________________
५६६ तत्त्वार्थवार्तिके
[८३ मूर्ति दिगादीनाममूर्तानां नानुप्राहकमुपघातकं च तथैवामूर्ति कर्माऽमूर्तरात्मनोऽनुग्रहोपघातयोहेतुन स्यात् । __ आदत्त इति प्रतिक्षातोपसंहारार्थम् ।। यत्प्रतिज्ञातं सकषायत्वाज् जीवो बन्धमनुभवति तस्योपसंहारार्थमिदमुच्यते आदत्त इति ।
अतस्तदुपश्लेषो बन्धः ।। अतो मिथ्यादर्शनाद्यावेशादार्दीकृतस्यात्मनः सर्वतो योगविशेषात् तेषां सूक्ष्मैकक्षेत्रावगाहिनाम् अनन्तप्रदेशानां पुद्गलानां कर्मभावयोग्यानामविभागोपश्लेषो बन्ध इत्याख्यायते।
तद्भावो मदिरापरिणामवत् ।। यथा भाजनविशेषे प्रक्षिप्तानां विविधरसबीजपुष्पफलानां मदिराभावेन परिणामः तथा पुद्गलानामपि आत्मनि स्थितानां योगकषायवशात् कर्मभावेन परि१० णामो वेदितव्यः।
_ 'स' वचममन्यनिवृत्त्यर्थम् ।१०। स एष बन्धो नान्योऽस्तीत्यन्यनिवृत्त्यर्थ 'स'वचनं क्रियते, तेन गुणगुणिबन्धो निवर्तितो भवति । यदि हि गुणगुणिबन्धः स्यात् मुक्त्यभावः प्रसज्येत, गुणस्वभावापरित्यागाद् गुणिनः, स्वभावपरित्यागे च गुणिनोऽप्यभाव इति मुक्ताभावः' ।
___ करणादिसाधनो बन्धशब्दः ।११। करणादिसाधनेष्वयं बन्धशब्दो द्रष्टव्यः । तत्र करणसा१५ धनस्तावत्-बध्यतेऽनेनात्मेति बन्धः । “हलः" [जैने० ३।१०२] इति करणे घञ् । कः पुनसौ ?
मिथ्यादर्शनादिः । ननु स बन्धहेतुरुक्तः कथं बन्धो भवितुमर्हति ? सत्यमेवमेतत् , अभिनवद्रव्यकर्मादाननिमित्तत्वाद् बन्धहेतुरपि सन् पूर्वोपात्तकर्महेतुकत्वात् कार्यतामास्कन्दन् तदनुविधानात् आत्मनोऽस्वतन्त्रीकरणत्वात् करणव्यपदेशमहतीति । तद्रञ्जनेन आत्मना आत्मसास्क्रियते
इति कर्मसाधनत्वमपि च युक्तिमत् । ज्ञानदर्शनाऽव्याबाधाऽनामाऽगोत्राऽनन्तरायत्वलक्षणं २० पुरुपसामथ्थ प्रतिबध्नाति बन्धः इति कर्तृसाधनत्वमपि चोपपत्तिमत् । एवं बन्धनं बन्ध इति
भावसाधनो वा अस्वतन्त्रीक्रियामात्रविवक्षायाम् । ननु भावसाधने सामानाधिकरणं(ण्यं)नोपपद्यते ज्ञानावरणं बन्ध इत्यादि नैष दोषः; तदव्यतिरेकात् भावस्य तद्वता सामानाधिकरण्यं भवतियथा ज्ञानमेवात्मेति । एवमितरसाधनयोजना च कर्तव्या ।
तस्योपचयापचयसद्भावः कर्माऽऽयव्ययदर्शनाद् व्रीहिकोष्ठागारवत् ॥१२॥ यथा कोष्ठागारे २५ ब्रीहीणामन्येपां निर्गमादपरेषां च प्रवेशनात् उपचयापचयौ दृष्टौ तथा अनादिकार्मणकोष्ठागारस्यान्येपां कर्मणां भोगात् आदानाच्चेतरेपामुपचयापचयौ स्तः । आह-किमयं बन्ध एकरूप एव आहोस्वित् प्रकारा अपि अॅस्य सन्तीति ? अत इदमाह
प्रकृतिस्थित्यनुभवप्रदेशास्तद्विधयः ॥ ३ ॥
अकर्तरीत्यनुवृत्त रपादानसाधना प्रकृतिः ।। "सियां क्तिः" [जैनेन्द्र० २।३।७५] इत्यत्र ३० अकर्तरीत्यनुवर्तते तस्मादपादाने प्रकृतिशब्दो व्युत्पाद्यते-प्रक्रियते अस्या ज्ञानावरणादेरर्थानवगमादिति प्रकृतिः।
__ भावसाधनौ स्थित्यनुभवौ ।। स्थानं स्थितिः अनुभवनमनुभव इति भावसाधनत्वमनयोरवगन्तव्यम् ।
कर्मसाधनः प्रदेशशब्दः ।३। प्रदिश्यतेऽसावितिं प्रदेशः कर्मणि घञ्।
१ मुक्त्यभावः मु०, द० । २ मिथ्यात्व । ३ तदजनेन मूः। तदनेन मु०, ब० । ४ इति नैमु०, ब०। ५ बन्धस्य ।