________________
५८४ तत्त्वार्थवार्तिके
[८२३ सा द्विप्रकारा बिपाकजेतरा च ।२। सा द्विप्रकारा वेदितव्या। कुतः ? विपाकजेतरा चेति । तत्र चतुर्गतावनेकजातिविशेषावघूर्णिते संसारमहार्णवे चिरं परिभ्रमतः शुभाशुभस्य कर्मण औदयिकभावोदीरितस्य क्रमेण विपाककालप्राप्तस्य' यस्य यथा । सदसद्वेचतान्यतरविकल्पबद्धरय तस्य तेन प्रकारेण वेद्यमानस्य यथानुभवोदयावलिस्रोतोऽनुप्रविष्टस्यारब्ध फलस्य स्थितिक्षयादुदयागतपरिभुक्तस्य या निवृत्तिः सा विपाकजा निर्जरा । यत्कर्माप्राप्तविपाककालमौपक्रमिकक्रियाविशेषसाम.दनुदीर्ण बलादुदीर्य उदयावलिं प्रवेश्य वेद्यते आम्रपनसादिपाकवत् सा अविपाकनिर्जरा।
निमित्तान्तरसमुच्चयार्थश्वशब्दः ।३। “तपसा निर्जरा [१२] इति वक्ष्यते, तस्य समुच्चयार्थश्वशब्दः क्रियते-ततश्च भवति अन्यंतश्चेति ।
संवरात्परत्र पाठ इति चेत् ; न; अनुभवानुवादपरिहारार्थत्वात् ।४। स्यान्मतम्-संवरा१० निर्जरा परत्र पठितव्या 'यथोदेशः तथा निर्देशः' इति तन्नः किं कारणम् ? अनुभवानुवादपरिहारार्थत्वात्, तत्र हि पाठे क्रियमाणे विपाकोऽनुभव इति पुनरनुवादः कर्तव्यः स्यात् ।
पृथनिर्जरावचनमनर्थकं बन्धेऽन्तर्भावादिति चेत् नः अर्थापरिज्ञानात् ।श स्याम्मतम्यथा पुण्यपापयोः पृथग्रहणं न कृतं बन्धेऽन्तर्भावात तथा निर्जरा अपि उक्तन क्रमेण अनुभव- .
बन्धेऽन्तर्भवति इति पृथगस्या ग्रहणमनर्थकमिति; तन्न; किं कारणम् ? अर्थापरिज्ञानात् । फलदान१५ सामर्थ्यमनुभव इत्युच्यते । ततोऽनुभूतानामात्तवीर्याणां पुद्गलानां निवृत्तिनिर्जरेत्ययमर्थभेदः ।
एवं च कृत्वा ततश्चेति अपादाननिदेश उपपन्नो भवति, इतरथा हि भेदाभावानोपपद्यते ।
___लघ्वर्थमिहैव तपसेति वक्तव्यमिति चेत् ; न; संघरानुग्रहतन्त्रत्वात् ।। स्यादेतत्-लघ्वर्थमि हैव ततो निर्जरा तपसा च' इति वक्तव्यं पुनर्निर्जराग्रहणमाकर्ष(-णं व्यर्थ)मिति; तन्न; किं कारणम् ? संवरानुग्रहतन्त्रत्वात्-तपसा निर्जरा च भवति संवरश्चेति ।
धर्मेऽन्तर्भावात् संघरहेतुत्वमिति चेत् ; नः पृथग्ग्रहणस्य प्राधान्यख्यापनार्थत्वात् ।। स्यान्मतम्-उत्तमक्षमामार्दवार्जवादियोगे उत्तमं तपः संवरहेतुरिति वक्ष्यते ततस्तत्रान्तर्भावात् संबरहेतुत्वसिद्धेः, इह वचनाञ्च निर्जराहेतुत्वनिर्ज्ञानात् पृथक् तत्र तपोग्रहणमनर्थकमिति;- तन्न; किं कारणम् ? पृथग्रहणस्य प्राधान्यख्यापनार्थत्वात् । सर्वेषु संवरनिर्जराहेतुषु तपः प्रधानभूतमित्येतस्य ज्ञापनार्थ पुनस्तपोग्रहणं क्रियते । उक्तं च
. "कार्यमणोवचिगुत्तो जो तवसा चेटदे अणेयविहं।
सो कम्मणिजराए विपुलाए बट्टदे मणुस्सोत्ति ॥"[ ] तत इह तपोवचनं गौरवं जनयति इति न कृतम् ।।
ताः पुनः कर्मप्रकृतयो द्विविधाः-घातिका अघातिकाश्चेति । तत्र ज्ञानदर्शनावरणमोहान्तरायाख्या घातिकाः। इतरा अघातिकाः । घातिकाश्चापि द्विविधा-सर्वघातिका देशघातिकाश्चेति । तत्र केवलज्ञानावरणनिद्रानिद्राप्रचलाप्रचलास्त्यानद्धिनिद्राप्रचलाकेवलदर्शनावरणद्वादशकषायदर्शनमोहाख्याः विंशतिप्रकृतयः सर्वघातिकाः। ज्ञानावरणचतुष्कदर्शनावरणत्रयान्तरायपञ्चकसज्वलननोकषायसंज्ञिकाः देशघातिकाः । अवशिष्टाः प्रकृतयः अघातिकाः। तथेदमपरमवसेयम्-शरीरनामादयः स्पर्शान्ता अगुरुलघूपघातपरघातातपोद्योतप्रत्येकशरीरसाधारणशरीरस्थिरास्थिरशुभाशुभनिर्माणनामाख्याश्च पुद्गलविपाकप्रदाः। आनुपूर्व्यनाम क्षेत्रविपाककरम् । आयुर्भवधारणफलम् । अवशिष्टाः प्रकृतयो जीवविपाकहतव इति । एवमनुभवबन्धो व्याख्यातः ।
१-सस्य यथा मु०,९०, ब०। २-उधकर्मस्वस्थि-मु०,-धकर्मस्यस्थि-द०, २० । ३-मिकंकिता०, ०। तपसा। ५ पृथग्ग्रहणम् । ६ कायमनोवचोगुप्तो यः तपसा चेष्टते अनेकविधम् । सः कर्मनिर्जराया विपुलाया. वर्तते मनुष्यःया . वहदि मु०, २०, २०, ता०, मू० ।