________________
८४]
भष्टमोऽध्यायः प्रकृतिः स्वभाव इत्यनन्तरम् ।४। यथा निम्बस्य का प्रकृतिः ? तिक्ततास्वभावः । गुडस्य का प्रकृतिः ? मधुरतास्वभावः । तथा ज्ञानावरणीयस्य का प्रकृतिः ? अर्थानवगमः । प्रकृतिः स्वभाव इत्यनर्थान्तरम् । एवं दर्शनावरणस्य अर्थानालोचनम् , वेद्यस्य सदसल्लक्षणस्य सुखदुःखसंवेदनम् , दर्शनमोहस्य तत्त्वार्थाश्रद्धानम् , चारित्रमोहस्य असंयमः परिणामः, आयुषो भवधारणम् , नाम्नो नारकादिनामकरणम् , गोत्रस्य उच्चैर्नीचैः स्थानसंशब्दनम् , अन्तरायस्य ५ दानादिविघ्नकरणम् । तदेवं लक्षणं कार्य प्रक्रियते प्रभवत्यस्या इति प्रकृतिः।
तत्स्वभावाप्रच्युतिः स्थितिः ॥५॥ तस्य स्वभावस्य अप्रच्युतिः स्थितिरित्युच्यते । यथा अजागोमहिष्यादिक्षीराणां माधुर्यस्वभावादप्रच्युतिः स्थितिः, तथा ज्ञानावरणादीनामर्थानवगमादिस्वभावादप्रच्युतिः स्थितिः ।
तद्रसविशेषोऽनुभवः ।६। यथा अजागोमहिष्यादिक्षीराणां तीव्रमन्दादिभावेन रसविशेषः १० तथा कर्मपुगलानां स्वगतसामर्थ्यविशेषोऽनुभव इति कथ्यते ।
इयत्ताऽवधारणं प्रदेशः ।७। कर्मभावपरिणतपुद्गलस्कन्धानां परमाणुपरिच्छेदेनावधारणं प्रदेश इति व्यपदिश्यते।
विधिशब्दः प्रकारवचनः ।। अयं विधिशब्दः प्रकारवचनो द्रष्टव्यः-विधयः प्रकारा इति यावत् । तस्य विधयस्तद्विधय बन्धप्रकारा इत्यर्थः। त एते प्रकृत्यादयश्चत्वारो बन्धप्रकाराः
तत्र योगनिमित्तौ प्रकृतिप्रदेशौ ।।। तेषु बन्धविकल्पेषु प्रकृतिबन्ध प्रदेशबन्ध इत्येतौ द्वौ योगनिमित्तौ वेदितव्यौ।
स्थित्यनुभवौ कषायहेतुकौ ।१०। स्थितिबन्धोऽनुभवबन्ध इत्येतौ द्वावपि कषायहेतुको प्रत्येतव्यौ । तत्प्रकर्षभेदात् तद्वन्धविचित्रभावः । कारणानुरूपं हि कार्यमिति ।।
आद्यो द्वेधा मूलोत्तर प्रकृतिभेदात् ।११। 'आद्यः प्रकृतिबन्धः द्वेधा विभज्यते । कुतः ? २० मूलोत्तरप्रकृतिभेदात् ।
यद्येवं कास्ता मूलप्रकृतय इति ? अत्रोच्यतेआद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाः ॥४॥
सामानाधिकरण्ये सति पूर्वोत्तरवचनविरोध इति चेत् ;न, उभयनयधर्मविपक्षासद्भावात् ।। स्यादेतत्-ज्ञानावरणादयोऽन्तरायान्ताः प्रकृतिबन्धो नान्य इति ज्ञानावरणादिभिः सामा- २५ नाधिकरण्यात् आद्यशब्दस्य बहुवचनप्रसङ्ग इति; तन्नः किं कारणम् ? उभयनयधर्मविवक्षासद्भावात् । द्रव्याथिकनयविपयस्य सामान्यस्य विवक्षातः प्रकृतिबन्ध एक इत्याद्यशब्दादेकवचनप्रयोगः। तस्य विशेपा ज्ञानावरणादयः पर्यायार्थिकनयविषयभूताः प्राधान्येन विवक्षिता इति तेभ्यो बहवचनप्रयोगः कृतः । दृश्यते हि लोके सत्यपि सामानाधिकरण्ये वचनभेदः, यथा प्रमाणं श्रोतारः, गावो धनमिति ।
यथासंभवं क दिसाधनत्वं ज्ञानावरणादिशब्दानाम् ।। ज्ञानावरणादयः शब्दाः कादिषु यथासंभवं साधयितव्याः। तद्यथा-आवृणोति आत्रियतेऽनेन वा इत्यावरणम् । आवरणशब्दःप्रत्येक परिसमाप्यते ज्ञानावरणं दर्शनावरणमिति । ननु “करणाधिकरणयोः" जैने. २३]
१ यः प्र- ता०, श्र० । २-योरनट् कथं मु०, ब० । "करणाधिकरणयोः [ जैनेन्द्र० २।३।१] इति सूत्रेण युटि तत्स्थाने अनादेशो भवति"-स।