________________
१०
४-५] नवमोऽध्यायः
५६३ तपसोऽभ्युदयहेतुत्वान्निर्जराङ्गत्वाभाव इति चेत्। न; एकस्पानेककार्यारम्भदर्शनात् ।। स्यादेतत्-तपोऽभ्युदयकारणमिष्टम् देवेन्द्रादिस्थानप्राप्तिहेतुत्वाभ्युपगमात् , ततोऽस्य निर्जराङ्ग त्वमनुपपन्नमिति; तन्नः किं कारणम् ? एकस्यानेककार्यारम्भदर्शनात् । यथा अग्निरेकोऽपि विश्लेदनभस्मसाद्भवनादिप्रयोजन उपलभ्यते, तथा तपोऽभ्युदयकर्मक्षयहेतुरित्यत्र को विरोधः? · ..
गुणप्रधानफलोपपत्तेर्वा कृषीवलवत् ।। अथवा, यथा कृषीवलस्य कृषिक्रियायाः पलाल- ५ शस्यफलगुणप्रधानफलाभिसम्बन्धः तथा मुनेरपि तपस्क्रियायां प्रधानोपसर्जनाभ्यदयनिःश्रेयसफलाभिसम्बन्धोऽभिसन्धिवशाद्वेदितव्यः । __ आह-गुप्त्यादय उद्दिष्टाः संवरहेतवः । ते किंविषयाः कियत्प्रकाराः प्रत्येकं च किंसामर्थ्याः इति ? अत्रोच्यते-सति बहुवक्तव्ये आदावुद्देशभाजो गुप्तेरेव तावनिर्धारणं क्रियते
सम्यग्योगनिग्रहो गुतिः ॥४॥ योगशम्दो व्याख्यातार्थः । अयं योगशब्दो व्याख्यातार्थो द्रष्टव्यः । क ? "कायवार मनस्कर्म योगः" [१० सू० ६] इत्यत्र ।
प्राकाम्याऽभावो निग्रहः ।। प्राकाम्यं यथेष्टं चरित्रं तस्याभावो निग्रह इत्याख्यायते, ... योगस्य निग्रहो योगनिग्रहः।।
सम्यगिति विशेषणं सत्कारलोकपक्त यायाकालानिवृस्यर्थम् ।३। पूजापुरस्सरा क्रिया १५ सत्कारः। संयतो महानिति लोके प्रकाशः लोकपक्तिः । एवमायैहलौकिकफलमनुद्दिश्य पारलौकिकं च विषयसुखमनपेक्ष्य क्रियमाणो निग्रहो गुप्तिरिह परिगृहीतेति प्रतिपत्त्यर्थ सम्यगिति विशेषणमुपादीयते।
तस्मात् कायादिनिरोधात्तन्निमित्तकर्मानास्रवणे संवरप्रसिद्धिः।४। तस्मात् सम्यगविशेषणविशिष्टात् संश्लेशाप्रादुर्भावपरात् कायादियोगनिरोघे सति तन्निमित्तं कर्म नास्रवतीति कृत्वा २० संवरप्रसिद्धिरवगन्तव्या । तद्यथा तिस्रो गुप्तयः-कायगुप्तिः वाग्गुप्तिःमनोगुप्तिरिति.। तत्र यत् कायिकमनिभृतस्य अप्रत्यवेक्षिताप्रमार्जितधरणिप्रदेशचक्रमणद्रव्यान्तराधाननिक्षेपशयनासनादिनिमित्तं कर्म सम्मूर्च्छति न तन्निगृहीतकायप्रचारस्याप्रमत्तस्य आस्रोतुमर्हति । यश्च वाचिकमसंवृतस्य असपलापिनोऽप्रियवचनादिहेतुकं कर्म निपतति न तद्विनिवृत्तवाकप्रयोगस्यास्रवति । यदपि मानसैः प्रदोषः रागद्वेषाभिभूतस्यातीतानागतविषयाभिलाषिण आस्रवति न तदात्मीकृतमनसः कदाचिद- २५ प्युपनिपतति ।
आह-यदि मूर्तिपरित्यागं कान्येन कर्तुमशक्नुवतः संशनिवृत्तये योगनिरोधः प्रतिज्ञायते स यावन्न भवति तावदनेनावश्यं प्राणयात्रानिमित्तं तत्प्रत्यनीकभावात् परिस्पन्दः कर्तव्यः, वाक्प्रयोगो वा प्रश्नापेक्षः, शरीरमलनिहरणार्थश्च, तस्मिन् सति कथमस्य संवरः स्यादिति ? अत्रोच्यते
ईयाभाषेषणादाननिक्षेपोत्साः समितयः ॥५॥
सम्यग्ग्रहणेनाधिकृतेन प्रत्येकममिसम्बन्धः ।। सम्यगित्यनुवर्तते । तेन प्रत्येकमिहाभिसंम्बन्धः क्रियते-सम्यगीर्या सम्यग्भाषा सम्यगेषणा सम्यगादाननिक्षेपौ सम्यगुत्सर्ग इति ।
। समितिरित्यम्वर्थसंज्ञा तान्त्रिकी' पानाम् ।२। समितिरितीमन्वर्थसंज्ञा सम्यगितिः समितिरिति । क प्रसिद्धा ? तान्त्रिकी। केषाम् ? पब्रानामीर्यादीनाम् ।
१ यतका-१०, ता., । २ पुरुषेण । ३ सिद्धान्तानुसारिणी।