________________
६]
नवमोऽध्यायः भावात् संवराभाव इति; तन्नः किं कारणम् ? परिग्रहदोषात् , नैस्सङ्गी चर्यामातिष्ठमानस्य पात्रग्रहणे सति तत्संरक्षणादिकृतो दोषः प्रसज्यते । तस्मात् स्वायत्तेन पाणिपुटेन निराबाघे देशे स्थित्वा परीक्ष्य भुञ्जानस्य निभृतस्य तद्गतदोषाभावः । किञ्च, .
दैन्यप्रसङ्गात् ।११। कपालमन्यद्वा भाजनमादाय पर्यटतो भिक्षोर्दैन्यमासज्यते । गृहिजनानीतमपि भाजनं [न]सर्वत्र सुलभम् , तत्प्रक्षालनादिविधौ च दुःपरिहारः पापलेपः, स्वभाजनेन ५ देशान्तरं नीत्वा भोजने च आशानुबन्धनं स्यात् , स्वपूर्वविशिष्टभाजनादिकगुणासंभवाञ्च येन केनचित् भुञ्जानस्य दैन्यं स्यात् । ततः स्वकरपुटभाजनान्नान्यद्विशिष्टमस्ति भिक्षोः।
अन्नवत्तत्प्रसङ्ग इति चेत्न, विनाऽभावात् ।१२। स्यादेतत्-यथा प्राच्यमन्नं संस्कृतं परमरसं परित्यज्य परगृहे यत्किश्चित् असंस्कृतमन्नम् अरसमनुभूयते भिक्षुणा तथा कपालाद्यादानमपि स्यादिति; तन्नः किं कारणम् ? तेन विनाऽभावात् । चिरकालं तपः संचिचीषतः संयतस्य १० शरीरयात्रा आहारमन्तरेण न संभवतीति यत्किश्चित्तासुकं कादाचित्कमभ्युपगम्यते न तथा भाजनमिति असमञ्जसो दृष्टान्तः।
. आह-उक्तं गुप्तिसमित्योः संवरहेतुत्वम् । इदानीं तदनन्तरमुद्दिष्टरय धर्मस्य संवरहेतुत्वं संवर्णयितव्यमिति । अत्रेदमुच्यते
उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागा
किश्चन्यब्रह्मचर्याणि धर्मः ॥ ६॥ किमर्थमिदमुच्यते ?
प्रवर्तमानस्य प्रमादपरिहारार्थ धर्मवचनम् ।। आद्यं गुप्त्यादि प्रवृत्तिनिप्रहार्थम् । तत्रासमर्थानां प्रवृत्त्युपायप्रदर्शनार्थ द्वितीयमेषणादि । इदं पुनर्दशविधधर्माख्यानं प्रवर्तमानस्य प्रमादपरिहारार्थ वेदितव्यम् ।
. क्रोधोत्पत्तिनिमित्ताविषह्याक्रोशादिसंभवे कालुष्योपरमः क्षमा ।। शरीरस्थितिहेतुमार्गणार्थ परकुलान्युपयतो' भिक्षोर्दुष्टजनाक्रोशोत्प्रसहना(प्रहसना)वज्ञानताडनशरीरव्यापादनादीनां क्रोधोत्पत्तिनिमित्तानां सन्निधाने कालुष्याभावः क्षमेत्युच्यते ।
जात्यादिमदावेशादभिमानाभावो मार्दवम् ।३। उत्तमजातिकुलरूपरि र्यस्यापि सतस्तत्कृतमदावेशाभावात् परप्रयुक्तपरिभवनिमित्ताभिमानाभावो मार्दवं माननिहरण- २५ मवगन्तव्यम् ।
योगस्यावक्रता आर्जवम् ।। योगस्य कायवाङ्मनोलक्षणस्यावक्रता आर्जवमित्युच्यते ।
प्रकर्षप्राप्ता लोभनिवृत्तिः शौचम् ।। लोभस्य निवृत्तिः प्रकर्षप्राप्ता, शुर्भावः कर्म वा शौचमिति निश्चीयते ।
.. गुप्तावन्तर्भाव इति चेत् । न तत्र मानसपरिस्पन्दप्रतिषेधात् ।। स्यादेतत्-मनोगुप्तौ शौच- ३० मन्तर्भवतीति पृथगस्य ग्रहणमनर्थकमिति ; तन्न ; किं कारणम् ? तत्र मानसपरिस्पन्दप्रतिषेधात् । मनोगुप्तौ हि मानसः परिस्पन्दः सकलः प्रतिषिध्यते, तत्राऽसमर्थेषु परकीयेषु वस्तुषु अनिष्टप्रणिधानोपरमार्थमिदमुच्यते ।
१ प्राप्तव्यमन्नं परमं प-मु, ब० । प्रासमनं परमं प-१०।२-पगच्छतो मु०, ब० । २२