________________
५६८ तस्वार्थवार्तिके
[८४ अनः कथं कर्तरि ? बहुलापेक्षया । वेद्यत इति वेदनीयम् कर्मण्यनीयः । मोहयति मुद्यतेऽनेनेति वा मोहः । कथं ज्ञानावरणीयं दर्शनावरणीयं मोहनीयमिति ? बहुलापेक्षया कर्तर्यनीयः । एत्यनेन गच्छति नारकादिभवमित्यायुः, “जनेरुसिः" [उणादि०] इति प्रकृते', "एतेर्णिच" [उणादि०] इत्युसिः ।
नमयत्यामानं नारकादिभावेन नम्यतेऽनेनेति नाम, उणादिषु निपातितशब्दः । उच्चैर्नीचैश्च गूयते ५ शब्द्यतेऽनेनेति गोत्रम् । अन्तरं मध्यं दातृदेयादीनामन्तरं मध्यमेति ईयते वाऽनेनेत्यन्तरायः । बहि
र्योगे वा, यस्मिन् मध्येऽवस्थिते दात्रादीनां दानादिक्रियाऽभावः, दानादीच्छाया बहिर्भावो वा सोऽन्तरायः।
प्रयोगपरिणामादागच्छदेवाऽविशिष्टं कर्माऽऽवरणादिविशेवैर्विभज्यते अन्नादेर्वातादिविकारवत् ।३। यथा अन्नादेरभ्यवह्रियमाणस्यानेकविकारसमर्थवातपित्तश्लेष्मखलरसभावेन परि१० णामविभागः तथा प्रयोगापेक्षया अनन्तरमेव कर्माणि आवरणाऽनुभवन-मोहापादन-भवधारणनानाजातिनाम-गोत्र-व्यवच्छेदकरणसामर्थ्यवैश्वरूप्येण आत्मनि सन्निधानं प्रतिपद्यन्ते ।
शानावरणमेव मोह इति चेत् ; न; अर्थान्तरभावात् ।४। स्यादेतत्-सति मोहे हिताहितपरीक्षणाभावात् ज्ञानावरणादविशेषो मोहस्येति; तन्न; किं कारणम् ? अर्थान्तरभावात् । याथात्म्य
मर्थस्यावगम्यापि इदमेवेति सद्भूतार्थाश्रद्धानं यतः स मोहः । ज्ञानावरणेन ज्ञानं तथाऽन्यथा वा' १५ न गृह्णाति ।
कार्यभेदे च कारणान्यत्वात् ।। यथा भिन्नलक्षणाङ्करदर्शनात् बीजकारणान्यत्वं तथैवअज्ञानचारित्रमोहकार्यान्तरदर्शनात् ज्ञानावरणमोहनीयकारणभेदोऽध्यवसीयते ।
शानदर्शनयोरन्यत्वं प्रत्युक्तम् ।६। ज्ञानदर्शनयोरन्यत्वं पुरस्ताद्विहितम् । अतः किम् ? ज्ञानदर्शनकार्यान्यत्वात् यत्क्षयक्षयोपशमकारणे ज्ञानदर्शने तयोरपि ज्ञानदर्शनावरणयोर२० न्यत्वं सिद्धम् ।
ज्ञानावरणस्याविशेषेऽपि प्रत्यास्रवं मत्यादिविशेषो जलवत् ।७। यथा अम्भो नभसः पतदेकरसं भाजनविशेषात् विष्वगरसत्वेन विपरिणमते तथा ज्ञानशक्त्युपरोधस्वभावाऽविशेषात् उपनिपतत् कर्म प्रत्यास्रवं सामर्थ्यभेदात् मत्याद्यावरणभेदेन व्यवतिष्ठते ।
एतेनेतराणि व्याख्यातानि ।। इतराणि दर्शनावरणादीनि मूलोत्तरप्रकृतिविकल्पवन्ति २५ उक्तेनैव क्रमेण व्याख्यातानि भवन्ति । अत्र चोद्यते
पुद्गलद्रव्यस्यैकस्यावरणसुखदुःखादिनिमित्तत्वानुपपत्तिर्विरोधात् ।। एकस्य पुद्गलद्रव्यस्य आवरणसुखदुःखादिनिमित्तत्वं नोपपद्यते । कुतः ? विरोधात् ।
न वा, तत्स्वाभाव्यादग्नेहपाकप्रतापप्रकाशसामर्थ्यवत् ।१०। न वैष दोषः । किं कारणम् ? तत्स्वाभाव्यात् । यथा अग्नेरेकस्यापि दाहपाकप्रकाशसामर्थ्य न विरुध्यते, तथैकस्यापि पुद्गलद्रव्य३० स्य आवरणसुखदुःखादिनिमित्तत्वं न विरुध्यते । किञ्च,
अनैकान्तिकत्वात् ।११। एकानेकलक्षणत्वात् द्रव्यस्य स्यादनेकत्वं स्यादेकत्वम् । द्रव्यार्थादेशात् स्यादेकं पुद्गलद्रव्यम् । अनेकपरमाणुस्निग्धरुक्षबन्धापादितानेकात्मकस्कन्धपयोयार्थादेशात् स्यादनेकम् । ततश्च नास्ति विरोधः।
१ अनुवर्तमाने । “जनेरुसिः"-उणादिवृ० २।११६ । “एतेर्णिच"-उणादिवृ० २।।२०। २ सद्भुतमसद्भुतम् । ३-था च गृ-ता०, श्र०, भा० १, भा०२, आ०, द०, ब०। ४ आवरणयोः। ५मत्यादीनामविशेषो मु०, द० । मत्यादीनां वि-भा०। ६ माना।