________________
५८२ तत्त्वार्थवार्तिके
[८।१५-१७ भागाः त्रयः । त्रीन्द्रियपर्याप्तकस्य पञ्चाशत्सागरोपमसप्तभागास्त्रयः । चतुरिन्द्रियपर्याप्तकरय सागरोपमशतसप्तभागास्त्रयः । असंज्ञिपश्च न्द्रियापर्याप्तकस्य सागरोपमसहस्रसप्तभागास्त्रयः । संज्ञिपञ्चेन्द्रियापर्याप्तकस्यान्तःसागरोपमकोटीकोट्यः । एकेन्द्रियापर्याप्तकस्य त एव भागाः पल्यो
पमस्यासंख्येयभागोनाः । द्वित्रिचतुःपञ्चेन्द्रियाऽपर्याप्तसंज्ञिनां त एव भागाः पल्योपमा (म) ५ संख्येयभागोनाः। यस्य कर्मणः स्थितिमतिलध्यान्यकर्मस्थितिरभिहिता तस्य खलु वेदनीयानन्तरोद्देशभाजः
सप्ततिर्मोहनीयस्य ॥ १५॥ सागरोपमकोटीकोट्यः परा स्थितिरित्यनुवर्तते । इयमपि परा स्थितिः संज्ञिपन्चेन्द्रियपर्याप्तकस्यावसेया। इतरेषामेकेन्द्रियादीनां यथागमम् । तद्यथा-पर्याप्तकैकद्वित्रिचतुरिन्द्रियाणामेक१० पञ्चविंशतिपञ्चाशच्छतसागरोपमाणि यथासंख्यम् , अपर्याप्तकैकेन्द्रियस्य पल्योपमासंख्येय
भागोना सैव स्थितिः । द्वीन्द्रियादीनामपि सैव पल्योपमा(म)संख्येयभागोना पर्याप्तकासब्जिपश्चेन्द्रियस्य सागरोपमसहस्रम् , तस्यैवापर्याप्तकस्य सागरोपमसहस्रं पल्योपमसंख्येयभागोनम् , अपर्याप्तकसंझिनः अन्तःसागरोपमकोटीकोट्यः ।
आह-निर्दिष्टा पश्चानां कर्मप्रकृतीनां स्थितिः, अथोपरिष्टयोः का परा स्थितिरिति ? १५ अत्रोच्यते
विंशतिनीमगोत्रयोः ॥ १६ ॥ सागरोपमकोटीकोट्यः परा स्थितिरित्यनुवर्तते । इयमप्युत्कृष्टा संज्ञिपञ्चेन्द्रियपर्याप्तकस्य । एकेन्द्रियादीनां यथागमम् । तद्यथा-एकेन्द्रिपर्याप्तकस्यैकसागरोपमसप्तभागौ द्वौ । द्वीन्द्रियपर्याप्त
कस्य पश्चविंशतिसागरोपमसप्तभागौ द्वौ। त्रीन्द्रियपर्याप्तकरय पञ्चाशत्सागरोपमसतभागौ द्वौ । २० चतुरिन्द्रियपर्याप्तकरय सागरोपमशतसप्तभागौ द्वौ । असंज्ञिपञ्चेन्द्रियपर्याप्तकस्य सागरोपमसहस्र
सप्तभागौ द्वौ। संज्ञिपश्चन्द्रियापर्याप्तकस्य अन्तःसागरोपमकोटीकोट्यः । एकेन्द्रियापर्याप्तकरय तावेव भागौ पल्योपमासंख्येयभागोनौ । द्वित्रिचतुःपञ्चेन्द्रियापर्याप्तकासंझिनां सैव स्थितिः पल्योपमा(म)संख्येयभागोना । आह-आयुषः कोत्कृष्टा स्थितिरिति ? अत्रोच्यते
त्रयस्त्रिंशत्सागरोपमाण्यायुषः ॥ १७ ॥ पुनः सागरोपमग्रहणात् कोटीकोटीनिवृत्तिः ।। सागरोपमग्रहणेऽनुवर्तमाने पुनः सागरोपमग्रहणं कोटीकोटीनिवृत्त्यर्थम् । परा स्थितिरित्यनुवर्तते एव । अस्याप्युत्कृष्टा स्थितिःसंज्ञिपर्याप्तकस्यैव । इतरेषां यथागमम् । तद्यथा असज्ञिपञ्च द्रियपर्याप्तकस्य पल्योपमस्यासंख्येयभागः । शेषाणाम् उत्कृष्टा पूर्वकोटी।
___ आह-अष्टानामपि कर्मप्रकृतीनां व्याख्याता परा स्थितिः । अथ तासामेव का जघन्या स्थितिरित्युपदिश्यते-अन्यकर्मस्थितिविशेषाधिकत्वात् । आनुपूर्योल्लङ्घनेन अमुष्यैव तावत् स्वसंवेद्यफलस्य वेद्यस्य वेदितव्या स्थितिः
१ अन्तरायस्य । २ अपर्याप्तसं-मु०, मू०,द०, ब०, ता० ।