________________
अथ नवमोऽध्यायः अत्राह-योऽयं अनादिसन्ततिः पौनर्भविकसुखदुःखहेतुः अष्टविधविशेषोपचितमूर्तिः नानाजातिविग्रहोत्पादनप्रवणः 'पौरुषेयः सर्वात्मप्रदेशावेष्टनसमर्थः कर्मबन्धः स केनचिदुपायेनापि नाम कस्यचित् अनात्यन्तिकः स्यादिति ? अत्रोच्यते-भवति हि केषाचिदात्यन्तिकस्तद्विनाशः यस्मात्तदर्थमेव भगवद्भिरहद्भिरुपदिष्ट:
आस्रवनिरोधः संवरः॥१॥ अथवा, आह-कथं पुनरेतदाहितवैचित्र्यं नानास्रवापादितं ज्ञानावरणादिकर्म सम्बन्धं नोपयादिति ? अत्रोच्यते-संवरात् । कोऽसौ संवर इति ? 'अत आह-आस्रवनिरोधः संवर इति । अथवा, बन्धपदार्थो निर्दिष्टः । इदानीं तदनन्तरोद्देशभाजः संवरस्य निर्देशः प्राप्तकाल इति; अत इदमाह-आस्रवनिरोधः संवर इति ।
अथ कोऽयमास्रवनिरोधः ?
कर्मागमनिमित्ताऽप्रादुर्भूतिरास्रवनिरोधः ।। कर्मागमनिमित्तं बहुविकल्पं व्याख्यातम् , तस्य कायवाअनःप्रयोगस्य स्वात्मलाभहें त्वसनिधानात् अप्रादुर्भूतिरानवनिरोध इत्युच्यते ।
आह-यदि अयमास्रवनिरोधः व्याख्यार्यताम् इदानीं संवर इति ? अत्राभिधीयते-स न व्याख्यातव्यः । किं कारणम् ? यस्मात्
तन्निरोधे सति तत्पूर्वककर्मादानाभावः संवरः ।। कारणाभावात् कार्याभाव इति तस्मिन्नास्रवे निरुद्धे तत्पूर्वकस्यानेकदुःखबीजजननस्य कर्मणः उपनिपाताभावो यः स संवरः । 'अभिमतः' इति वाक्यशेषः ।
तथानिर्देशः कर्तव्य इति चेत्, न; कार्य कारणोपचारात् ।३। स्यादेतत्-यद्ययमथे इष्टस्तथा निर्देशः कर्तव्यः यथा गमको भवति-आस्रवनिरोधे सति संवरः, आस्रवनिरोधादिति वा ? २० तन्नः किं कारणम् ? कार्ये कारणोपचारात् । यथा अन्नं वै प्राणा इति अन्नकार्येषु प्राणेषु अन्नोपचारः तथा आस्रवनिरोधकार्ये संवरे आस्रवनिरोधोपचारः कृतः ।
निरुध्यतेऽनेनं निरोध इति । अथवा, नायं भावसाधनः निरुद्धिनिरोध इति । किं तर्हि ? करणसाधनः-निरुध्यते येन स निरोध इति । तथा संवरशब्दोऽपि करणसाधनः-संब्रिय- . तेऽनेनेति । कः पुनरसौ ? गुप्त्यादिः वक्ष्यमाणः। तेन भयं क्रियते इति सामानाधिकरण्यमु- २५ पपद्यते ।
योगविभागो वा ।। अथवा, योगविभागोऽत्र द्रष्टव्यः, आस्रवनिरोधः 'हितार्थिना कर्तव्यः' इति वाक्यशेषः । तस्य किं प्रयोजनमिति चेत् ? अत आह-संवर इति । संवरः प्रयोजनमस्येत्यर्थः । कः पुनरसौ ? .
मिथ्यादर्शनादिप्रत्ययकर्मसंवरणं संवरः ।६। मिथ्यादर्शनादयः प्रत्यया व्याख्याताः, ३० तदुपादानस्य कर्मणः संवरणं संवर इति निर्धियते ।
१.पौरुषेण यः-मु०, द०, ब० । पुरुषकृतः । २ भगवद्भिरुप-मु०, ९०, ब० । ३ विरोधः-१० । ४ अत एवाह-मु०। अत एव अत साह-द०, ब०।५-हेतुत्वस-मु०। ६-तामित्यवेदा-मु०,९०,०। ७-जनकस्य मु०, द०, व० । ८ गुप्त्यादिकेन । ६ आस्रवनिरोधः संवर इति ।
२१