार्थत्वात् । तद्धि नियतकालं सर्वोत्सर्गलक्षणम् , अयं पुनस्त्यागः यथाशक्ति अनियतकालः क्रियते इत्यस्ति भेदः ।
शौचवचनासिद्धिरिति चेत् ; न तत्रासत्यपि गोत्पत्तेः ।२०। अथ मैतमेतत-व्याख्यातं शौचम् , तत्रास्यान्तर्भावात् त्यागग्रहणमनर्थकमिति; तन्नः किं कारणम् ? तत्रासत्यपि गोतपत्तेः । असन्निहिते परिग्रहे कर्मोदयवशात् गर्द्ध उत्पद्यते, तन्निवृत्त्यर्थं शौचमुक्तम् । त्यागः पुनः सन्निहितस्यापायः दानं वा स्वयोग्यम् , अथवा संयतस्य योग्यं ज्ञानादिदानं त्याग इत्युच्यते।
___ ममेदमित्यभिसन्धिनिवृत्तिराकिञ्चन्यम् ॥२१॥ उपात्तेष्वपि शरीरादिषु संस्कारापोहाय १५ ममेदमित्यभिसन्धिनिवृत्तिराकिश्चन्यमित्याख्यायते । नास्य किश्चनास्ति इत्यकिश्चनः, तस्य भावः कर्म वा आकिश्चन्यम् ।
अनुभूताङ्गनास्मरणतत्कथाश्रवणस्त्रीसंसक्तशयनासनादिवर्जनाद् ब्रह्मचर्यम् ।२२। मया अनुभूताङ्गना कलागुणविशारदा इति स्मरणं तत्कथाश्रवणं रतिपरिमलादिवासितं स्त्रीसंसक्तशयनासनमित्येवमादिवर्जनात् परिपूर्ण ब्रह्मचर्यमवतिष्ठते ।।
.. अस्वातन्त्र्यार्थ गुरौ ब्रह्मणि चर्यमिति वा ॥२३॥ अथवा ब्रह्मा गुरुस्तस्मिंश्चरणं तदनुविधानमस्य अस्वातन्त्र्यप्रतिपत्त्यर्थं ब्रह्मचर्यमित्याचर्यते ।
___ अन्वर्थसंज्ञाप्रतिपादनार्थत्वाद्वा अपौनरुक्तयम् ।२४। अथवा सर्वेषामेव परिहारः । यद्यपि गुप्तिसमित्यादिष्वन्तर्भूताः केचन इहोपदिश्यन्ते तथापि तेषां संवरणधारणसामर्थ्याद्धर्म इत्येषा
संज्ञा अन्वर्थेति प्रतिपादनार्थ पुनर्वचनमिति नास्ति पौनरुक्तयम् । २५ तद्भावनाप्रवणत्वाद्वा सप्तप्रकारप्रतिक्रमणवत् ।२५॥ अथवा, 'यथा ऐर्यापथिक-रात्रिन्दि
वीय-पाक्षिक-चातुर्मासिक-सांवत्सरिक-उत्तमस्थानिकलक्षणं सप्तप्रकारं प्रतिक्रमणं गुप्त्यादिप्रतिष्ठानार्थ भाव्यते, तथोत्तमक्षमादिदशविधधर्मभावना गुप्त्यादिपरिपालनार्थेवेति तत्रान्तर्भूतानामपि पृथगुपदेशो युक्तः ।
उत्तमविशेषणं दृष्टप्रयोजनपरिघर्जनार्थम् ।२६। यत्किञ्चिद् दृष्टं प्रयोजनमनुद्दिश्य क्रिय३० माणानि क्षमादीनि संवरणकारणानि भवन्तीत्यस्य विशेषस्य प्रतिपत्त्यर्थमुत्तमविशेषणमुपादीयतेउत्तमक्षमा उत्तममार्दवमित्यादि । कथं पुनरेषां संवरहेतुत्वमिति चेत् ? अत्रोच्यते
___ सर्वेषां स्वगुणप्रतिपक्षदोषभावनात् संवरहेतुत्वम् ।२७। सर्वेषामेवैषाम् उत्तमक्षमादीनां ., स्वगुणस्य प्रतिपक्षदोषस्य च भावनात् संवरहेतुत्वमवसेयम् । तद्यथा, उत्तमक्षमायास्तावत्-प्रत
शीलपरिरक्षणम् , इहामुत्र च दुःखानभिष्वङ्गः, सर्वस्य जगतः सम्मानसत्कारभावपरिपक्तयादि ३५ गुणः, तत्प्रतिपक्षस्य क्रोधस्य धर्मार्थकाममोक्षप्राणनाशनं दोष इति विचिन्त्य क्षमितव्यम् । किञ्च,
क्रोधनिमित्तस्य स्वात्मनि भावाभावानुचिन्तनात्
१-स्यान्वर्थ-मु०, द०, ब० ।२ मतं व्या-मु०, द०, ब० । ३ स्वा-मु०, द०, २०। ४-धानमस्वा-मु०, द०, ब० ।-नमस्वा-ता०। ५ प्रदर्शनार्थ ता०, श्र०। ६ -तिस्थाव-मू०, ता० । . स्वात्मभावानुचि-मु०, द०, ब० ।