________________
तत्त्वार्थवार्तिक
.. [८।५-६ तदनन्तरं नामवचनं तदुदयापेक्षत्वात् प्रायो नामोदयस्य ।२१। तदनन्तरं नामवचनं क्रियते । कुतः ? तदुदयापेक्षत्वात् प्रायो नामोदयस्य । आयुरुदयापेक्षो हि प्रायेण गत्याद्युदयो लक्ष्यते ।
ततो गोत्रवचनं प्राप्तशरीरादिलाभस्य संशब्दनाभिव्यक्तेः ।२२। परिप्राप्तशरीरादिलाभस्य हि पुंसः गोत्रोदयनिमित्तं शुभाशुभं संशब्दनमभिव्यज्यते, ततो नाम्नोऽनन्तरं गोत्राभिधानं क्रियते ।
परिशेषादन्ते अन्तरायवचनम् ।२३॥ अन्यस्याभावात् परिशेषात् अन्ते अन्तरायवचनं क्रियते ।
__ आह-उक्तो मूलप्रकृतिबन्धोऽष्टविधः । अथ द्वितीयः पुनरुत्तरप्रकृतिबन्धः कतिविध इति ? १० अत्रोच्यते
पञ्चनवद्वयष्टाविंशतिचतुर्द्विचत्वारिंशद्विपञ्चभेदो यथाक्रमम् ॥५॥
पश्चादीनां पञ्चान्तानां द्वन्द्वपूर्घोऽन्यपदार्थनिर्देशः ।। पञ्च च नव च द्वौ च अष्टाविंशतिश्च चत्वारश्च द्विचत्वारिंशश्च द्वौ च पञ्च च पञ्चनवद्वयष्टाविंशतिचतुर्द्विचत्वारिंशदद्विपञ्च, ते
भेदा यस्य स भवति पश्चनवद्वयष्टाविंशतिचतुर्द्विचत्वारिंशद्विपञ्चभेदः, इति द्वन्द्वगर्भोऽन्यप१५ दार्थनिर्देशो वेदितव्यः ।
द्वितीयग्रहणमिति चेत् ; न; परिशेषारिसद्धेः ।। स्यादेतत्-द्वितीयग्रहणं कर्तव्यं द्वितीय उत्तर प्रकृतिबन्धः एवंभेद इति संप्रत्ययः कथं स्यात् इति ? तन्नः किं कारणम् ? परिशेषात् सिद्धेः । आद्यो मूलप्रकृतिबन्धो व्याख्यातः, ततः परिशेषात् उत्तरप्रकृतिबन्धसंप्रत्ययः सिद्धयति ।
भेदशब्दः प्रत्येकं परिसमाप्यते ।३। अयं भेदशब्दः प्रत्येकं परिसमाप्यते पञ्चभेदो नवभेद २० इत्यादि।
यथाक्रमं यथानुपूर्वम् ।४। यो यः क्रमः यथाक्रमं यथानुपूर्वमित्यर्थः । पञ्चविधं ज्ञानावरणम् , नवविधं दर्शनावरणमित्यादि । यद्येवमाद्यमावरणं केषां पञ्चानामिति ? अत्रोच्यते
मतिश्रुतावधिमनःपर्ययकेवलानाम् ॥ ६ ॥ मत्यादीन्युक्तलक्षणानि ।।। मत्यादीनि ज्ञानानि उक्तलक्षणानि वेदिव्यानि । क? ___ आद्येऽध्याये।
मत्यादीनामिति पाठो लघुत्वादिति चेत् । न प्रत्येकमभिसंबन्धार्थत्वात् ।। स्यान्मतम्मत्यादीनि ज्ञानानि उक्तानि, तेपामिहादिशब्दोपलक्षितानां पाठो युक्तो लघुत्वादिति; तन्न; किं
कारणम? प्रत्येकमभिसंबन्धार्थत्वात् । प्रत्येकमभिसम्बन्धार्थ इह प्रतिपदं पाठः क्रियते-मते३० रावरणं श्रुतस्यावरणमित्यादि । इतरथा हि मत्यादीनामित्युच्यमाने तेषामेकमावरणमिति संप्रत्ययः स्यात् ।
'वचनात् पञ्चसंख्याप्रतीतिरिति चेत् ; न; प्रत्येकं पञ्चत्वप्रसङ्गात् ।३। स्यादेतत्-पञ्च
बहुवचनात् ।