________________
नवमोऽध्यायः
हार ]
मायालोभ मनुष्यायुर्मनुष्यगत्यौदारिकशरीर तदङ्गोपाङ्गवज्रर्षभनाराच संह्ननमनुष्यगतिप्रायोग्यानुपूर्व्यनामकानां दशानां प्रकृतीनाम् अप्रत्याख्यान कषायोदय कृतासंयमहेतुकानाम् एकेन्द्रियादयः असंयतसम्यग्दृष्ट्यन्ता बन्धकाः, तदभावादूर्ध्वं तासां संवरः । सम्यङ्मिथ्यात्वगुणेनायुर्न बध्यते । प्रत्याख्यानावरणक्रोधमानमायालोभानां चतसृणां प्रकृतीनां प्रत्याख्यानकषायोदयकारणासंयमास्रवाणाम् एकेन्द्रियप्रभृतयः संयतासंयतावसान बन्धकाः, तदभावात् उपरिष्टात् तासां संवरः ।
५६१
प्रमादोपनीतस्य तदभावे निरोधः |२८| प्रमादोपनीतस्य कर्मणः प्रमत्तसंयतादूर्ध्वं तद्भावान्निरोधः प्रत्येतव्यः । किं पुनस्तत् ? असद्वेद्याऽरतिशोकाऽस्थिराऽशुभाऽयशस्कीर्तिविकल्पम् । देवायुर्बन्धारम्भस्य प्रमाद एव हेतु:, अप्रमादोऽपि तत्प्रत्यासन्नः, तत ऊर्ध्वं तस्य संवरः ।
कषायानंवस्य तन्निरोधे निरासः | २६ | कषाय एवास्रवो यस्य कर्मणः न प्रमादादिस्तस्य तन्निरोधे तन्निरासोऽवसेयः । स एव कषायः प्रमादादिविरहितः तीव्रमध्यमजघन्यभावेन त्रिषु १० गुणस्थानेषु व्यवस्थितः । तत्राऽपूर्वकरणस्यादौ संख्येयभागे द्वे कर्मप्रकृती निद्राप्रचले बध्येते । तत ऊर्ध्व संख्येयभागे त्रिंशत्प्रकृतयः - देवगतिपञ्चेन्द्रियजातिवैकियिकाहार कतैजसकार्मणशरीरसमचतुरस्रसंस्थानवैक्रियिकाहारकशरीराङ्गोपाङ्गवर्णगन्धरसस्पर्शदेवगतिप्रायोग्यानुपूर्व्यागुरुलघूपघातपरघातोच्छ्रासप्रशस्तविहायोगतित्र सबादरपर्याप्तकप्रत्येकशरीरस्थिरशुभ सुभगसुस्वरादेयनिर्माणतीर्थ - करनामाख्याः बध्यन्ते । तस्यैव चरमसमये चतस्रः प्रकृतयः हास्यरतिभयजुगुप्सासंज्ञा बन्धमुप- १५ यान्ति । ता एताः तीव्रकषायास्रवाः, तदभावान्निर्दिशद्भागादूर्ध्वं संब्रियन्ते । अनिवृत्तित्रादरसाम्परायस्यादिसमयादारभ्य संख्येयेषु भागेषु पुंवेदक्रोधसंज्वलनौ बध्येते । तत ऊर्ध्व शेषे शेषे (शेषेषु) संख्येयेषुभागेषु मानसंज्वलनमायासंज्वलनौ बन्धमुपगच्छतः । तस्यैव चरमसमये लोभसब्ज्वलनो बन्धमेति । ता एताः प्रकृतयः मध्यमकषायास्रवाः, तदभावे निर्दिष्टस्य भागस्योपरिष्टात् संवरमवाप्नुवन्ति । पञ्चानां ज्ञानावरणानां चतुर्णां दर्शनावरणानां यशस्कीर्तेरुच्चैर्गोत्रस्य पञ्चानामन्तरा - २० याणां च मन्दकषायास्रवाणां सूक्ष्मसाम्परायो बन्धकः । तदभावादुत्तरत्र तेषां संवरः ।
केवल योगनिमित्तं सद्वेद्यं तदभावात्तस्य निरोधः |३०| केवलेनैव योगेन सद्वेद्यस्योपशान्तकधाय क्षीणकषायसयोगिनां बन्धो भवति । तदभावादयोगकेवलिनस्तस्य संवरो भवति ।
अत्राह-आस्रवनिरोधः संवर इत्याख्यातम् । तत्रेदमनिर्ज्ञातम् - आत्मलाभहेतुसन्निधाने सत्याaari कर्मणां केन निरोधो भवतीति ? तत्र वक्तव्यम् - अनेनास्रवनिरोधः इति ? अत्रोच्यते
सगुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः ॥ २॥
संसारकारणगोपनाद् गुप्तिः | १ | यतः संसारकारणात् आत्मनो गोपनं भवति सा गुप्तिः । भावे क्तिः । अपादानसाधनो वा, यतो गोपनं सा गुप्तिरिति । कर्तृसाधनो वा क्तिन् गोपयतीति गुप्तिरिति ।
५
इष्टे स्थाने धत्त इति धर्मः | ३ | आत्मानमिष्टे नरेन्द्रसुरेन्द्रमुनीन्द्रादिस्थाने धत्त इति धर्मः । उणादिषु निष्पादितः ।
स्वभावानुचिन्तनमनुप्रेक्षाः |४| शरीरादीनां स्वभावानुचिन्तनमनुप्रेक्षा वेदितव्याः ।
१ इति व्याख्या - मु०, भू०, ता०, ६०, ब० ।
२५
सम्यगयनं समितिः।२। परप्राणिपीडापरिहारेच्छया सम्यगयनं समितिः । संपूर्वादिणो ३० भावेक्तिः । कर्तरि वा क्तिन् ।