________________
अष्टमोऽध्यायः
५८५
८२४ ]
इदानीं प्रदेशबन्धो वक्तव्यः, तस्मिंश्च वक्तव्ये सति इमे निर्देष्टव्याः - किंहेतवः कदा, कुतः, किंस्वभावाः, कस्मिन् किंपरिमाणाश्चेति ? तदर्थमिदं यथासंख्य परिगृहीततत्प्रश्नापेक्षाभेदं सूत्रं प्रणीयते
ܝ
नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाहस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥ २४ ॥
नाम्नः प्रत्यया नामप्रत्ययाः । नामेति सर्वाः कर्मप्रकृतयः अभिधीयन्ते, “स यथानाम " [त० सू० ८२२] इति वचनात् ।
नामासां प्रत्यय इति चेत्; न; समयविरोधात् |१| अथ मतमेतत्-नाम प्रत्ययो यासां ताः नामप्रत्यया इति; तन्न; किं कारणम् ? समयविरोधात् । एवं हि विग्रहे क्रियमाणे नामकर्म एव सर्वासां प्रकृतीनां प्रत्यय इति प्राप्तम्, तच्च समयविरुद्धम् । अनेन हेतुभाव उक्तः ।
१०
सर्वेषु भवेषु सर्वतः |२| " दृश्यन्तेऽन्यतोऽपि ” [
] इति तसि कृते सर्वेषु भवेषु सर्वत इति भवति । अनेन कालोपादानं कृतम्, एकैकस्य जीवस्य अतिक्रान्ता अनन्ता भवा आगामिनः संख्येया असंख्येया अनन्ता वा भवा भवन्ति, तेषु सर्वेष्वेवेति ।
योगविशेषादिति वचनं निमित्तनिर्देशार्थम् |३| योगो व्याख्यातः कायवाङ्मनस्कर्मलक्षणः । परस्परतो विशिष्यते इति विशेषः । ततो योगविशेषान्निमित्तात् कर्मभावेन पुद्रला आदी- १५ यन्त इति योगविशेषादित्यनेन निमित्तनिर्देशः कृतो भवति ।
सूक्ष्मग्रहणं ग्रहणयोग्यस्वभावप्रतिपादनार्थम् |४| ग्रहणयोग्याः पुद्गलाः सूक्ष्मा न स्थूला इति प्रतिपादनार्थ सूक्ष्मग्रहणं क्रियते ।
एक क्षेत्रावगाहं वचनं क्षेत्रान्तरनिवृत्यर्थम् |५| आत्मप्रदेशकर्मपुद्रलैकाधिकरणव्यतिरिक्तक्षेत्रान्तरनिवृत्त्यर्थमेकक्षेत्रावगाह इति वचनं क्रियते ।
स्थिता इति वचनं क्रियान्तरनिवृत्त्यर्थम् |६| स्थिताः कर्मभावमापद्यन्ते न गच्छन्त इति क्रियान्तरनिवृत्त्यर्थं स्थिता इत्युच्यते । एवं सूक्ष्मादिग्रहणेन कर्मयोग्यस्वभावानुवर्णनं कृतं भवति ।
२०
सर्वात्मप्रदेशेष्विति वचनमेकप्रदेशाद्य पोहार्थम् |७| एकद्वित्रिचतुरादिप्रदेशेष्वात्मनः कर्मप्रदेशाः न प्रवर्तन्ते, 'के तर्हि ? ऊर्ध्वमधस्तिर्यक्षु सर्वेष्वात्मप्रदेशेषु व्याप्य स्थिता इति प्रदर्शनार्थ २५ सर्वात्मप्रदेशेष्वित्युच्यते ।
अनन्तानन्त प्रदेशवचनं प्रमाणान्तरव्यपोहार्थम् ८ न संख्येयाः नचाऽसंख्येयाः नाप्यनन्ताः इति प्रतिपादनार्थम् अनन्तानन्तप्रदेशा इत्युच्यन्ते । तें खलु पुद्गलस्कन्धा अभव्यानन्तगुणाः सिद्धानन्तभागप्रमितप्रदेशाः घनाङगुलासंख्येयभागक्षेत्रावगाहिनः एकद्वित्रिचतुःसंख्येयासंख्येयसमयस्थितिकाः पञ्चवर्णरस द्विगन्धचतुःस्पर्शभावाः अष्टविधकर्मप्रकृतियोग्याः योगवशात् आत्मना ३० आत्मसात्क्रयन्त इति प्रदेशबन्धः समासतो वेदितव्यः ।
१- गाढव - ता०, श्र०, ६०, ब० । २ सन्तः । ३ श्रय । ४ किं तहिं मु०, द०, ब० । ५ -मूमधस्तिर्यक्सर्वा - मु०, ५० ब० । ६ परमाणवः, ते अनन्तानन्ता अपि पुद्गलस्कन्धा आगता अविशेषेण एतावन्मात्रसूचमशरीरं महामत्स्यादि स्थूलशरीरच व्याप्य स्थिता इत्यर्थः । ७-तुः संख्येयसम - द०, ब० । तुः संख्येयानन्तसम - मु० ।