________________
६६ ] नवमोऽध्यायः
५६७ तत्प्रतिपादनार्थः शुद्धयष्टकोपदेशः ।१६। तस्यापहृतसंयमस्य प्रतिपादनार्थः शुद्ध थष्टकोपदेशो द्रष्टव्यः। तद्यथा, अष्टौ शुद्धयः-भावशुद्धिः कायशुद्धिः विनयशुद्धिः ईर्यापथशुद्धिः भिक्षाशुद्धिः प्रतिष्ठापनशुद्धिः शयनासनशुद्धिः वाक्यशुद्धिश्चेति ।
तत्र भावशुद्धिः कर्मक्षयोपशमजनिता मोक्षमार्गरुच्याहितप्रसादा रागाद्युपलवरहिता। तस्यां सत्यामाचारः प्रकाशते परिशुद्धभित्तिगतचित्रकर्मवत् । ___ कायशुद्धिनिरावरणाभरणा निरस्तसंस्कारा यथाजातमलधारिणी निराकृताङ्गविकारा सर्वत्र प्रयतवृत्तिःप्रशमसुखं मूर्तिमिव प्रदर्शयन्तीति । तस्यां सत्यां न स्वतोऽन्यस्य भयमुपजायते नाप्यन्यतस्तस्य।
विनयशुद्धिः अहंदादिषु परमगुरुषु यथार्ह पूजाप्रवणा, ज्ञानादिषु च यथाविधि भक्तियुक्ता, गुरोः सर्वत्रानुकूलवृत्तिः, प्रश्नस्वाध्यायवाचनाकथाविज्ञप्त्यादिषु प्रतिपत्तिकुशला, देशकालभावा- १० वबोधनिपुणा, आचार्यानुमतचारिणी । तन्मूलाः सर्वसंपदः, सैषा' भूषा पुरुषस्य, सैव नौः संसारसमुद्रतरणे ।
ईर्यापथशुद्धिः नानाविधजीवस्थानयोन्याश्रयावबोधजनितप्रयत्नपरिहतजन्तुपीडा ज्ञानादित्यस्वेन्द्रियप्रकाशनिरीक्षितदेशगामिनी द्रुतविलम्बितसंभ्रान्तविस्मितलीलाविकारदिगन्तरावलोकनादिदोषविरहित गमना । तस्यां सत्यां संयमः प्रतिष्ठितो भवति विभव इव सुनीतौ। १५
भिक्षाशुद्धिः परीक्षितोभयप्रचारा प्रमृष्टपूर्वापरस्वागदेशविधाना आचारसूत्रोक्तकालदेश'प्रकृतिप्रतिपत्तिकुशला लाभालाभमानापमानसमानमनोवृत्तिः लोकगर्हितकुलपरिवर्जनपरा चन्द्रगतिरिव हीनाधिकगृहा, विशिष्टोपस्थाना, दीनानाथदानशालाविवाहयजनगेहादिपरिवर्जनोपलशिता दीनवृत्तिविगमा प्रासुकाहारगवेषणप्रणिधाना आगमविहितनिरवद्याशनपरिप्राप्तप्राणयात्राफला। तत्प्रतिबद्धा हि चरणसंपत् गुणसंपदिय साधुजनसेवानिबन्धना। सा लाभालाभयोः सुरसविर- २० सयोश्च समसन्तोषाद्भिक्षेति भाष्यते । यथा सलीलसालकारवरयुवतिभिरुपनीयमानघासो गौन तदङ्गगतसौन्दर्यनिरीक्षणपरः तृणमेवात्ति, यथा वा तृणोलूपं नानादेशस्थं यथालाभमभ्यवहरति न योजनासंपदमवेक्षते तथा भिक्षुरपि भिक्षापरिवेषकजनमृदुललितरूपवेषविलासावलोकननिरुसुकः शुष्कद्रवाहारयोजनाविशेषं चानवेक्षमाणः यथागतमभाति इति गौरिव चारो गोचार इति व्यपदिश्यते, तथा गवेषणेति च । यथा शकटं रत्नभारपरिपूर्ण येन केनचित् स्नेहेन अक्षलेपं कृत्वा २५ अभिलषितदेशान्तरं वणिगुपनयति तथा मुनिरपि गुणरत्नभरितां तनुशकटीमनवद्यभिक्षायुरक्षम्रक्षणेन अभिप्रेतसमाधिपत्तनं प्रापयतीत्यक्षम्रक्षणमिति च 'नाम निरूढम् । यथा भाण्डागारे समुत्थितमनलमशुचिना शुचिना वा वारिणा शमयति गृही तथा यतिरपि उदराग्निं प्रशमयतीति उदराग्निप्रशमनमिति च निरुच्यते । दातृजनबाधया विना कुशलो मुनिभ्रे परवदाहरतीति भ्रमराहार इत्यपि परिभाष्यते। येन केनचित्प्रकारेण स्वभ्रपूरणवदुदरगतेमनगारः पूरयति स्वादुनेतरेण ३० वेति स्वभ्रपूरणमिति च निरुच्यते।।
__ प्रतिष्ठापनशुद्धिपरः संयतः नखरोमसिसाणकनिष्ठीवनशुक्रोच्चारप्रस्रवणशोधने देहपरित्यागे च विदितदेशकालो जन्तूपरोधमन्तरेण प्रयतते ।
संयतेन शयनासनशुद्धिपरेण स्त्रीक्षुद्रचौरपानाक्षशौण्डशाकुनिकादिपापजनवासा वाः, शृङ्गारविकारभूषणोज्वलवेषवेश्याक्रीडाभिरामगीतनृत्यवादित्राकुलशालादयश्च परिहर्तव्याः , ३५ अकृत्रिमगिरिगुहातरुकोटरादयः कृत्रिमाश्च शून्यागारादयो मुक्तमोचितावासा अनात्मोद्देशनिर्वतिता निरारम्भाः सेव्याः।
सैव भू-ता०, १० । २-परहित-मु०, द०, ब० । ३-प्रवृत्तिप्रति-मु०, द० ,ग० । ४ नामरूढं मु०, २०, ५०।