________________
१०]
अष्टमोऽध्यायः तदनुबन्धिनोऽनन्तानुबन्धिक्रोधमानमायलोभाः । यदुदयादेशविरतिं संयमासंयमाख्यामल्पामपि कतुं न शक्नोति ते देशप्रत्याख्यानमावृण्वन्त अप्रत्याख्यानावरणाः क्रोधमानमायालोभाः। यदुदयाद्विरतिं कृत्स्ना संयमाख्यां न शक्रोति कत ते कृत्स्नं प्रत्याख्यानमावृण्वन्तः प्रत्याख्यानावरणाः क्रोधमानमायालोभाः। समेकीभावे वर्तते, संयमेन सहावस्थानादेकीभूताः ज्वलन्ति, संयमो वा ज्वलति एतेषु सत्स्वपीति सज्वलनाः क्रोधमानमायालोमाः । त एते समुदिताः षोडश कषाया ५ भवन्ति ।
आह-व्याख्यातमष्टाविंशत्युत्तरप्रकृतिभेदं मोहनीयम् , अथायुषश्चतुर्विधस्य को नामनिर्देश इति ? अत्रोच्यते
नारकतैर्यग्योनमानुषदेवानि ॥१०॥ नारकादिषु भवसंबन्धेनायुर्व्यपदेशः ।। नारकादिषु भवसंबन्धेनायुषो व्यपदेशो भवति- १० नरकेषु भवं नारकं तिर्यग्योनौ भवं तैर्यग्योनं मनुष्येषु भवं मानुषं देवेषु भवं दैवमिति ।
यदावाभावयोर्जीवितमरणं तदायुः।२। यस्य भावात् आत्मनः जीवितं भवति यस्य चाभावात् मृत इत्युच्यते तद्भवधारणमायुरित्युच्यते।
अनादि तनिमित्तमिति चेत् ; न तस्योपग्राहकत्वात् ।। स्यादेवत-अन्नादि तन्निमित्त तल्लाभालाभयोर्जीवितमरणदर्शनादिति; तन्नः किं कारणम् ? तैस्यानुप्राहकत्वात् । यथा घटभवने १५ मृत्पिण्डो मूलकारणं तस्योपग्राहकं दण्डादि, तथाऽभ्यन्तरं भवधारणस्य कारणमायुः, अनादि तस्योपग्राहकम् , अतश्चैतदेवं यत् क्षीणायुषोऽन्नादिसन्निधानेऽपि मरणं दृश्यते ।
देवनारकेषु चानाधभावात् ।। देवेषु नारकेषु चान्नाद्यभावात् भवधारणमायुरधीनमेवेत्यवसेयम् । तेषां हि कादाचित्क आहारोऽनाभोगो व्याख्यातः ।
नरकेषु तीव्रशीतोष्णवेदनेषु यनिमित्त दीर्घजीवनं तन्मारकायुः । नरकेषु तीव्रशीतो- २० ष्णवेदनाकरेषु यन्निमित्तं दीर्घजीवनं भवधारणं भवति तन्नारकायुः ।
चुत्पिपासाशीतोष्णादिकृतोपद्रवप्रचुरेषु तिर्यचु यस्योदयावसनं तत्तर्यग्योनम् ।। क्षुत्पिपासाशीतोष्णदंशमकादिविविधव्यसनविधेयीकृतेषु तिर्यतु यस्योदयाद्वसनं भवति तत्तैर्यग्योनमायुरवगन्तव्यम् ।
शारीरमानससुखदुःखभूयिष्ठेषु मनुष्येषु जन्मोदयात् मनुष्यायुषः ।। शारीरेण मान- २५ सेन च सुखदुःखेन समाकुलेषु मनुष्येषु यस्योदयाज्जन्म भवति तन्मानुषमायुरवसेयम् ।
शारीरमानससुखप्रायेषु देवेषु जन्मोदयात् देवायुषः ।। शारीरेण मानसेन च सुखेन प्रायः समाविष्टेषु देवेषु यस्योदयाज्जन्म भवति तद्देवमायुरवगन्तव्यम् । कदाचित् 'प्रियविप्रयोगात् महर्द्धिदेवनिरीक्षणात् च्यवनलिङ्गाज्ञाहानिमालाभूषाम्लानदर्शनाच मानसं दुःखमाविर्भवतीति ज्ञापनार्थ प्रायग्रहणम् ।
आह-व्याख्यातमायुश्चतुर्विधं तदनन्तरमुद्दिष्टं यन्नामकर्म तदुत्तरप्रकृतिसमाख्याः का इति ? अत्रोच्यते
भाप्रवा-० । ईषत्प्रत्याख्यान । २ भायुषः । ३ प्रियावि-म० द०,०।