________________
अष्टमोऽध्यायः झानावरणस्योत्तरप्रकृतयः इत्युक्तम् , मत्यादीनि च ज्ञानानि पञ्चोक्तानि ततो वचनात् पञ्चसंख्यासंप्रत्यय इति; तन्नः किं कारणम् ? प्रत्येकं पञ्चत्वप्रसङ्गात् । [बहु] वचनात् मत्यादीनां प्रत्येक पश्चावरणानीत्यनिष्टं प्रसज्येत । प्रतिपदग्रहणे पुनः सति सामर्थ्यादिष्टार्थसंप्रत्ययः शक्यते कर्तुम् । अत्र कश्चिदाह
मत्यादीनां सत्त्वासत्त्वयोरावृत्यभावः।४। इदमिह संप्रधार्यम्-सतां मत्यादीनां कर्म आव- ५ रणं भवेत् , असतां वेति ? किश्चातः यदि सताम् ; परिप्राप्तात्मलाभत्वात् सत्त्वादेव आवृतिर्नोपपद्यते । अथाऽसताम् । नन्वावरणाभावः । नहि खरविषाणवदसदाब्रियते ।
न वा; आदेशवचनात् ।। न वैष दोषः। किं कारणम् ? आदेशवचनात् । कथश्चित् सतामावरणं कथश्चिदसताम् । द्रव्यार्थादेशेन सतां मत्यादीनामावरणम् , पर्यायार्थादेशेनाऽसताम् । यद्यकान्तेन सतामावरणं क्षायोपशमिकत्वमेषां न स्यात् । अथैकान्तेनाऽसताम् ; एवमपि क्षायोप- १० शमिकत्वं नोपपद्यते असत्त्वात् । सतश्चावरणदर्शनात् ।'सतो हि नभसः मेघपटलादिना आवरणं दृश्यते, तथा सतां मत्यादीनामावरणमिति को विरोधः?
अर्थान्तराभावाच्च प्रत्याख्यानावरणवत् ।६। यथा न 'कुटीभूतं प्रत्याख्यानं नाम कश्चित् पर्यायोऽस्ति यस्यावरणात् प्रत्याख्यानावरणत्वं भवेत् किन्तु प्रत्याख्यानावरणसान्निध्यात् आत्मा प्रत्याख्यानपर्यायेण नोत्पद्यत इत्यतः प्रत्याख्यानावरणस्य आवरणत्वम् , तथा न कुटीभूतानि १५ मत्यादीनि कानिचित् सन्ति येषामावरणात् मत्याद्यावरणानाम् आवरणत्वं भवेत् किन्तु मत्याद्यावरणसन्निधाने आत्मा मत्यादिज्ञानपर्यायै!त्पद्यते इत्यतो मत्याद्यावरणानाम् आवरणत्वम् । अपर आह
अभव्यस्योत्तरावरणद्वयानुपपत्तिस्तदभावात् ।७। इदमिह संप्रधार्यम्-मनःपर्ययज्ञानगमनशक्तिः केवलप्राप्तिसामर्थ्य चाऽभव्यस्य स्याद्वा, न वेति ? यदि स्यात् । तस्याऽभव्यत्वानुपपत्तिः। २० अथ नास्ति; तदुभयसामर्थ्याभावात् तदावरणकल्पना व्यर्थेति उत्तरस्यावरणद्वयस्य नोपपत्तिः ?
नवा, उक्तत्वात् ।। नवैष दोषः । किं कारणम् ? उक्तत्वात् । उक्तमेतत्-'आदेशवचनात्' इति । दुव्यार्थादेशेन सतोमनःपययकेवलज्ञानयोरावरणम्, पर्यायार्थादेशेनाऽसतोः । अपि चोक्तम'अर्थान्तराभावाच्च प्रत्याख्यानावरणवत्' इति । यदि द्रव्यार्थादेशेन मनःपर्ययज्ञानं केवलज्ञानं चास्त्यभव्यस्य; भव्यत्वमस्य प्राप्नोति । न सम्यग्दर्शनज्ञानचारित्रशक्तिभावाभावाभ्यां भव्याभव्य- २५ त्वं कल्प्यते । कथं तर्हि ?
सम्यक्त्वादिव्यक्तिभावाऽभावाभ्यां भव्याऽभव्यत्वमिति विकल्पः कनकेतरपाषाणवत्।। यथा कनकभावव्यक्तियोगमवाप्स्यति इति कनकपाषाण इत्युच्यते तदभावादन्धपाषाण इति तथा सम्यक्त्वादिपर्यायव्यक्तियोगार्हो यः स भव्य तद्विपरीतोऽभव्यः इति चोच्यते ।
झानावरणादशोऽतिदुःखितः ।१०। ज्ञानावरणोदयेनोपरतज्ञानसामर्थ्यः लुप्तस्मृतिधर्मश्रवण- ३० निरुत्सुकः अज्ञानावमानकृतं च बहुदुःखमनुभवति ।
___ आह-उक्तो ज्ञानावरणोत्तरप्रकृतिविकल्पः । इदानी दर्शनावरणस्य वक्तव्य इति । अत आह
१ सतोपि न-ता०, श्र०। २ प्रत्यक्षीभूतम् । ३ का ज्ञाना-मु०,६०, ब०, मू०। १६