________________
५६४ तत्त्वार्थवार्तिके
[८१ नियतपरिणामनिमित्तस्यान्यथाविधिनिषेधासंभवात् ।२६। नियतं शुभाशुभलक्षणं परिणामं प्रतीत्य पुण्यपापकर्मबन्धो भवति । नासावन्यथा विधातुं निषेधुवा शक्यते । यदि स्यात् । असनेतितकर्मबन्धाभ्युपगमे बन्धमोक्षप्रक्रियाविरोधः स्यात् ।
कर्तुरसंभवाच्च ।२७। “अग्निहोत्रं जुहुयात् स्वर्गकामः" [मैत्रा० ६३५] अग्निहवनादिक्रियायाः ५ कर्ता पिण्डो वा स्यात् भौतिकः, पुरुषो वा ? यदि भौतिकः पिण्डः; तस्याचेतनत्वात् घटादिवत् पुण्यापुण्यलक्षक्रियासंचेतनाभावात् कर्तृत्वाभावः। अथ पुरुषः; स नित्यो वा स्यात् , क्षणिको वा ? यदि क्षणिकः; मन्त्रार्थानुस्मरणतत्प्रयोगानुविधानचिन्तनाद्यभावात् न कर्तृत्वमुपपन्नम् । अथ हि नित्यः स्यात् । पूर्वापरकालतुल्यत्वात् विक्रियाविरहे दूरादेव कर्तृत्वं व्यावृत्तं
ततः कर्तुरभावात् क्रियाफलानभिसंबन्धः । “पुरुष एवेदं सर्व यच्च भूतं यच भाष्यम्" [ऋक्० १० १००] इत्येवमाद्युपनिषद्वाक्यप्रामाण्याच्च एकपुरुषैकान्तकल्पनायां वध्यघातकादिविवेकाभावः। • चेतनाशक्तिपरिणाममात्राभ्युपगमे च दृश्यस्य 'विश्वरूपस्याभावात् प्रत्यक्षविरोधः, प्रमाणतदाभासाविशेषप्रसङ्गोऽस्तु । निर्विकल्पपुरुषतत्त्वकल्पनायां च निर्विकल्पत्वादिविकल्पभावाभावयोः सङ्गरवचनविरोधप्रसङ्गश्चेति विषयतृष्णातुरविकल्पितं वैदिकवचनं न प्रमाणीकर्तव्यम् ।
एवं परोपदेशनिमित्तमिथ्यादर्शनविकल्पा अन्ये च संख्येया योज्याः याः, परिणाम१५ विकल्पात् असंख्येयाश्च भवन्ति, अनन्ताश्च अनुभागभेदात् । यन्नैसर्गिकं मिथ्यादर्शनं तदप्येकद्वित्रिचतुरिन्द्रियासं झपञ्चेन्द्रियसंज्ञितिर्यम्लेच्छशवरपुलिन्दादिपरिग्रहादनेकविधम् ।
___ पञ्चधिधं वा ।२८। अथवा पञ्चविधं मिथ्यादर्शनमवगन्तव्यम्-एकान्तमिथ्यादर्शनं विपरीतमिथ्यादर्शनं संशयमिथ्यादर्शनं वैनयिकमिथ्यादर्शनम् आज्ञानिकमिथ्यादर्शनं चेति । तत्रेदमेवेत्थमेवेति धर्भिधर्मयोरभिनिवेश एकान्तः, “पुरुष एवेदं सर्वम्" [ऋक् सं० १०६०] इति वा, नित्य एव वा अनित्य एवेति, सग्रन्थो निर्ग्रन्थः, केवली कवलाहारी, स्त्री सिद्धथतीत्येवमादिविपर्ययः । सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः किं स्याद्वा नवेति मतिद्वैधं संशयः। सर्वदेवतानां सर्वसमयानां च समदर्शनं वैनयिकत्वम् । हिताहितपरीक्षाविरह आज्ञानिकत्वम् । ___अविरतिकषाययोगा द्वादशपञ्चविंशतित्रयोदशभेदाः ॥२६॥ अविरतिः कषायः योगः इत्येते द्वादश-पञ्चविंशति-त्रयोदशभेदाः द्रष्टव्याः। तत्र पृथिव्यप्तेजोवायुवनस्पतित्रसकायचक्षुः२५ श्रोत्रघ्राणरसनस्पर्शननोइन्द्रियेषु हननासंयमनाविरतिभेदात् द्वादशविधा अविरतिः। षोडश
कषायाः नव नोकषायाः ईषर्दो नभेद इति पश्चविंशतिः कषायाः। चत्वारो मनोयोगाः चत्वारो वाग्योगाः पञ्च काययोगाः इति त्रयोदशविकल्पो योगः, आहारककाययोगाऽऽहारकमिश्रयोगयोः प्रमत्तसंयते संभवात् पञ्चदशापि भवन्ति ।
प्रमादोऽनेकविधः।३०। भावकायविनयेर्यापथभैक्ष्यशयनासनप्रतिष्ठापनवाक्यशुद्धिलक्षणा३० ष्टविधसंयम-उत्तमक्षमामार्दवार्जवशौचसत्यतपस्त्यागाऽऽकिश्चन्यब्रह्मचर्यादिविषयानुत्साहभेदादनेकविधःप्रमादोऽवसेयः ।।
समुदायावयवयोर्बन्धहेतुत्वं वाक्यपरिसमाप्तेर्वैचित्र्यात् ॥३१॥ मिथ्यादर्शनादीनां बन्धहेतुत्वं समुदायेऽवयवे च वेदितव्यम् । कुतः ? वाक्यपरिसमाप्तर्वैचित्र्यात् । तत्र मिथ्यादृष्टः
पञ्चापि समुदिताः बन्धहेतवः । सासादनसम्यग्दृष्टि-असंयतसम्यग्दृष्टीनामविरत्यादयश्चत्वारः । ३५ संयतासंयतस्याविरतिमिश्राः प्रमादकषाययोगाश्च । प्रमत्तसंयतस्य प्रमादकषाययोगाः। अप्रमत्ता
अचेतनरूपतया दृश्यमापृथ्ठयादि चिद्रूपतया विविधरूपस्य । विरूपस्य मु०, द.। विविधरूपस्य श्र०।२-द्वैतं सं-मु०, ९०, ब० । ३-होऽशा-ता०, श्रा, मू०।४ नो भेद मु०, २०।५ मनः ।