________________
तत्त्वार्थवार्तिके
[६५ तत्र बज्यायां जीवयधपरिहार ईर्यासमितिः ।३। विदितजीवस्थानादि विधेर्मुनेः धर्मार्थ प्रयतमानस्य सवितर्युदिते चक्षुषो विषयग्रहणसामर्थ्य उपजाते मनुष्यादिचरणपातोपहृतावश्यायप्रायमार्गे अनन्यमनसः शनैर्व्यस्तपादस्य सङ्कचितावयवस्य युगमात्रपूर्वनिरीक्षणावहितदृष्टेः पृथिव्याद्यारम्भाभावात् ईर्यासमितिरित्याख्यायते ।
अत्राह-विदितजीवस्थानादिविधेरित्युक्तम्, तत्र न ज्ञायते कति जीवस्थानानि इति ? अत्रोच्यते
सूक्ष्मबादरैकद्वित्रिचतुरिन्द्रियसंश्यसंक्षिपञ्चेन्द्रियपर्याप्तकापर्याप्तकभेदाच्चतुर्दशजीवस्थानानि ।४। एकेन्द्रियादयः प्राग् व्याख्यातलक्षणाः । तत्रैकेन्द्रिया द्विविधाः-सूक्ष्मा बादराश्चेति' । सूक्ष्मा द्विविधाः-पर्याप्तका अपर्याप्तकाः। बादरा द्विविधाः-पर्याप्तका अपर्याप्तका इति । द्वीन्द्रिया द्विविधाः-पर्याप्तका अपर्याप्तकाः । त्रीन्द्रिया द्विविधाः-पर्याप्तका अपर्याप्तकाः । चतुरिन्द्रिया द्विविधाः-पर्याप्तका अपर्याप्तकाः । पञ्चेन्द्रिया द्विविधाः-संज्ञिनोऽसंज्ञिनः । संज्ञिनो द्विविधाःपर्याप्तका अपर्याप्रकाः। असंज्ञिनो द्विविधाः-पर्याप्तका अपर्याप्तकाश्चेति । एवं जीवस्थानानि वेदितव्यानि । तानि नामकर्मोदयांपादितविशेषाणि एकेन्द्रियजातिसूक्ष्मबादरपर्याप्तकाऽपर्याप्त
कनामोदयजनितानि चत्वारि जीवस्थानानि एकेन्द्रियेषु । द्वीन्द्रियादिषु बादरनामोदय एव । १५ विकलेन्द्रियेषु द्वित्रिचतुरिन्द्रियजातिपर्याप्तकापर्याप्तकनामोदयनिर्वतितानि । पञ्चेन्द्रियेषु संझ्यसंशिपर्याप्तकापर्याप्तकनामोदयलब्धभेदानि चत्वारि जोवस्थानानि ।
हितमितासन्दिग्धाभिधानं भाषासमितिः ।। मोक्षपदप्रापणप्रधानफलं हितम् । तद्विविधम्स्वहितं परहितं चेति । मितमनर्थकबहुप्रलपनरहितम् । स्फुटार्थ व्यक्ताक्षरं चाऽसन्दिग्धम् । एवं
विधमभिधानं भाषासमितिः । तत्प्रपञ्चः-मिथ्याभिधानासूयाप्रियसंभेदाल्पसारशङ्कितसंभ्रान्तकषा२० यपरिहासाऽयुक्ताऽसभ्यनिष्ठुरधर्मविरोध्यदेशकालालक्षणातिसंस्तवादिवाग्दोषविरहिताभिधानम् ।
अन्नादावुद्गमादिदोषवर्जनमेषणासमितिः ।६। अनगारस्य गुणरत्नसंचयसंवाहिशरीरशकटिं समाधिपत्तनं निनीषतोऽक्षम्रक्षणमिव शरीरधारणमौपधमिव जाठराग्निदाहोपशमनिमित्तमन्नाद्यनास्वादयतो देशकालसामर्थ्यादिविशिष्टमगर्हितमभ्यवहरतः उद्गमोत्पादनैपणा संयोजनप्रमाणकारणाङ्गारधूमप्रत्ययनवकोटिपरिवर्जनमेषणासमितिरिति समाख्यायते।
धर्मापकरणानां ग्रहणविसर्जनं प्रति प्रयतनमादाननिक्षेपणासमितिः ७ धर्माविरोधिनां परानुपरोधिनां द्रव्याण ज्ञानादिसाधनानां ग्रहणे विसर्जने च निरीक्ष्य प्रमृज्य प्रवर्तनमादाननिक्षेपणा समितिः ।
जीवाविरोधेनाङ्गमलनिर्हरणमुत्सर्गसमितिः।८। स्थावराणां जङ्गमानां च जीवादीनाम् अविरोधेनाङ्गमलनिर्हरणं शरीरस्य च स्थापनम् उत्सर्गसमितिरवगन्तव्या।
__ वाक्कायगुप्तिरियमपीति चेत् ; न; तत्र कालविशेषे सर्वनिग्रहोपपत्तेः।। स्यान्मतम्-इर्यासमित्यादिलक्षणा वृत्तिः वाक्कायगुप्तिरेव, गोपनं गुप्तिः रक्षणं प्राणिपीडापरिहार इत्यनर्थान्तरमिति; तन्नः किं कारणम् ? तत्र कालविशेषे सर्वनिग्रहोपपत्तेः। परिमितकालविषयो हि सर्वयोगनिग्रहो गुप्तिः । तत्रासमर्थस्य कुशलेषु वृत्तिः समितिः । अतो गमनभाषणाभ्यवहरणग्रहणनिक्षेपोत्सर्गलक्षणसमितिविधावप्रमत्तानां तत्प्रणालिकाप्रसृतकाभावान्निभृतानां प्रासीदत् संवरः।।
पात्राभावात् पाणिपुटाहागणां संवराभाव इति चेत् ; न; परिग्रहदोषात् ।१०। स्यादे२५ तत्-असति पात्रे पणिपुटेन भुञ्जानस्य भिक्षोः पतिताहारनिमित्तप्राणातिपातदर्शनादेषणासमित्य
१-राः० तत्र सू-मु०, द०, ब० । २-विरता-मु०, द०, ब०, श्र०,।