________________
५८८ तत्त्वार्थवार्तिके
[११ स द्वधा द्रव्यभावभेदात् ।। संवरो द्वधा व्यवतिष्ठते । कुतः ? द्रव्यभावभेदात् ।
संसारनिमित्तक्रियानिवृत्तिर्भावसंवरः ।। आत्मनो द्रव्यादिहेतुक वान्तरावाप्तिः संसारः, - तनिमित्तक्रियापरिणामस्य निवृत्तिर्भावसंवर इति व्यपदिश्यते ।।
तन्निरोधे तत्पूर्वककर्मपुद्गलादानविच्छेदो द्रव्यसंवरः ।। तस्य संसारकारणस्य भाव५ बन्धस्य निरोघे तत्पूर्वकस्य कर्मपुद्रलस्य निरासो द्रव्यसंवर इति निश्चीयते ।
तद्विभावनार्थ गुणस्थानविभागवचनम् ।१०। तस्य संवरस्य विभावनार्थ गुणस्थानविभागवचनं क्रियते । तद्यथा
मिथ्यादृष्टि-सासादनसम्यग्दृष्टि-सम्यमिथ्यादृष्टि-असंयतसम्यग्दृष्टि-संयतासंयत-प्रमत्तसंयता-ऽप्रमत्तसंयता ऽपूर्वकरणा-ऽनिवृत्तिबादरसाम्पराय-सूक्ष्मसाम्पराय-उपशमक-क्षपक-उपाशाम्त-क्षीणकषायवीतरागछन्मस्थ-सयोगि-अयोगकेवलिभेदात् चतुर्दशगुणस्थानविकल्पः ॥११॥ मिथ्यादृष्टिः सासादनसम्यग्दृष्टिः सम्यािथ्यादृष्टिः असंयतसम्यग्दृष्टिः संयतासंयतः प्रमत्तसंयतः अप्रमत्तसंयतः अपूर्वकरणोपशमकक्षपको अनिवृत्तिबादरसाम्परायोपशमकक्षपको सूक्ष्मसाम्परायोपशमकक्षपको उपशान्तकषायवीतरागछद्मस्थः क्षीणकषायवीतरागछद्मस्थः सयोगकेवली अयोगकेवली चैवं भेदात् चतुर्दशगुणस्थानविकल्पो वेदितव्यः ।
तत्र मिथ्यादर्शनोदयवशीकृतो मिथ्याष्टिः ।१२। तेषु मिथ्यादर्शनकर्मोदयेन वशीकृतो जीवो मिथ्यादृष्टि रित्यभिधीयते । यत्कृतं तत्त्वार्थानामश्रद्धानम् । तत्र ज्ञानावरणक्षयोपशमापादितानि त्रीण्यपि ज्ञानानि मिथ्याज्ञानव्यपदेशभाजि भवन्ति । तस्य विकल्पाः प्राग्व्याख्याताः। ते सर्वे समासेन द्विधा व्यवतिष्ठन्ते-हिताहितपरीक्षाविरहिताः परीक्षकाश्चेति । तत्रैकेन्द्रियादयः सर्वे संझिपर्याप्तकवर्जिताः हिताहितपरीक्षाविरहिताः, पर्याप्तका उभयेऽपि भवन्ति ।
यदुदयाभावेऽनन्तानुबन्धिकषायोदयविधेयीकृतः सासादनसम्यग्दृष्टिः।१३। तस्य मिथ्यादर्शनस्योदये निवृत्ते अनन्तानुबन्धिकषायोदयकलुषीकृतान्तरात्मा जीवः सासादनसम्यग्दृष्टिरित्याख्यायते ।
मिथ्यादर्शनोदयनिवृत्तिः कथमिति चेत् ? उच्यते-अनादिमिथ्या दृष्टिव्यः षड्विंशतिमोहप्रकृतिसत्कर्मकः सादिमिथ्यादृष्टियं षड्विंशतिमोहप्रकृतिसत्कर्मकः सप्तविंशतिमो२५ हप्रकृतिसत्कर्मको वा अष्टाविंशतिमोहप्रकृतिसत्कर्मको वा प्रथमसम्यक्त्वं गृहीतुमारभमाणः
शुभपरिणामाभिमुखः अन्तर्मुहूर्तमनन्तगुणवृद्धथा वर्धमानविशुद्धिः, चतुर्षु मनोयोगेषु अन्यतमेन मनोयोगेन, चतुर्पु वाग्योगेषु अन्यतमेन वाग्योगेन औदारिकवैक्रियिककाययोगयोरन्यतरेण काययोगेन वा समाविष्टः हीर्यमानान्यतमकषायः साकारोपयोगः, त्रिषु वेदेष्वन्यतमेन वेदेन संश्लेशविरहितः वर्धमानशुभपरिणामप्रतापेन सर्वकर्मप्रकृतीनां स्थितिं ह्रासयन् , अशुभप्रकृतीनामनुभागबन्धमपसारयन् शुभप्रकृतीनां रसमुद्वर्तयन् त्रीणि करणानि कर्तुमुपक्रमते-अथाप्रवृत्तकरणम् , अपूर्वकरणम्, अनिवृत्तिकरणं चेति । तानि त्रीण्यपि करणानि प्रत्येकमन्तमुहर्तकालानि । तत्र अन्तःकोटीकोटिस्थितिकानि कर्माणि कत्वा अथाप्रवृत्तकरणस्य आदिसमयं कालादिलब्ध्युपेतः प्रविशति । इदं तु करणं प्राक् न कदाचिदपि प्रवृत्तम्, अत एवास्यान्वर्थ
संज्ञा-यथेदं करणं न तथा प्राक् प्रवृत्तमित्यथाप्रवृत्तिमिति । तत्राद्ये समये जघन्या ३५ विशुद्धिरल्पा, द्वितीये समये जघन्याऽनन्तगुणा, तृतीये समये जघन्या अनन्तान एवमादि अन्तमुहूर्तपरिसमाप्तेः, ततः प्रथमसमये उत्कृष्टा अनन्तगुणा, द्वितीयसमये उत्कृष्टा अन
पर्याव | भावान्त-ता०, ०२ भावसंवरस्य मु०। भावसंसारस्य ९०, ब० । ३-ष्टिरभि-मु०, २०,०1४-माननूतनक-मु.। -मानन्यूनतमक-द. । ५ भयेदं मु०। ६-न्याऽनन्तगुणा-ता, श्र०, मु.। . द्वितीये मु०, २०, ब.। द्वितीयसमयेनुत्क-ता० ।