________________
सा२]
मष्टमोऽध्यायः दीनां चतुर्णा कषाययोगौ । 'उपशान्तक्षीणकषायसयोगकेवलिनाम् एक एव योगः। अयोगकेवली अबन्धहेतुः । तत्र च मिथ्यादर्शनादिविकल्पानां प्रत्येकं बन्धहेतुत्वमवगन्तव्यम् । न हि सर्वाणि मिथ्यादर्शनानि एकस्मिन्नात्मनि युगपत् संभवन्ति, नापि हिंसादयः सर्वे परिणामाः। ..
___ अविरतेः प्रमादस्य चाऽविशेष इति चेत् ; न; विरतस्यापि प्रमाददर्शनात् । ३२। स्यादेतत्प्रमादोऽपि अविरतिरेवेति पृथग्ग्रहणमनर्थकमिति; तन्नः किं कारणम? विरतस्यापि प्रमाददर्शनात् । ५ विरतस्यापि पञ्चदश प्रमादाः संभवन्ति-विकथाकषायेन्द्रियनिद्राप्रणयलक्षणाः।
कषायाऽविरत्योरभेद इति चेत् ;न; कार्यकारणभेदोपपत्तेः।३३। स्यादेतत्-कषायाविरत्योर्नास्ति भेदः उभयोरपि हिंसादिपरिणामरूपत्वादिति; तन्न; किं कारणम् ? कार्यकारणभेदोपपत्तेः। कारणभूता हि कषायाः कार्यात्मिकाया हिंसाद्यविरतेरर्थान्तरभूता इति ।
आह-प्रपञ्चेनोपपादितान् बन्धहेतून्निरचेष्म, इदं तु सन्दिनः अमूर्तेरात्मनो हस्ताद्यसंभवे १० सत्यादानशक्तिविरहात् कथं बन्धों भवतीति ? 'इमे महे-आत्मकर्मबन्धसन्ततः पूर्वापरीभावानवधारणात् । नैवमवधार्यते-पूर्वमात्मा पश्चात् कर्माणि प्राक् वा कर्माण्यवर आत्मा' इति ऐकान्तिकाऽमूर्तत्वनिवृत्तिः । ततः कर्मशरीरसंबन्धी तप्तायःपिण्डोऽम्भ इवसकषायत्वाजीवः कर्मणो योग्यान पुदलानादत्ते स बन्धः ॥२॥
पुनः कषायग्रहणमनुवाद इति चेत्, न; कर्मविशेषाशयवाचित्वात् जठराग्निवत् ।। १५ यथा जठराग्न्याशयानुरूपमभ्यवहरणं तथा कषायेषु सत्सु तीव्रमन्दमध्यमकषायाशयानुरूपे स्थित्यनुभवने भवत इत्येतस्य विशेषस्य प्रतिपत्त्यर्थ बन्धहेतुविधाने कषायग्रहणं निर्दिष्टं पुनरनूद्यते ।
जीवाभिधानं प्रचोदितत्वात् ।२। बच्चोदितम्-अमूर्तिरहस्तो जीवः कथं कर्मादत्त इति तस्य प्रतिवचनार्थ जीव इत्यभिधीयते।
जीवनाविनिर्मुक्तत्वाद्वा ।३। जीवनमायुस्तदविनिर्मुक्तोऽयं कर्मादत्ते न विनिर्मुक्त इति, २० अतश्च जीववचनम् ।
कर्मणो योग्यानिति पृथग्विभक्त्युच्चारणं वाक्यान्तरक्षापनार्थम् ।४। कर्मयोग्यानिति लघुनिर्देशात् सिद्धे कर्मणो योग्यानिति पृथग्विभक्त्युच्चारणं वाक्यान्तरज्ञापनार्थ क्रियते । किं पुनस्तद्वाक्यान्तरम् ? 'कर्मणो जीवः सकषायो भवति' इत्येकं वाक्यम् । एतदुक्तं भवति-कर्मण इति हेतुनिर्देशः, कर्मणो हेतोर्जीवः सकषायो भवति, नाकर्मकस्य कषायलेपोऽस्ति, ततः जीवकर्म- २५ णोरनादिसंबन्ध इति । द्वितीयं वाक्यम्-'कर्मणो योग्यान पुद्गलानादत्ते' इति । एतदुक्तं भवतिअर्थवशाद्विभक्तिपरिणाम इति प्राक्कर्मण इति हेतुनिर्देश इह संबन्धनिर्देशः संपद्यते-सकषायत्वाजीवः कर्मणो योग्यान पुद्गलानादत्त इति ।
पुद्गलवचनं कर्मणस्तादात्म्यख्यापनार्थम् ।। पुद्गलात्मकं कर्मेत्येतस्य विशेषस्य ख्यापनार्थ पुद्गलग्रहणं क्रियते।
तदसिद्धमिति चेत् ; न; अमूर्तेरनुग्रहोपघाताभावात् ।। स्यादेतत्-पौगलिकं कर्मत्येतदसिद्धम् आत्मगुणत्वात् तस्येति; तन्नः किं कारणम् ? अमूर्तेरनुग्रहोपघाताभावात् । यथा आकाशम
१ शान्तक्षीण-मु०, द०। २ संबंधो मु, द.। ३ प्रत्याभूता वयम्। ४-कर्मसंबंध-मु०, द०। ५-यपर आ-मु०, ता०, श्र० । ६-धात्तप्तायः-मु०। ७ प्रचोदकेन । -लेशोऽस्ती-मु०। १-- योग्यान् मु०,१०।