________________
१]
नवमोऽध्यायः न्तगुणा एवमादि अथाप्रवृत्तकरणचरमसमयान्नेतन्या । एवमेते नानाजीवानामसंख्येयलोकप्रमाणाः परिणामविकल्पाः समा विषमाश्च भवति । 'तेषां समुदायरूपमथाप्रवृत्तकरणम् । अपूर्वकरणस्य प्रथमसमये जघन्या विशुद्धिरल्पा, तस्यैवोत्कृष्टा अनन्तगुणा, द्वितीयसमये जघन्या अनन्तगुणा तस्यैव उत्कष्टा अनन्तगुणा, एवमा अन्तर्मुहूर्तपरिसमाप्तेः । त एते नानाजीवानामसंख्येयलोकप्रमाणाः परिणामविकल्पा नियमेन विषमा एव परस्परतः । तेषां समुदायरूपमपूर्वकरणम् , ५ अतएवास्यात्यन्तापूर्वत्वादन्वर्थसंज्ञा। अनिवृत्तिकरणकाले नानाजीवानां प्रथमसमये परिणामा एकरूपा एव, द्वितीयसमये ततोऽनन्तगुणा एकरूपा एव, एवम् आ अन्तर्मुहूर्तपरिसमाप्तः। तेषां समुदायरूपमनिवृत्तिकरणम् । अत एवास्यान्वर्थनाम परस्परतो निवृत्त्यभावादनिवृत्तिकरणमिति ।
'तत्राथाप्रवृत्तकरणे स्थितिखण्डनमनुभागखण्डनं गुणश्रेणी गुणसंक्रमो वा नास्ति केवलमनन्तगुणवृद्धथा विशुद्धथन् अप्रशस्तप्रकृतीरनन्तगुणानुभागहीना बध्नाति, प्रशस्तप्रकृतीचानन्तगुणरसवृद्धाः, स्थितिमपि पल्योपमसंख्येयभागहीनाम् । अपूर्वकरणाऽनिवृत्तिकरणयोः स्थितिखण्डनादीनि संभवन्ति स्थितिबन्धश्च क्रमेण हीयते । अशुभप्रकृतीनामैनुभागबन्धोऽनन्तगुणहान्या शुभप्रकृतीनां चानन्तगुणवृद्धथा वर्तते । तत्रानिवृत्तिकरणकालस्य संख्येयेषु भागेषु गतेष्वन्तरकरण. मारभते, येन मिथ्यादर्शनकर्मण उदयघातः क्रियते । ततश्वरमसमये मिथ्यादर्शनं त्रिधा विभक्तं करोति-सम्यक्त्वं मिथ्यात्वं सम्यमिथ्यात्वं चेति । एतासां तिसृणां प्रकृतीनाम् अनन्तानुब- १५ धिक्रोधमानमायालोभानां चोदयाभावेऽन्तर्मुहूर्तकालं प्रथमसम्यक्त्वं भवति । तदन्ते जघन्येन. एकसमये उत्कर्षणावलिकाषटकेऽवशिष्टे यदा अनन्तानुबन्धिक्रोधमानमायालोभानामन्यतमस्योदयो भवति तदा सासादनसम्यग्दृष्टिरित्युच्यते । अत एवास्यान्वर्थसंज्ञा-आसादनं विराधनम् , सहासादनेन वर्तत इति सासादना, सासादना सम्यग्दृष्टियस्य सोऽयं सासादनसम्यग्दृष्टिरिति । तस्य मिथ्यादर्शनोदयाभावेऽपि अनन्तानुबन्ध्युदयात् त्रीणि ज्ञानानि अज्ञानान्येव भवन्ति । अत २. एवास्यान्वर्थसंज्ञा-अनन्तं मिथ्यादर्शनं तदनुबन्धनादनन्तानुबन्धीति । स हि मिथ्यादर्शनोदयफलमापादयन् मिथ्यादर्शनमेव प्रवेशयति ।
सम्यमिथ्यात्वोदयात् सम्यमिथ्यादृष्टिः ।१४। सम्यमिथ्यात्वसंज्ञिकायाः प्रकृतेरुदयात् आत्मा क्षीणाक्षीणमदशक्तिकोद्रवोपयोगापादितेषत्कलुषपरिणामवत् तत्त्वार्थश्रद्धानाश्रद्धानरूपः सम्यािथ्यादृष्टिरित्युच्यते । अत एवास्य त्रीणि ज्ञानानि अज्ञानमिश्राणि इत्युच्यन्ते ।
२५ सम्यक्त्वोपेतश्चारित्रमोहोदयादिपा(यादापा)दिताऽविरतिरसंयतसम्यग्दृष्टिः१श औपशमिकेन क्षायोपशमिकेन क्षायिकेण वा सम्यक्त्वेन समन्वितः चारित्रमोहोदयात् अत्यन्तमविरतिपरिणामप्रवणोऽसंयतसम्यग्दृष्टिरिति व्यपदिश्यते । तस्य त्रीण्यपि ज्ञानानि सम्यग्ज्ञानव्य- ... पदेशमर्हन्ति तत्त्वार्थश्रद्धानसमावेशात् । इत अवं गुणस्थानेषु नियमेन सम्यक्त्वम् ।।
द्विविषयविरत्यविरतिपरिणतः संयतासंयतः ॥१६॥ एतदादीनि गुणस्थानानि चारित्रमोहस्य ३० क्षयोपशमादुपशमात् क्षयाच भवन्ति । तत्रानन्तानुबन्धिकषायाः क्षीणाः स्युरक्षीणा वा, "ते च अप्रत्याख्यानावरणकषायाश्च सर्वघातिन एव, तेषामुदयक्षयात् सदुपशमाच, प्रत्याख्यानावरणकषायाः सर्वघातिन एव तेषामुदये सति संयमलब्धावसत्याम् , सज्वलनकषायाः नव नोकपायाश्च देशघातिन एव, तेषामुदये सति संयमासंयमलब्धिर्भवति । तद्योग्यया प्राणीन्द्रियविषयया विरताविरतवृत्त्या परिणतः संयतासंयत इत्याख्यायते ।
१ एषां मु०, ता० । २ अनाथा-मु०, द०,०। ३-णेपिस्थि-मु०, २०,०।-नया मु०। ५-नुभव-मु०। ६ सम्यक्त्वमि-ता०, श्र, मू०। ७ तथा मु०, ब० ।