________________
८।१८-२३ ] अष्टमोऽध्यायः
५८३ अपरा द्वादश मुहूर्ता वेदनीयस्य ॥ १८ ॥ सूक्ष्मसाम्पराय इति वाक्यशेषः । अथानुपूर्व्यविशेषात्यये सति मोहायुर्व्यवहितयोरन्त्ययोः का जघन्या स्थितिरिति ? उच्यते
नामगोत्रयोरष्टौ ॥ १६ ॥ अत्रापि सूक्ष्मसाम्पराय इति वाक्यशेषः । मुहूर्ता इत्यनुवर्तते, अपरा स्थितिरिति च। ५ अथान्यासां कर्मप्रकृतीनां का जघन्या स्थितिरिति ? उच्यते
शेषाणामन्तर्मुहूर्ती ॥ २० ॥ अपरा स्थितिरित्यनुवर्तते । तत्र ज्ञानदर्शनावरणान्तरायाणां सूक्ष्मसाम्पराये, मोहनीयस्यानिवृत्तिबादरसाम्पराये, आयुषः संख्येयवर्षायुष्षु तिर्यतु मनुष्येषु च । आह-उभयी ज्ञानावरणादीनामभिहिता स्थितिः । अथानुभवः किंलक्षण इति ? अत्रोच्यते- १०
विपाकोऽनुभवः ॥ २१ ॥ विशिष्टः पाको नानाविधो वा विपाकः।१। ज्ञानावरणादीनां कर्मप्रकृतीनाम् अनुप्रहोपघातात्मिकानां पूर्वास्रवतीब्रमन्दभावनिमित्तो विशिष्टः पाको विपाकः । द्रव्यक्षेत्रकालभवभावलक्षणनिमित्तभेदजनितवैश्वरूप्यो नानाविधो वा पाको विपाकः । असावनुभव इत्याख्यायते । शुभपरिणामानां प्रकर्षभावात् शुभप्रकृतीनां प्रकृष्टोऽनुभवः अशुभप्रकृतीनां निकृष्टः। अशुभपरिणामानां १५ प्रकर्षभावात् अशुभप्रकृतीनां प्रकृष्टोऽनुभवः शुभप्रकृतीनां निकृष्टः। स एवं प्रत्ययवशादुपात्तोऽनुभयो । द्विधा प्रवर्तते-स्वमुखेन परमुखेन च। सर्वासां मूलप्रकृतीनां स्वमुखेनैवानुभवः । उत्तरप्रकृतीनां तु तुल्यजातीयानां परमुखेनापि भवति आयुर्दर्शनचारित्रमोहवर्जानाम् । न हि नारकायुर्मुखेन तिर्यगायुर्मनुष्यायुर्वा विपच्यते, नापि दर्शनमोहः चारित्रमोहमुखेन, चारित्रमोहो वा दर्शनमोहमुखेन ।
आह-अभ्युपेमः प्रागुपचितनानाप्रकारकर्मविपाकोऽनुभव इति, इदं तु न विजानीमः किमयं प्रसंख्यातोऽप्रसंख्यातः इति ? अत्रोच्यते-प्रसंख्यातोऽनुभूयत इति महे । कुतः ? यतः
स यथानाम ॥ २२॥ झानावरणादीनां सविकल्पानां प्रत्येकमन्वर्थसशानिर्देशावनुभवसंप्रत्ययः ।। झानावरणस्य फलं ज्ञानाभावः, दर्शनावरणस्य फलं दर्शनशक्त्युपरोध इत्येवमाद्यन्वर्थसज्ञानिर्देशात् २५ सर्वास कर्मप्रकृतीनां सविकल्पानाम् अनुभवसंप्रत्ययो जायते ।
____ आह-यदि विपाकोऽनुभवः प्रतिज्ञायते, तत्कर्मानुभूतं सत् किमावरणवदवतिष्ठते, आहोस्विनिष्पीडितसारं प्रच्यवते इति ? अत्रोच्यते
ततश्च निर्जरा ॥२३॥ पूजितकर्मपरित्यागो निर्जरा ।। पीडानुप्रहावात्मने प्रदायाभ्यवहृतोदनादिविकारवत् ३० व्यावर्तते स्थितिक्षयादवस्थानाभावात् ।
-रन्ययोः मु०। २ नानावा ता०, १०, मू०।३ नाम्ना निर्मातः। संख्या-मु०। ४ क्समास्यादिवत् । ५-नं प्र-मु०, २०,०।