________________
१०
८८-६]
अष्टमोऽध्यायः निद्रादीनामभेदेनाभिसंबन्धो(बन्ध)विरोध इति चेत् ;न; विवक्षातः संबन्धात् ।११॥ स्यादेतत्-चक्षुरादीनां भेदनिर्देशः निद्रादीनामभेदनिर्देशः एकमेव दर्शनावरणमपेक्ष्य क्रियमाणो विरुद्ध इति; तन्न; किं कारणम् ? विवक्षातः संबन्धात् । विवक्षावशाद्धि भेदेनाभेदेन च संबन्धो न विरुध्यते।
अथ चक्षुरादिदर्शनावरणोदयात् आत्मा किमवस्थो भवति ? अत्रोच्यते
चचुरचक्षुर्दर्शनावरणोदयात् चक्षुरादीन्द्रियालोचनविकलः ।१२। चक्षुर्दर्शनावरणस्याचखुर्दर्शनावरणस्य चोदयात् आत्मा चक्षुरादीन्द्रियलोचनविकलो भवति एकेन्द्रियभावेन विकलेन्द्रियभावेन च, पञ्चेन्द्रियत्वेऽप्युपहतेन्द्रियालोचनसामर्थ्यश्च भवति ।
अवधिदर्शनावरणोदयादवधिदर्शनविप्रमुक्तः ।१३। अवधिदर्शनावरणोदयाद् व्यपेतावधिदर्शनः संपद्यते।
केवलदर्शनावरणोदयादनाविर्भूतकेवलदर्शनः ।१४। केवलदर्शनावरणस्य कर्मण उदयात् अनाविर्भूतकेवलदर्शनः अप्रत्यवसितसंसारोऽवतिष्ठते ।।
निद्रा-निद्रानिद्रोदयात्तमोमहातमोऽवस्था ।१५निद्राया उदयात् तमोऽवस्था निद्रा निद्राया उदयात् महातमोऽवस्था संजायते ।
प्रचला-प्रचलाप्रचलोदयाच्चलनातिचलनभावः ।१६। प्रचलोदयादासीनो घूर्णमानश्चल- १५ अयनगात्रः पश्यन्नपि न पश्यति । प्रचलाप्रचलोदयादासीनोऽतिघूर्णमानः खन्यमानमपि शरनाराचादिभिः शिरोऽजप्रत्यङ्गादि यत्किञ्चिन्न पश्यति । आह-यत्तत्कर्म तृतीयगणनामवाप्तं तस्योत्तरप्रकृतिविकल्पो न निर्शात इति ? अत्रोच्यते
सदसद्ध द्य ॥८॥ यस्योदयादेवादिगतिषु शारीरमानससुखप्राप्तिस्तत्सद्वेद्यम् ।। देवादिषु गतिषु बहुप्रका- २० रजातिविशिष्टासु यस्योदयात् अनुगृहीत(४)द्रव्यसंबन्धापेक्षात् प्राणिनां शारीरमानसानेकविधसुखपरिणामस्तत्सद्वद्यम् । प्रशस्तं वेद्यं सद्वद्यम् ।
यत्फलं दुःखमनेकविधं तदसद्यिम् ।२। नारकादिषु गतिषु नानाप्रकारजातिविशेषावकीर्णासु कायिकंबहुविधं मानसं वाऽतिदुःसहं जन्मजरामरणप्रियविप्रयोगाऽप्रियसंयोगव्याधिवधबन्धादिजनितं दुःखं यस्य फलं प्राणिनां तदसद्वद्यम् । अप्रशस्तं वेद्यम् असद्वद्यम् ।।
२५ आहव्याख्यातो वेदनीयस्य प्रकृतिबन्धः । अथ खलु मोहनीयस्याष्टाविंशतिप्रभेदस्य किमाख्याः प्रकारा इति ? अत्र ब्रूमःदर्शनचारित्रमोहनीयाऽकषायकषायवेदनीयाख्यास्त्रिविनवषोडशभेदाः
सम्यवत्वमिथ्यात्वतदुभयान्यकषायकषायो हास्यरत्यरतिशोकभयजुगुप्सास्त्री(नपुंसकवेदाः अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसव- ३०
सनविकल्पाश्चैकशः क्रोधमानमायालोभाः ॥९॥ दर्शनादिभित्रिद्विनवषोडशभेदानां यथासंख्येन संबन्धः ।। दर्शनादयश्चत्वारः त्र्यादयोऽपि, तेषां यथासंख्येन संबन्धो भवति-दर्शनमोहनीयं 'त्रिभेदम् , चारित्रमोहनीयं द्विभेदम , अकरायवेदनीयं नवविधम् , कषायवेदनीयं षोडशविधमिति ।
त्रिविषं मु०, द०,०।