________________
१५
५६२ - तत्त्वार्थवार्तिके
[३ अनुप्रपूर्वादीने भावादिसाधनः अकारः ।। अनुप्रपूर्वादीक्षेर्भावसाधनोऽकारः ।
परिषह्यत इति परीषहः ।६। परिपूर्वात्सहेः कर्मण्यकारः, परिषह्यत इति परीषहः । कथमकारः? पचादिलक्षणोऽच । ननु स कर्तरि विहितः। घत्र तर्हि, स करणाधिकरणयोर्विहितः ।
घन तर्हि कर्मणि; एवमपि परीषाह इति प्राप्नोति, "अनुबन्धकृतमनित्यम्"[ ] यथा ज्योतिष५ मिति । अथवा बहुलवचनात् कर्मण्यकारः, “अन्यस्यापि" [ ] इति दीर्घः । परीषहस्य जयः परीषहजयः ।
चारित्रशब्दो व्याख्यातः । “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" [त. सू० ॥1] इत्यत्र चारित्रशब्दो व्याख्यातः । चर्यते तश्चारित्रमिति ।
संवृण्वतो गुप्त्यादयः करणम् ।। संवरितुः संवरणक्रियायाः साधकतमत्वविवक्षायां १० गुप्त्यादीनां करणभावः प्रत्येतव्यः।
गुप्तिश्च समितिश्च धर्मश्चानुप्रेक्षा च परीषहजयश्च चारित्रं च गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्राणि तैर्गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैरिति । . संवर एव गुप्त्यादय इति चेत्, न; आनवनिमित्तकर्मसंवरणात् ।। स्यान्मतम्-संत्रियतेऽनेनेति संवरः, गुप्त्यादिभिश्च कर्म संत्रियते, ततो गुप्त्यादय एव संवर इति 'भेदेन मि
प्त्यादय एव संवर इति 'भेदेन निर्देशो नोपपद्यते इति; तन्नः किं कारणम् ? आस्रवनिमित्तकर्मसंवरणात् । संवरणमिह संवर इति भावसाधनः, तस्य गुप्त्यादयः करणत्वेन निर्दिश्यन्ते । संत्रियते संवर इति कर्मसाधनोवा, गुप्त्यादिभिर्हि कर्म संबियत इति ।
स इति वचनं गुप्त्यादिभिः साक्षात् संबन्धनार्थम् ।९। संवरोऽधिकृतोऽपि पुनः स इति परामृश्यते । किमर्थम् ? गुप्त्यादिभिः साक्षात् संबन्धनार्थम् । तेन किं लब्धम् ? नियमः २० कृतो भवति-स एप संवरो गुप्त्यादिभिरेव नान्येनोपायेनेति । तेन तीर्थाभिषेकदीक्षाशीर्पोपहार
देवताराधनादयो निवर्तिता भवन्ति, रागद्वेपमोहोपात्तस्य कर्मणः अन्यथा निवृत्त्यसंभवात् । यदि हि स्यात् ; मत्स्यादीनामपि अतिसुलभो मोक्षः स्यात् , रक्तद्विष्टमूढानां च । एषां तत्त्वभेदकथनम् उत्तरत्र करिष्यते।
आह-किमेतैरेव गुप्त्यादिभिः अयं संवरो निष्पाद्यते ? न । किं तर्हि ? अन्येन च । २५ यद्येवम् ; उच्यतां केन ?
तपसा निर्जरा च ॥३॥ धर्मे अन्तर्भावात् पृथग्ग्रहणमनर्थकमिति चेत् ; न; निर्जराकारणत्वख्यापनार्थत्वात् ।। स्यान्मतम-धर्मविकल्पेषु उत्तमक्षमादिषु तपो वक्ष्यते, ततः संवरहेतुत्वे सिद्धे पृथगस्य ग्रहणमनर्थकमिति; तन्न; किं कारणम् ? निर्जराकारणत्वख्यापनार्थत्वात्-तपो निर्जराकारणमपि भवतीति ।
____ प्राधान्यप्रतिपत्त्यर्थं च ।२। सर्वेषु संवरहेतुषु प्रधानं तप इत्यस्य प्रतिपत्त्यर्थ च पृथग्रहणं क्रियते।
संचरनिमित्तसमुश्चयार्थश्चशब्दः ।३। संवरहेतुरपि तपो भवतीति एतस्य समुपयार्थश्चशब्दः क्रियते । तपसा हि अभिनवकर्मसंबन्धाभावः पूर्वोपचितकर्मक्षयश्च, अविपाकनिर्जराप्रतिज्ञानात् । तस्मात्तपोजातीयत्वात् ध्यानानां निजेराकारणत्वप्रसिद्धिः ।
१ भेदनिर्दे-मु०, ता०, द०, ब० ।