________________
अष्टमोऽध्यायः
"सुनिश्चितं नः परतन्त्रेयुक्तिषु स्फुरन्ति याः काश्चन सूक्तसंपदः ।
तवैव ताः पूर्वमहार्णवोत्थिता जगव्प्रमाणं जिनवाक्यविमुषः || ” [ द्वात्रिं० १।३० ] इति । श्रद्धामात्रमिति चेत्; न; भूयसामुपलब्धेः रत्नाकरवत् ॥१८॥ स्यादेतत्-आर्हतमेव प्रवच्तं सर्वेषामविशयज्ञानानां प्रभव इति श्रद्धामात्रमेतत् न युक्तिक्षममिति; तन्न; किं कारणम् ? भूयसामुपलब्धेः रत्नाकरवत् । यथा ग्रामनगरपत्तनादिषु दृश्यमानानामपि रत्नानां द्रव्यभवत्व - ५ मध्यवस्यति लोकः, भूयसामुपलब्धे रत्नाकर एव तेषां प्रभव इत्यध्यवसीयते, तथा सर्वातिशयज्ञाननिधानत्वात् जैनमेव प्रवचनम् आकर इत्यवगम्यते ।
१]
५६३
तद्भवत्वात्तेषामपि प्रामाण्यमिति चेत्; न; निःसारत्वात् काचादिवत् | १९| अथ मतमेतत्-यदि वेदव्याकरणादीनाम् अर्हत्प्रवचनोद्भवत्वमभ्युपगम्यते, तेषां प्रामाण्यात् तद्विहितहिंसानुष्ठानं दानादिवन्न 'दोषकरमिति; तन्न; किं कारणम् ? निःसारत्वात् । यथा काचमणिक्षारशम्बू- १० कादीनां रत्नाकरसमुद्भवत्वेऽपि निःसारत्वं तथा वेदादीनां जिनशासनसमुद्रसमुद्भवत्वेऽपि न प्रामाण्यमित्यवसेयम् । किच,
सर्वेषामविशेषप्रसङ्गात् | २०| यदि हिंसा धर्मसाधनं मत्स्यबन्ध ( वधक) शाकुनिक 'शौकरिकादीनां सर्वेषामविशिष्टा धर्मावाप्तिः स्यात् । ततश्चाऽहिंसालक्षणो धर्म इत्येवमादिवचनमयुक्तं स्यात् ।
यज्ञात्कर्मणोऽन्यत्र वधः पापायेति चेत्; न; उभयत्र तुल्यत्वात् ॥ २१ ॥ स्यादेतत् यज्ञे १५ पशुवधः प्रत्यवायहेतुर्न भवति अन्यत्र पापहेतुरिति न अहिंसालक्षणधर्मविरोध इति; तन्न; किं कारणम् ? उभयत्र तुल्यत्वात् । उभयत्र हि असौ दुःखहेतुत्वेन तुल्यः, अतः फलेनापि समेन भवितव्यम् । अन्तर्वेदिगतः पशुवधः प्रत्यवायहेतुः प्राणवियोगहेतुत्वात् बहिर्वेदिपशुवधवत्, विपर्ययो वा ।
तादर्थ्यात् सर्गस्येति चेत्; न; साध्यत्वात् ॥ २२॥ स्यादेतत्-" यज्ञार्थ पशवः सृष्टाः स्वयमेव २० स्वयंभुवा ।” [मनु० ५।३] ' इति । अतः सर्गस्य यज्ञार्थत्वात् न तस्य विनियोक्तुः पापमिति, तन्न; किं कारणम् ? साध्यत्वात् । साध्यमेतत्-स्वयंभुवा यज्ञार्थ पशवः सृष्टा इति ।
अन्यथोपयोगे दोषप्रङ्गात् | २३ | यद्धि यदर्थं तस्यान्यथोपयोगे दोषो दृष्टः यथा श्लेष्मप्रशमनार्थम् औषधमन्यथा प्रयुज्यमानं दोषकरं तथा यज्ञार्थः पशुसर्ग इति कृत्वा क्रयविक्रयादिषु क्रियमाणेषु कर्तुरनिष्टफलावाप्तिः प्रसज्येत ।
मन्त्रप्राधान्याददोष इति चेत्; न; प्रत्यक्षविरोधात् | २४| स्यान्मतम् - यथा विषं मन्त्रप्राधान्यादुपयुज्यमानं न मरणकारणम्, तथा पशुवधोऽपि मन्त्रसंस्कारपूर्वकः क्रियमाणो न पापहेतुरिति; तन्न; किं कारणम् ? प्रत्यक्षविरोधात् । यथा मन्त्रेण संस्क्रियमाणं विषं गौरवहीनं प्रत्यक्षत उपलभ्यते, यथा वा विना रज्जुनिगलादिबन्धेभ्यो जलमनुष्यादिं स्तम्भयन्तः प्रत्यक्षतः प्रतीताः मन्त्रबलादेव केवलात्, तथा यदि मन्त्रेभ्य एव केवलेभ्यो याज्ञे कर्मणि पशून्निपातयन्तः दृश्येरन् ३० मन्त्रबलं श्रद्धीयेत । दृश्यते तु रज्वादिभिर्मारणम् । तस्मात् प्रत्यक्षविरोधात् मन्यामहे न मन्त्रसामर्थ्यमिति ।
हिंसादोषाविनिवृत्तेः । २५॥ अभ्युपगम्योच्यते यथा शस्त्रादिभिः प्राणिनो व्यापादयन्नशुभाभिसन्धिः पापेन बध्यते तथा मन्त्रैरपि पशून मारयन् दुष्कर्मबन्धी भवेदेवेति हिंसादोषो न निवर्तते ।
२५
१ सिद्धान्त । २ दोषकारणमिति - मु० । ३ सौकरिका - मु०, ता० द० । ४ इत्यङ्गि सर्गस्य मु० । ५ सृष्टेः । ६- त् यथा - ता०, न०, मू० ।
३५