________________
५८०
तत्त्वार्थवार्तिके
- [८१२-१३ __आर्हन्त्यकारणं तीर्थकरत्वं नाम ।४०। यस्योदयादार्हन्त्यमचिन्त्यविभूतिविशेषयुक्तमुपजायते तत्तीर्थकरत्वनाम कर्म प्रतिपत्तव्यम् ।
गणधरत्वादीनामुपसंख्यानमिति चेत् ;न; अन्यनिमित्तत्वात् ।४१॥ यथा तीर्थकरत्वनाम कर्मोच्यते तथा गणधरत्वादीनामुपसंख्यानं कर्तव्यम् , गणधरचक्रधरवासुदेवबलदेवा अपि ५ विशिष्टर्द्धियुक्ता इति चेत् ; तन्नः किं कारणम् ? अन्यनिमित्तत्वात् । गणधरत्वं श्रुतज्ञानावरणक्षयोपशमप्रकषेनिमित्तम्, चक्रधरत्वादोनि उच्चैगोत्रविशेषहेतुकानि ।
तदेव तीर्थकरत्वस्यापीति चेत् ; न तीर्थप्रवर्तनफलत्वात् ।४२। स्यान्मतम्-तदेव उच्चै। र्गोत्रं तीर्थकरत्वस्यापि निमित्तं भवतु किं तीर्थकरत्वनाम्नेति ? तन्नः किं कारणम् ? तीर्थप्रवर्तन
फलत्वात् । तीर्थप्रवर्तनफलं हि तीर्थकरनामेष्यते न चोच्चैर्गोत्रोदयात् तदवाप्यते चक्रधरादीनां १० सदभावात्।
किमर्थं विहायोगत्यन्तानां प्रत्येकशरीदिभिरेकवाक्यत्वं न कृतम् ?
पूर्वेषां प्रतिपक्षविरहात् एकवाक्यत्वाभावः ।४३। पूर्वे गत्यादयो विहायोगत्यन्ताः प्रतिपक्षविरहिताः, प्रत्येकशरोरादयः सेतरग्रहणेन विशेषवितुमिष्टास्ततस्तेषाम् एकवाक्यभावो न कृतः ।
अथ किमर्थ तीर्थकरत्वस्य पृथक्करणम् ? १५ प्रधानत्वात्तीर्थकरत्वस्य ।४४। तीर्थकरत्वं हि प्रधानभूतं सर्वेषु शुभकर्मसु ततस्तस्य पृथग्ग्रहणं क्रियते। .
अन्त्यत्वाच ।४५॥ प्रत्यासन्ननिष्ठस्य तस्योदयो जायते ततश्चास्य पृथग्ग्रहणं क्रियते।
आह-उक्ताः सोत्तरप्रकृतिबन्धभेदा विविधभावनामनिर्वर्तनाहितान्वर्थसंज्ञा षष्ठी कर्मप्रकृतिः। अथ सप्तमी कियत्प्रकारेति ? अत्रोच्यते
उच्चैर्नीचैश्च ॥ १२॥ __ गोत्रं द्विविधमुच्चैर्नीचैरिति विशेषणात् ।। गोत्रं द्विविधं द्रष्टव्यम्-उच्चैर्नीचैरिति , विशेषणात् उच्चैर्गोत्रं नीचैर्गोत्रमिति । तत्र कीदृशमुच्चैर्गोत्रं कीदृग्वा नीचैर्गोत्रम् ? ...
यस्योदयात् लोकपूजितेषु कुलेषु जन्म तदुच्चैर्गोत्रम् ।२। लोकपूजितेषु कलेषु प्रथितमाहात्म्येषु इक्ष्वाकूप्रकुरुहरिज्ञातिप्रभृतिषु जन्म यस्योदयाद्भवति तदुच्चैर्गोत्रमवसेयम् ।
गर्हितेषु यत्कृतं तन्नीचैर्गोत्रम् ॥३। गर्हितेषु दरिद्राप्रतिज्ञातदुःखाकुलेषु यत्कृतं प्राणिनां जन्म तन्नीचैर्गोत्रं प्रत्येतव्यम् ।
आह- व्याख्यातौ गोत्रभेदौ, तदनन्तरमुद्दिष्टस्यान्तरायस्य किमाख्याः प्रकारा इति ? अत्रोच्यते
दानलाभभोगोपभोगवीर्याणाम् ॥ १३ ॥ ३०. दानादीनामन्तरायापेक्षयाऽर्थव्यतिरेकनिर्देशः ।१। अन्तराय इति वर्तते तदपेक्षया दानादीनामर्थव्यतिरेकः क्रियते दानस्यान्तरायो लाभस्यान्तराय इत्यादि।
दानादिपरिणामव्याघातहेतुत्वात् तदव्यपदेशः । यददयाहातकामो न प्रयच्छति. सधुकामोऽपि न लभ्यते, भोक्तुमिच्छन्नपि न भुङ्क्ते, उपभोक्तुमिच्छन्नपि नोपभुङ्क्ते, उत्सहितुकामोऽपि प्रोत्सहते । त एते पश्चान्तरायव्यपदेशा वेदिव्याः।.
-भावात् ता०। २ पृथग्ग्रहणम् ब०, मु०, द०। ३ अन्यत्वाच्च श्र०, ता०। प्रत्यासा. ..विशिष्टस्य ता० । ५हवाकुयदुकुरुहरिजाति-मु०, १०। ६ भिमाधिकरण ।