________________
१५
५६६ तत्त्वार्थवातिके
[ ६ आकिञ्चन्येऽवरोध इति चेत् ; न; तस्य नैर्मम्यप्रधानत्वात् ।७। स्यादेतत्-आकिश्चन्यं वक्ष्यते, तत्रास्यावरोधात् शौचग्रहणं पुनरुक्तमिति ; तन्न ; किं कारणम् ? तस्य नैर्मम्यप्रधानत्वात् । स्वशरीरादिषु संस्काराद्यपोहार्थमाकिञ्चन्यमिष्यते ।
। तच्चतुर्विधं जीवितारोग्येन्द्रियोपभोगभेदात् ।। लोभश्चतुःप्रकारः-जीवनलोभ आरो५ ग्यलोभ इन्द्रियलोभ उपभोगलोभश्चेति, स प्रत्येक द्विधा भिद्यते स्वपरविषयत्वात् , अतस्तन्निवृत्तिलक्षणं शौचं चतुर्विधमवसेयम् ।
___ सत्सु साधुवचनं सत्यम् ।। सत्सु प्रशस्तेषु जनेषु साधुवचनं सत्यमित्युच्यते । तद्दशप्रकारं व्याख्यातम् ।
भाषासमितावन्तर्भाव इति चेत् नः तत्र साध्वसाधुभाषाव्यवहारे हितमितार्थत्वात् ।१०। १० स्यादेतत्-सत्यग्रहणमनर्थकम् , कुतः ? भाषासमितावन्तर्भावादिति ; तन्नः किं कारणम् ? तत्र
साध्वसाधुभाषाव्यवहारे हितमितार्थत्वात् । संयतो हि साधुषु असाधुषु च भाषाव्यवहारं कुर्वन् हितं मितं च ब्रूयात् , अन्यथा रागानर्थदण्डादिदोषानुपङ्गः स्यादिति समितिलक्षणमुक्तम् । इह पुनः सन्तः प्रव्रजितास्तद्भक्ता वा तेषु साधु सत्यं ज्ञानचारित्रशिक्षणादिपु बलपि 'वक्तव्यमित्यनुज्ञायते धर्मोपबृंहणार्थम् ।
अथ कः संयमः ? कश्चिदाह-भापादिनिवृत्तिरिति ।
न भाषादिनिवृत्तिः संयमः; गुप्त्यन्तर्भावात् ।११। गुप्तिहिं निवृत्तिप्रवणा, अतोऽत्रान्तर्भावात् संयमाभावः स्यात् ।
अपर आह-कायादिप्रवृत्तिर्विशिष्टा संयम इति ।
नापि कायाविप्रवृत्तिर्विशिष्टा; समितिप्रसङ्गात् ।१२। समितयो हि कायाविप्रवृत्तिदोष२० निवृत्तयः, अतस्तत्रान्तर्भावः प्रसज्येत ।
'प्रसस्थावरवधप्रतिषेध आत्यन्तिकः संयम इति चेत् । न; परिहारविशुद्धिचारित्रान्तर्भावात् ।१३। अथ मतम्-द्वीन्द्रियादीनां त्रसानां पृथिवीकायिकादीनां स्थावराणां च प्राणिनां वधप्रतिषेध आत्यन्तिकः संयम इति तदपि नोपपद्यते; कुतः ? परिहारविशुद्धिचारित्रान्तर्भावात् ।
वक्ष्यते हि चारित्रभेदेषु परिहारविशुद्धिलक्षणं चारित्रमिति, तत्रान्तर्भावात् पृथक् संयमग्रहणम२५ नर्थकं स्यात् । कस्तर्हि संयमः ?
समितिषु प्रवर्तमानस्य प्राणीन्द्रियपरिहारः संयमः।१४। ईर्यासमित्यादिषु वर्तमानस्य मुनेस्त प्रतिपालनार्थः प्राणीन्द्रियपरिहारः संयम इत्युच्यते । एकेन्द्रियादिप्राणिपीडापरिहारः प्राणिसंयमः । शब्दादिष्विन्द्रियार्थेषु रागानभिष्वङ्ग इन्द्रियसंयमः।
अतोऽपहृतसंयमभेदसिद्धिः ॥१५॥ एवं च कृत्वा अपहृतसंयमभेदसिद्धिर्भवति । संयमो ३० हि द्विविधः-उपेक्षासंयमोऽपहृतसंयमश्चेति । देशकालविधानज्ञस्य 'परानुपरोधेन उत्सृष्टकायस्य
त्रिधा गुप्तस्य रागद्वेपानभिप्वङ्गलक्षण उपेक्षासंयमः। अपहृतसंयमस्त्रिविधः-उत्कृष्टो मध्यमो जघन्यश्चेति । तत्र प्रासुकवसत्याहारमात्रबाह्यसाधनस्य स्वाधीनेतरज्ञानचरणकरणस्य बाह्यजन्तूपनिपाते आत्मानं ततोऽपहृत्य जीवान् परिपालयत उत्कृष्टः, मृदुना प्रमृज्य जन्तून परिहरतो मध्यमः, उपकरणान्तरेच्छया जघन्यः ।
१ कर्त्तव्यमि-ता०, १०, द०। २ प्रसज्यते म०, द०, ब० । ३-त्परिपा-म०, द०, ब०, श्र० । ४ परोपरोधने म० । परोपरोधेन द०, २०। ५ जीवान् मु०, ९०, ब०।