________________
अष्टमोऽध्यायः आस्रवपदार्थ उक्तः । अवसरप्राप्तं बन्धं व्याचक्ष्महे । स पुनश्चेतनेतरद्रव्यपरिणामः नामादिचतुष्टयधर्मभागपि द्रव्यभावबन्धविशेषाद् द्वयीमवस्थां बिभर्ति । तत्र जतुकाष्ठरज्जुनिगलादिलक्षणं द्रव्यबन्धं बहुप्रकारं हित्वा प्रकरणसामर्थ्याद्भावबन्धं ब्रूमः । स द्वेधा-कर्म-नोकर्मबन्धभेदात् । मातापितृपुत्रस्नेहसंबन्धः नोकर्मबन्धः । यः पुनः अयमितरः कर्मबन्धः तं पौन विक- ५ कर्मबन्धसन्ततिसद्भावादादिमन्तमनादिमन्तं च प्रतिजानीमहे बीजाकुरप्रादुर्भावसन्तानवत् । आह-आस्तां तावद्व्याख्यानम् , इदमेव तावदने वक्तव्यम्-के]इमे बन्धहेतवो यैरयं बन्धः प्रवर्तत इति ? इतरथा हि बन्धपदार्थप्रक्लप्तये पुनस्तद्धतवः प्रणेतव्याः स्युः।।
स्यादेतत्-कारणाभावाद् बन्धप्रसिद्धिसामर्थ्यमित्येतच वार्तम्, अनिर्मोक्षप्रसङ्गात् । अकस्माच तदभावात् । यद्यकस्माद्वन्धः; मोक्षः कस्मानाकस्मात् ? न चाकस्माद्वन्धमोक्षौ; तदर्थप्रक्रिया- १० विरोधप्रसङ्गात् । अतो बन्धमुक्त्वा मा पुनर्वाचं' इति आदौ एव बन्धकारणनिर्देशोऽनुष्ठेयः। कार्य-कारणयोश्च पूर्वापरभावात् पूर्व कारणं वाच्यं पश्चात् कार्यम् ; उच्यते-न वक्तव्याः . पुनरिह, यस्मात् षष्ठसप्तमयोः विविधफलानुग्रहतन्त्रास्रवप्रकरणवशात् सप्रपश्चाः आत्मनः कर्मबन्धहेतबो व्याख्याताः। के पुनस्ते ? ।
मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ॥ १॥ १५ क पुनरेते उक्ताः ?
मिथ्यादर्शनं क्रियास्वन्तर्भूतम् ।। पञ्चविंशतिः क्रिया उक्ताः तारवन्तर्भूतं मिथ्यादर्शनं द्रष्टव्यम्।
विरतिप्रतिपक्षभूताऽप्यविरतिः ।२। विरतिर्व्याख्याता, तत्प्रतिपक्षभूता अविरतिरपि तत्रैव वर्णिता "इन्द्रियकषायाव्रतक्रियाः" [त. सू० ६५] इत्यत्र ।
अज्ञाव्यापादनानाकातक्रिययोरन्तर्भावः प्रमादस्य ।३। आज्ञाव्यापादनक्रियाऽनाकाङ्क्ष क्रियेत्यनयोः प्रमादस्यान्तर्भावो वेदितव्यः। स च प्रमादः कुशलेष्वनादरः मनसोऽप्रणिधानम् ।
कषायाः क्रोधादयः प्रोक्ताः ।४। क्रोधादयोऽनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्ज्वलनविकल्पाः कषायाः प्रोक्ताः । क? "इन्द्रियकषायावतकियाः" [त. सू० ६।५] इत्यत्रैव ।
: कायादिविकल्पः प्रक्लुप्तः ।। योगश्च कायादिविकल्पः प्रक्लप्तः । क ? “कायवा- २५ रू मनस्कर्म योगः" [त. सू० ६।१] इत्यत्र ।
मिथ्यादर्शनं उधा-नैसर्गिकपरोपदेशनिमित्तभेदात् ।६। मिथ्यादर्शनं द्वेधा व्यवतिष्ठते । कुतः ? नैसर्गिकपरोपदेशनिमित्तभेदात् ।
तत्रोपदेशनिरपेक्षं नैसर्गिकम् ।७। तत्र परोपदेशमन्तरेण मिथ्याकर्मोदयवशात् यदाविर्भवति तत्त्वार्थाश्रद्धानलक्षणं तन्नैसर्गिकमिति व्यवसीयते ।
__ परोपदेशनिमित्तं चतुर्विधं क्रियाऽक्रियावाद्याज्ञानिकवैनयिकमतविकल्पात् ।। परोपदेशनिमित्तं मिथ्यादर्शनं चतुर्विधमवगन्तव्यम् । कुतः ? क्रियाऽक्रियावाद्याज्ञानिकवैनयिकमतविकल्पात् ।
विशेषाख्यानं बन्धस्य । २ असारम् । ३ कुतः। कारणम् । लुकि उत्तमपुरुषैकवचनमिदम् । .५ भाचार्यवचनमिदम् । ६ अध्याययोः ।