________________
८।१४] अष्टमोऽध्यायः
५८१ . भोगोपभोगयोरविशेष इति चेत् । न; गन्धादिशयनादिभेदतस्तद्भेदसिद्धः।३। स्यान्मतम्-भोगोपभोगयोरविशेषः । कुतः ? सुखानुभवननिमित्तत्वाभेदादिति; तन्नः किं कारणम् ? गन्धादि-शयनादिभेदतस्तद्भदसिद्धः। गन्धमायशिरःस्नानवस्त्रानपानादिषु भोगव्यवहारः। शयनासनाङ्गनाहस्त्यश्वरथ्यादिषूपभोगव्यपदेशः । ता एता ज्ञानावरणादीनाम् उत्तरप्रकृतयः संख्येया उक्ताः । ज्ञानावरणस्य नाम्नश्चाऽसंख्येया अपि भवन्तीत्याप्तोपदेशः । व्याख्यातः प्रकृतिबन्धविकल्पः, अतः परं स्थितिबन्धविकल्पं व्याख्यास्यामः ।
आह-व्याख्यास्यति भवान् स्थितिबन्धम् , इदं तु संशेमहे किमसांवभिहितलक्षणात् पूर्व स्मात् प्रकृतिबन्धात् विशिष्टात् अर्थान्तरभूतकर्मविषय आहोस्वित् तस्यैव प्राथमकल्पिकस्य कर्मणः प्रकृतिबन्धव्यपदेशवत् पर्यायान्तरनिर्देश इति ? अत्र ब्रूमहे-अस्थानेऽयं संशयः। कुतः ? यस्मादेतासामेव प्रकृतीनाम् अनेकभेदानां यथास्वमनिर्जीर्णानां यावन्तं कालमवस्थानं आश्रय- १. विनाशाभावात् तस्मिन् स्थितिबन्धविवक्षा, सा पुनः स्थितिरुभयथा-'परावरा च। प्रकृष्टात् प्रणिधानात् परा, निकृष्टात् प्रणिधानात् 'अवरा। यद्येवम् उच्यतां कियत्कालेयं कर्मप्रकृतिरिति ? अत्रोच्यते सति वक्तव्ये. आदितस्तिसगामन्तरायस्य च त्रिंशत्सागरोपमकोटी
कोट्यः परा स्थितिः ॥ १४ ॥ आदित इति वचनं मध्यान्तनिवृत्त्यर्थम् ।। मध्ये अन्ते वा तिसृणां प्रहणं माभूदित्येवमर्थमादित इत्युच्यते, आदौ आदितः तसप्रकरणे-"आधादिभ्य उपसंख्यानम्"[.. ] इति तस्।
तिसणामिति वचनम् अवधारणार्थम् ।२। आदित इत्युच्यमाने इयतीनां प्रकृतीनां ग्रहण मित्यवधारणं न स्यात् , अतोऽवधारणार्थ तिसृणामित्युच्यते ।
अन्तरायस्य चेति क्रमभेदवचनं समानस्थितिप्रतिपत्त्यर्थम् ।३। मूलप्रकृतिक्रममुल्लध्यान्तरायस्य चेत्युच्यते समानस्थितिप्रतिपत्त्यर्थम् । का पुनरसौ समानस्थितिः ? त्रिंशत्सागरोपमकोटीकोट्यः । उक्तपरिमाणं सागरोपमम् ।
कोटीकोट्य इति द्वित्वे बहुत्वानुपपत्तिः इति चेत् ; न; राजपुरुषवत्तत्सिद्धः।। स्यान्मतम्-यथा ग्रामो ग्रामो रमणीय इति वीप्सायां द्वित्वेनैव गतत्वात् बहुवचनं न प्रयुज्यते तथा कोटी २५ कोट्य इत्यत्रापि वीप्सायां द्वित्वेन गतत्वात् बह्वर्थस्य बहुवचनं न प्राप्नोति ? तन्न; किं कारण राजपुरुषवत्तत्सिद्धेः । यथा राज्ञः पुरुषः राजपुरुष इति, एवं कोटीनां कोट्यः कोटीकोट्यः इति वृत्तिद्रष्टव्या। पराभिधानं जघन्यस्थितिनिवृत्त्यर्थम् ।५
जघन्यस्थितिनिवृत्त्यर्थ परा उत्कृष्टा इत्यर्थः। सा कस्येति चेत? उच्यते
संक्षिपञ्चेन्द्रियपर्याप्तकस्य परा स्थितिः ।६। संज्ञिनः पञ्चेन्द्रियस्य पर्याप्तकस्य ज्ञानदर्शनावरणवेदनीयान्तरायाणां त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिर्भवति ।
अन्येषामागमात् संप्रत्ययः ।७। अन्येषामेकेन्द्रियादीनामागमात् संप्रत्ययो भवति । तद्यथा एकेन्द्रियपर्याप्तकस्य एकसागरोपमसप्तभागास्त्रयः। द्वीन्द्रियपयोप्तकस्य पञ्चविंशतिसागरोपमसप्त
राने
किसी
य
.
.
प
.
परापराच मु०, ता०।
सूत्रकारः स्वयमेव । भगवाम्-श्र० । २ स्थितिबन्धः। ३ अयुक्तः। ५ अपरा मु०।।