________________
५७२
तत्वार्थवार्तिके
चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचला
प्रचलाप्रचला स्त्यानगृद्धयश्च ॥ ७ ॥
चक्षुरादीनां दर्शनावरणसंबन्धात् भेदनिर्देशः ॥१। चक्षुश्चाचक्षुश्वावधिश्व केवलं च चक्षुरचक्षुरवधिकेवलानि तेषां चतुरचतुरवधिकेवलानम् दर्शनावरणानीति भेदनिर्देशः दर्शनावरणसं५ बन्धाद्वेदितव्यः ।
२०
[ ८७
१५ प्रचलेत्युच्यते ।
मदखेद क्लमविनोदार्थः स्वापो निद्रा |२| मदखेदक्लमानां विनोदाय यः स्वापः स निद्रा इत्युच्यते । कथम् ? निपूर्वस्य द्रातेः कुत्सा क्रियस्याङि निद्राशब्दनिष्पत्तिः । यत्सन्निधानादात्मा निद्रायते कुत्स्यते सा निद्रा । द्रायतेर्वा स्वप्नक्रियस्य निद्रा ।
उपर्युपरि तद्वृत्तिर्निद्रानिद्रा | ३| तस्या निद्राया उपर्युपरि पुनः पुनर्वृत्तिः निद्रानिद्रा १० इत्युच्यते ।
प्रचलयत्यात्मानमिति प्रचला |४| या क्रिया आत्मानं प्रचलयति सा प्रचलेत्युच्यते, पचादिलक्षणे अचि । सा पुनः शोकश्रममदादिप्रभवा । विनिवृत्तेन्द्रियव्यापारस्यान्तःप्रीतिलवमात्रहेतु: आसीनस्यापि नेत्रगात्रक्रियासूचिता ।
पौनःपुन्येन सैवाहितावृत्तिः प्रचलाप्रचला |५| सैव प्रचला पुनः पुनरावर्तमाना प्रचला
स्वप्ने यया वीर्यविशेषाविर्भावः सा स्त्यानगृद्धिः | ६ | यत्सन्निधानाद्रौद्रकर्मकरणं बहुकर्मकरणं च भवति सा स्त्यानगृद्धिः । कथम् ? स्त्यायतेरनेकार्थत्वात् स्वप्नार्थ इह गृह्यते । गृधेरपि दीप्तिः। स्त्याने स्वप्ने गृध्यति दीप्यते यदुदयादात्मा रौद्रं बहु च कर्म करोति सा स्त्यानगुद्धिः ।
नानाधिकरणाभावात् वीप्सानुपपत्तिरिति चेत्; न; कालादिभेदतस्तद्भे दसिद्धेः || स्यान्मतम् - नानाधिकरणविषया वीप्सा, न चेह नानाधिकरणत्वमस्ति एकात्मगोचरत्वात्, ततो वीप्साऽभावात् असति द्वित्वे निद्रानिद्राप्रचलाप्रचलेति निर्देशो नोपपद्यत इति; तन्न; किं कारणम् ? कालादिभेदात् तद्भेदसिद्धेः । इह एकस्यापि वस्तुनः कालकृताद् गुणभेदाद् भेदो दृश्यते-पंटुर्भवान रुदासीत् पटुतर ऐषम इति । तथा देशकृतादपि - मथुरायां दृष्टः, पुनः पाटलिपुत्रे दृश्यमान २५ उच्यते-अन्योऽत्र त्वमसि संपन्न इति । एवमिहापि कालादिभेदात् भेदोपपत्तेः वीप्सा युज्यते ।
आभीक्ष्ण्ये वा द्वित्वप्रसिद्धिः | ८ | अथवा मुहुर्मुहुर्वृत्तिराभीक्ष्ण्यं तस्य विवक्षायां द्वित्वं भवति यथा गेहमनुप्रवेशमनुप्रवेशमास्त इति ।
निद्रादिकर्म सद्योदयात् निद्रादिपरिणामसिद्धि || निद्रादिकर्मणः सद्वेद्यस्य चोदयात् निद्रादिपरिणामसिद्धिर्भवति । तत्र हि शोकक्लमादिविगमदर्शनात् सद्वद्योदयः स्फुटोऽवगन्तव्यः, ३० असद्वेद्यस्य च मन्दोदयः ।
निद्रादीनामभेदेनाभिसंबन्धः |१०| निद्रा च निद्रानिद्रा च प्रचला च प्रचलाप्रचला च स्त्यानगृद्धिश्च निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धयः । अनुवर्तमानेन दर्शनावरणेनाभेदेनाभिसंबन्धः क्रियते ।
१ पटुर्भवान् पटुरासीत् पटुतर एव स मु० द०, ब० । २ गतवर्षे - स० । परापरायैषमो वर्षे । ३ अस्मिन् वर्षे - स० । ४ गेहमनुप्रवेशमास्त इति मु०, द० ।