________________
५६० तत्त्वार्थवार्तिके
[७३६ निरात्मकत्वेसर्वभावामां वियादिस्वरूपाभावः । निरात्मकाः सर्वे भावा इत्यस्मिन् दर्शने विध्यादिस्वरूपाभावः स्यात् । अस्ति चेद्विध्यादिस्वरूपम् ; 'निरात्मकाः सर्वे भावाः' इत्यमुष्य सारस्थ व्याघातः।
क्षणिकत्वाञ्च विज्ञानस्य तदभिसन्धानाभावः ।। क्षणमात्रावलम्बिनि विज्ञाने 'पात्रभूतोऽ ५ यमृषिस्तपःस्वाध्यायपरायणो मामनुगृहीष्यति, अस्मै च देयमिदं ब्रतशीलभावनापरिबृंहणकरम् , अयं चात्र विधिः' इत्यभिसन्धिर्न स्यात् , पूर्वोत्तरक्षणविषयसंस्कारावग्रहसमर्थकज्ञानाभावात् ।
नित्यत्वाशत्वनिष्क्रियत्वाच ।। 'यस्यापि दर्शनम्-सत भात्मनोऽकारणत्वान्नित्यत्वम् , ज्ञानगुणादथोन्तरभूतत्वादशत्वम् , सर्वगतत्वानिष्क्रियत्वम् । तस्य तत एव विध्याद्यनुपपत्तिः।
क्रियागुणसमवायादुपपत्तिरिति चेत् । न तत्परिणामाभावात् ।१०। स्यादेतत्-अर्थान्तर१० त्वेऽपि इहेदं बुद्धिलक्षणात् समवायादेकत्वापत्ताविव तव्यपदेशोपपत्तेः.विध्याद्यपपत्तिरिति तन्न
किं कारणम् ? तत्परिणामाभावात् । यथा देवदत्तस्य दण्डयोगाद्दण्डिव्यपदेशेऽपि न दण्डस्वभावापत्तिः तथा आत्मनोऽपि क्रियागुणवव्यपदेशेऽपि तत्स्वभावसंक्रमाभावः, ततश्चाधिकृतविध्याद्यभाव एव ।
क्षेत्रस्य वाऽचेतनत्वात् ।११। यस्यापि दर्शनम्-चतुर्विंशतिविध क्षेत्रमचेतनम् , क्षेत्रज्ञश्चे१५ तनः पुरुष इति; तस्यापि क्षेत्रस्याचेतनत्वाद्विध्याघभिसन्धानाभावो घटादिवत् । अथास्ति विध्या
घभिसन्धिः, न तर्हि अचेतनं क्षेत्रम् । क्षेत्रज्ञस्य च नित्यत्वात् शुद्धत्वात् निःक्रियत्वादेव विध्याद्यनुपपत्तिः ।
स्याद्वादिनस्तदुपपत्तिरनेकान्ताश्रयणात् ।१२। स्याद्वादिनस्तु तेषां विध्यादीनामुपपत्तिः । कुतः ? अनेकान्ताश्रयणात-स्यान्नित्य आत्मा स्यादनित्य इत्येवमाद्यनेकान्ताश्रयणादेकान्तरष्टि२० दोषाभावः।
इति तत्त्वार्थवार्तिके व्याख्यानालङ्कारे सप्तमोऽध्यायः समाप्तः ॥७॥
पाकिस्व-स.टि.। २ सांस्पस्य-सटि०। ३ शरीरम् । महदहकारादिभेदात् चतुर्विशतिविधप्रकृत्यात्मकं जडतत्वम्-स० टि० ।५ मा भवतु नाम क्षेत्रस्य आत्मनो भवतु को दोषः । ५-कम्या-मु०। ६-ध्यायः मु., मू०॥