________________
[८६
५७४
तत्त्वार्थवार्तिके तत्र दर्शनमोहनीयं त्रिभेदं सम्यक्त्वमिथ्यात्वतदुभयानीति ।। तत्र दर्शनमोहनीयं त्रिभेदमवगन्तव्यम् । कुतः ? सम्यक्त्वमिथ्यात्वतदुभयानि इति । तद्वन्धं प्रत्येकं भूत्वा सत्कर्मापेक्षया त्रैविध्यमास्कन्दति । तत्र यस्योदयात् सर्वज्ञप्रणीतमार्गपराङ्मुखः तत्त्वार्थश्रद्धाननिरुत्सुको हिताहितविभागाऽसमर्थो मिथ्यादृष्टिर्भवति तन्मिथ्यात्वम् । तदेव' सम्यक्त्वम् , शुभपरिणामनि५ रुद्धस्वरसं यदौदासीन्येनावस्थितमात्मानं श्रद्दधानं न निरुणद्धि । तद्वदयमानः पुरुषः सम्यग्दृष्टिरित्यभिधीयते । तदेव मिथ्यात्वं प्रक्षालनविशेषात् क्षीणाक्षीणमदशक्तिकोद्रववत् सामिशुद्धस्वरसं तदुभयमित्याख्यायते, सम्यमिथ्यात्वमिति यावत् । यस्योदयादात्मनः अर्धशुद्धमदकोद्रवौदनोपयोगापादितमिश्रपरिणामवदुभयात्मको भवति परिणामः ।
चारित्रमोहनीयं द्वेधा कषायाकषायभेदात् ।३। चारित्रमोहनीयं द्वधा विभज्यते । कुतः ? अकषायकषायभेदात् । कषायप्रतिषेधप्रसङ्ग इति चेत् ;न; ईषदर्थत्वात् नत्रः। यथा 'अलोमिका एलका' इति, नास्याः कच्छपवल्लोमाभावः किन्तु छेदयोग्यलोमाभावेऽपि ईषत्प्रतिषेधादलोमिकेत्युच्यते, तथा नेमे कषाया अकषायाः हास्यादय इति, नैषां सर्वथैवाऽकषायत्वं किन्तु परोपष्टम्भात् श्ववत्प्रवृत्तेरीषत्प्रतिषेधः । यथा श्वा स्वाम्युपष्टम्भात् प्रवृद्धबलः सत्त्वजिघांसां प्रति वर्तते स्वामि
निवर्तनाच्च निवर्तते, तथा क्रोधादिकषायावष्टम्भात् ईषत्प्रतिषेधे सति हास्यादीनां प्रवृत्तः, क्रोधा१५ द्यप्रवृत्तौ च निवृत्तेरकषायत्वम् । कथमीषत्प्रतिषेधगतिरिति चेत् ? व्याख्यानतः ।
_अकषायवेदनीयं नवविधं हास्यादिभेदात् ।। अकषायवेदनीयं नवविधम् । कुतः? हास्यादिभेदात् । तत्र यस्योदयात् हास्याविर्भावस्तद्धास्यम् । यदुदयाद्देशादिष्वौत्सुक्यं सा रतिः । अरतिस्तद्विपरीता । यद्विपाकः शोचनं स शोकः । यदुदयादुद्वेगः तद्भयं सप्तविधम् । कुत्साप्रकारो
जुगुप्सा । यद्येवं कुत्साग्रहणमेवास्तु लघुत्वात् ; न; अर्थविशेषोपपत्तेः। आत्मीयदोषसंवरणं २० जुगुप्सा, परकीयकुलशी लादिदोषाविष्करणावक्षेपण भर्त्सनप्रवणा कुत्सा। यस्योदयात् स्त्रैणान्
भावान् मार्दवास्फुटत्वक्लैव्यमदनावेशनेत्रविभ्रमास्फालनसुखपुस्कामनादीन् प्रतिपद्यते स स्त्रीवेदः । तस्योद्भूतवृत्तित्वमितरयोः पुनपुंसकयोः सत्कर्मद्रव्यावस्थानान्न्यग्भावः । ननु लोके प्रतीतं योनिमृदुस्तनादि(पृथुस्तनादि)स्त्रीवेदलिङ्गम् ; न; तस्य नामकर्मोदयनिमित्तत्वात् , 'अतः पुंसोऽपि
स्त्रीवेदोदयः । कदाचिद्योषितोऽपि पुंवेदोदयोऽप्याभ्यन्तरविशेषात् । शरीराकारस्तु नामकर्म२५ निर्वर्तितः। एतेनेतरौ व्याख्यातौ । यस्योदयात् पौंस्नान भावानास्कन्दति स पुंवेदः । यत्कर्मोदयात् नपुंसकान् भावापव्रजति स नपुंसकवेदः।
कषायवेदनीयं षोडशविधं अनन्तानुबन्ध्यादिविकल्पात् ।। कषायवेदनीयं षोडशविधं द्रष्टव्यम् । कुतः ? अनन्तानुबन्ध्यादिविकल्पात् । तद्यथा कषायाः क्रोधमानमायालोमाः । स्वपरो
पघातनिरनुग्रहाहितक्रौर्यपरिणामोऽमषः क्रोधः। स च चतुःप्रकार:-पर्वत-पृथ्वी-वालुका-उदकरा३० जितुल्यः । जात्याद्यत्सेकावष्टम्भात् पराप्रणतिर्मानः शैलस्तम्भा-ऽस्थि-दारु-लतासमानश्चतुर्विधः ।
परातिसन्धानतयोपहितकौटिल्यप्रायः प्रणिधिर्माया प्रत्यासन्नवंशपर्वोपचितमूल-मेषशृङ्ग-गोमूत्रिकाऽवलेखनीसदृशी चतुर्विधा । अनुग्रहप्रवणद्रव्याद्यभिकाङ्क्षावेशो लोभः कृमिराग-कज्जल-कर्दम्हरिद्रारागसदृशश्चतुर्विधः । तेषां क्रोधमानमायालोभानां चतस्रोऽवस्थाः अनन्तानुबन्धिनः अप्रत्याख्यानावरणाः प्रत्याख्यानावरणाः सज्वलनाश्चेति । अनन्तसंसारकारणत्वान्मिथ्यादर्शनमनन्तम्
मिथ्यात्वद्रव्यम् । २-कांडका मु०।-काण्डलका-द०, ब० । मेषी इत्यर्थः। ३-पभ-मु०, ब० । ४-कामादीन् मु०, ब०। ५ श्र० प्रतौ 'इतरयोः' इति पदस्य टिप्पणभूतं 'पुनपुसकयोः' इति पदम् । ६ अन्तः पुसो-श्र०, ता० । ७-न् प्रव्रज-मु०, द०, ब०। ८ स चतुः-मू०, मु०, द०, २० । १-वालिको-ता०, द०, मू० ।