________________
अष्टमोऽध्यायः
पराभिप्रायेणेन्द्रियाणां भिन्नजातीयानां क्षीराद्युपयोगे' वृद्धिवत् ।१२। पराभिप्रायेणेदमुच्यते-यथा पृथिव्यप्तेजोवायुभिरारब्धानामिन्द्रियाणां भिन्नजातोयानां क्षीरघृतादिष्वेकमप्युपयुज्यमानम् अनुग्राहकं दृष्टं तथेदमपि इति ।
वृद्धिरेकैवेति चेत् । न प्रतीन्द्रियं वृद्धिभेदात् ।१३। स्यादेतत्-वृद्धिरेकैव, तस्या घृताद्यनुग्राहकमिति न विरोध इति; तन्नः किं कारणम् ? प्रतीन्द्रियं वृद्धिभेदात् । यथैवेन्द्रियाणि भिन्नानि ५ तथैवेन्द्रियवृद्धयोऽपि भिन्नाः ।
तथैवातुल्यजातीयेनानुग्रहसिद्धिः ॥१४॥ यथा भिन्नजातीयेन क्षीरेण तेजोजातीयस्य चक्षुषोऽनुग्रहः, तथैव आत्मकर्मणोश्चेतनाऽचेतनत्वात् अतुल्यजातीयं कर्म आत्मनोऽनुग्राहकमिति सिद्धम् । किमेतावानेव संख्याविकल्पः ? नेत्युच्यते
एकादिसंख्येयविकल्पाःच शब्दतः ।१५। एकादयः संख्येया विकल्पा भवन्ति-शब्दतः । तत्रैक १० स्तावत् सामान्यादे (देकः)कर्मबन्धः विशेषाणामविवक्षितत्वात् , सेनावनवत्। यथा सैनिकानां तुरगादीनां भेदानामविवक्षायां समुदायादेशात् एका सेना, यथा वा अशोकतिलकवकुलादीनां भेदेनाविवक्षायां सामान्यादेशात् एकं वनम् । स एव पुण्यपापभेदाद् द्विविधः, यथा स्वामिभृत्यादेशात् द्विविधा सेना । त्रिविधो बन्धः-अनादिः सान्तः, अनादिरनन्तः, सादिः सान्तश्चेति, भुजाकाराऽल्पतरावस्थितभेदाद्वा । प्रकृतिस्थित्यनुभवप्रदेशाच्चतुर्विधः। द्रव्यक्षेत्रकालभवभावनिमित्तभेदात् पञ्च- १५ विधः। षड्जीवनिकायविकल्पात् षोढा व्यपदिश्यते । रागद्वेषमोहक्रोधमानमायालोभहेतुभेदात् सप्ततयीं वृत्तिमनुभवति । ज्ञानावरणादिविकल्पादष्टधा। एवं संख्येया विकल्पाः शब्दतो योज्याः। चशब्देनाध्यवसायस्थानविकल्पात् असंख्येयाः । अनन्तानन्तप्रदेशस्कन्धपरिणामविधिरनन्तः, झानावरणाद्यनुभवाविभागपरिच्छेदापेक्षया वा अनन्तः।।
क्रमप्रयोजनं शानेनात्मनोऽधिगमात् ।१६। क्रमप्रयोजनमिदानी वक्तव्यम् ? तदुच्यते- २० ज्ञानावरणं सर्वेषामादावुक्तम् । कुतः ? ज्ञानेनात्मनोऽधिगमात् । ज्ञानं हि स्वाधिगमनिमित्तत्वात् प्रधानम् ।
ततो दर्शनावरणमनाकारोपलब्धेः ।१७। ततः पश्चात् दर्शनावरणमुच्यते । कुतः ? अनाकारोपलब्धेः। साकारोपयोगाद्धि अनाकारोपयोगो' निकृष्यते अनभिव्यक्तग्रहणात् । 'उत्तरेभ्यः स्तु प्रकृष्यते अपिलब्धितन्त्रत्वात् ।
२५ तदनन्तरं वेदनावचनं तव्यभिचारात् ।१८। तदनन्तरं वेदना उच्यते । कुतः ? तदव्यव्यभिचारात् । ज्ञानदर्शनाऽव्यभिचारिणी हि वेदना घटादिष्वप्रवृत्तेः।
ततो मोहाभिधानं तद्विरोधात् ।१९। ततः पश्चात् मोहोऽभिधीयते । कुतः ? तद्विरोधात् , तेषां ज्ञानदर्शनसुखदुःखानां विरोधात् । मूढो हि न जानाति न पश्यति न च सुखदुःखं वेदयते । ननु च मूढानामपि सुखदुःखज्ञानदर्शनानि उपलभ्यन्ते, यदि हि विरोधः स्यात् सुखदुःखज्ञानदर्श- ३० नानि मिथ्यादृष्टयसंयतानां न स्युः नैष दोषः कचिद्विरोधदर्शनात् 'विरोधात्' इत्युच्यते न सर्वत्र । मोहाभिभूतस्य हि कस्यचित् हिताहितविवेकादिर्नास्ति ।। - आयुर्वचनं तत्समीपे तन्निबन्धनत्वात्।२०। तत्समीपे आयुर्वचनं क्रियते। कुतः ? तन्निबन्धनत्वात् । आयुर्निबन्धनानि हि प्राणिनां सुखादीनि ।
-युपभोगे मु०, ६० । २ समानः क-ता०, श्र० । समादानकर्म-भु०, ८०, मू०, ब० । ३ निकृष्टोऽनभि-मु०, २० । घेदनादिभ्यः ।